भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.50

1.50.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णाश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः
श्रीगरुडमहापुराणम्- 50
ब्रह्मोवाच ।
अहन्यहनि यः कुर्यात्क्रियां स ज्ञानमाप्नुयात् ।
ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत्

1.50.2

चिन्तयेद्धृदि पद्मस्थमानन्दमजरं हरिम् ।
उषः काले तु संप्राप्ते कृत्वा चावश्यकं बुधः

1.50.3

स्त्रायान्नदीषु शुद्धासु शौचं कृत्वा यथाविधि ।
प्रतः स्नानेन पूयन्ते ये ऽपि पापकृतो जनाः

1.50.4

तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ।
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टष्टकरं हि तत्

1.50.5

सुखात्सुप्तस्य सततं लालाद्याः संस्त्रवन्ति हि ।
अतो नैवाचरेत्कर्माण्यकृत्वा स्नानमादितः

1.50.6

अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् ।
प्रतः स्नानेन पापानि धूयन्ते नात्र संशयः

1.50.7

न च स्नानं विना पुंसां प्राशस्त्यं कर्म संस्मृतम् ।
होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत्

1.50.8

अशक्तावशिरस्कं तु स्नानमस्य विधीयते ।
आर्द्रेण वाससा वापि मार्जनं कायिकं स्मृतम्

1.50.9

ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च ।
वारुणं यौगिकं तद्वत्षडङ्गं स्नानमाचरेत्

1.50.10

ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः ।
आग्रेयं भस्मनाऽपादमस्तकाद्देहधूननम्

1.50.11

गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् ।
यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते

1.50.12

वारुणं चावगाहं च मानर्स त्वात्मवेदनम् ।
यौगिकं स्नानमाख्यातं योगेन हरिचिन्तनम्

1.50.13

आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः ।
क्षीरवृक्षसमुद्भूतं मालतीसम्भवं शुभम्

1.50.14

अपामार्गं च विल्वं च करवीरं च धावने ।
उदङ्मुखः प्राङ्मुखो वा भक्षयेद्दन्तधावनम्

1.50.15

प्रक्षाल्य भुक्त्वा तज्जह्याच्छुचौ देशे समाहितः ।
स्नात्वा सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा

1.50.16

आचम्य विधिवन्नित्यं पुनराचम्य वाग्यतः ।
संमार्ज्य मन्त्रै रात्मानं कुशैः सोदकबिन्दुभैः

1.50.17

आपोहिष्ठाव्याहृतिभिः सावित्र्या वारुणैः शुभैः ।
ओङ्कारव्याहृतियुतां गायत्त्रीं वेदमातरम्

1.50.18

जप्त्वा जलाञ्जलिं दद्याद्भारस्करं प्रति तन्मनाः ।
प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः

1.50.19

प्राणायामं ततः कृत्वा ध्यायेत्सन्ध्यामिति श्रुतिः ।
या सन्ध्या सा जगत्सूतिर्मायातीता हि निष्कला

1.50.20

ऐश्वरी केवला शक्तिस्तत्त्वत्रयसमुद्भवा ।
ध्यात्वा रक्तां सितां कृष्णां गायत्त्रीं वै जपेद्वुधः

1.50.21

प्राङ्मुखः सततं विप्रः सन्ध्योपासनमाचरेत् ।
सन्ध्याहीनो ऽशुचिर्नित्यमनर्हः सर्वकर्मसु

1.50.22

यदन्यत्कुरुते किञ्चिन्न तस्य फलभाग्भवेत् ।
अनन्यचेतसः सन्तो ब्राह्मणा वेदपारगाः

1.50.23

उपास्य विधिवत्सन्ध्यां प्राप्ताः पूर्वपरां गतिम् ।
यो ऽन्यत्र कुरुते यत्नं धर्म कार्ये द्विजोत्तमः

1.50.24

विहाय सन्ध्याप्रणतिं स याति नरकायुतम् ।
तस्मात्सर्वप्रयत्नेन सन्ध्योपासनमाचरेत्

1.50.25

उपासितो भवेत्तेन देवो योगतनुः परः ।
सहस्रपरमां नित्यां शतमध्यां दशावराम्

1.50.26

गायत्त्रीं वै जपेद्विद्वान्प्राङ्मुखः प्रयतः शुचिः ।
अथोपतिष्ठेदादित्यमुदयस्थं समाहितः

1.50.27

मन्त्रैस्तु विविधैः सौरैः ऋग्यजुःसामसंज्ञितैः ।
उपस्थाय महायोगं देवदेवं दिवाकरम्

1.50.28

कुर्वीत प्रणतिं भूमौ मूर्धानमभिमन्त्रितः ।
ओं खखोल्काय शान्ताय कारणत्रयहेतवे

1.50.29

निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे ।
त्वमेव ब्रह्म परममापो ज्योती रसो ऽमृतम्

1.50.30

भूर्भुवः स्वस्त्वमोङ्कारः सर्वो रुद्रः सनातनः ।
एतद्वै सूर्यहृदयं जप्त्वा स्तवनमुत्तमम्

1.50.31

प्रातः काले च मध्याह्ने नमस्कुर्याद्दिवाकरम् ।
अथागम्य गृहं विप्रः (पश्चात्) समाचम्य यथाविधि

1.50.32

प्रज्वाल्य वह्निं विधिवज्जुहुयाज्जातवेदसम् ।
ऋत्विक् पुत्रो ऽथ पत्नी वा शिष्यो वापि सहोदरः

1.50.33

प्राप्यानुज्ञां विशेषेण जुहुयाद्वा यथाविधि ।
विना म (त) न्त्रेण यत्कर्म नामुत्रेह फलप्रदम्

1.50.34

दैवतानि नमस्कुर्यादुपहारान्निवेदयेत् ।
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत्

1.50.35

वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः ।
जपेद्वाध्यापयेच्छिष्यान्धारयेद्वै विचारयेत्

1.50.36

अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः ।
वैदिकांश्चैव निगमान्वेदाङ्गानि च सर्वशः

1.50.37

उपयादीश्वरं चैव योगक्षेमप्रासिद्धये ।
साधयेद्विविधानर्थान्कुटुम्बार्थं ततो द्विजः

1.50.38

ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् ।
पुष्पाक्षतांस्तिलकुशान् गोमयं शुद्धमेव च

1.50.39

नदीषु देवखातेषु तडागेषु सरः सु च ।
स्नानं समाचरेन्नैव परकीये कदाचन

1.50.40

पञ्च पिण्डाननुद्धृत्य स्नानं दुष्यन्ति नित्यशः ।
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि

1.50.41

अधश्च तिसृभिः क्षाल्यं पादौ षट्भिस्तथैव च ।
मृत्तिका च समुद्दिष्टा वृद्धामलकमात्निका

1.50.42

गोमयस्य प्रमाणं तु तेनाङ्गं लेपयेत्ततः ।
प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः

1.50.43

लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः ।
अभिमन्त्र्य जलं मन्त्रैरालिङ्गैर्वारुणैः शुभैः

1.50.44

त्नानकाले स्मरेद्विष्णमापो नारायणो यतः ।
प्रेक्ष्य ओङ्कारमादित्यं त्रिर्निमज्जेज्जलाशये

1.50.45

आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ।
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः

1.50.46

त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसो ऽमृतम् ।
द्रुपदां वा त्रिरभ्यस्येव्द्याहृतिप्रणवान्विताम्

1.50.47

सावित्रीं वा जपे द्विद्वांस्तथा चैवाघमर्षणम् ।
ततः संमार्जनं कुर्यादापोहिष्ठामयोभुवः

1.50.48

इदमापः प्रवहतव्याहृतिभिस्तथैव च ।
ततो ऽभिमन्त्रितं तोपमापो हिष्ठादिमन्त्रकैः

1.50.49

अन्तर्जलमवाङ्मग्नो जपेत्त्रिरघमर्षणम् ।
द्रुपदां वाथ सावित्ररिं तद्विष्णोः परमं पदम्

1.50.50

आवर्तयेद्वा प्रणवं देवदेवं रमरेद्धरिम् ।
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते

1.50.51

विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः ।
सन्ध्यामुपास्य चाचम्य संस्मरेन्नित्यमीश्वरम्

1.50.52

अथोपतिष्ठेदादित्यमूर्ध्वपुष्पान्विताञ्जलिम् ।
प्रक्षिप्यालोकयेद्देवमुदयन्तं न शक्यते

1.50.53

उदुत्यं चित्रमित्येवं तच्चक्षुरिति मन्त्रतः ।
हंसः शुचिषदेतेन सावित्र्या च विशेषतः

1.50.54

अन्यैः सौरैर्वैदिकैश्च गायत्त्रीं च ततो जपेत् ।
मन्त्रांश्च विविधान्पश्चात्प्राक्कूले च कशासने

1.50.55

तिष्ठंश्च वीक्ष्यमाणोर्ऽकं जपं कुर्यात्समाहितः ।
स्फटिकाब्जाक्षरुद्राक्षैः पुत्रजीवसमुद्भवैः

1.50.56

कर्तव्या त्वक्षाला स्यादन्तरा तत्र सा स्मृता ।
यदि स्यात्क्लिन्नवासा वै वारिमध्यगतश्चरेत्

1.50.57

अन्यथा च शुचौ भूम्यां दर्भेषु च समाहितः ।
प्रदक्षिणं समावृत्य नमस्कृत्य ततः क्षितौ

1.50.58

आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ।
ततः सन्तर्पयेद्देवानृषीन्पितृगणांस्तथा

1.50.59

आदावोङ्कारमुच्चार्य नमो ऽन्ते तर्पयामि च ।
देवान्ब्रह्मऋषींश्चैव तर्पयेदक्षतोदकैः

1.50.60

पितॄन्देवान्मुनीन् भक्त्या स्वसूत्रोक्तविधानतः

1.50.61

देवर्षोंस्तर्पयेद्धीमानुदकाञ्जलिभिः पितॄत् ।
यज्ञोपवीती देवानां निवीती ऋषितर्पणे

1.50.62

प्राचीनावीती पित्र्ये तु तेन तीर्थेन भारत ।
निष्पीड्य स्नानवस्त्रं वै समाचम्य च वाग्यतः

1.50.63

स्वैर्मन्त्रैरर्चयेद्देवान्पुष्पैः पत्रैस्तथाम्बुभिः ।
ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम्

1.50.64

अन्यांश्चाभिमतान्देवान् भक्त्या चाक्रोधनो हर ! ।
प्रदद्याद्वाथ पुष्पादि सूक्तेन पुरुषेण तु

1.50.65

आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ।
ध्यात्वा प्रणवपूर्वं वै देवं वारिसमाहितः

1.50.66

नमस्कारेण पुषापाणि विन्यसेद्वै पृथक्पृथक् ।
नर्ते ह्याराधनात्पुण्यं विद्यते कर्म वैदिकम्

1.50.67

तस्मात्तत्रादिमध्यान्ते चेतसा धारयेद्धरिम् ।
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु

1.50.68

निवेदयेच्च आत्मानं विष्णवे ऽमलतेजसे ।
तदाध्यात्ममनाः शान्तस्तद्विष्णोरिति मन्त्रतः

1.50.69

अप्रेते सशिरा वेतियजेत्वा पुष्पके हरिम् ।
देवयज्ञं पितृयज्ञं तथैव च ।
मानुषं ब्रह्मयज्ञं च पञ्च यज्ञान्समाचरेत्

1.50.70

यदि स्यात्तर्पणादर्वाग्ब्रयज्ञं कुतो भवेत् ।
कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत्

1.50.71

वैश्वदेवस्तु कर्तव्यो देवयज्ञः स तु स्मृतः ।
भूतयज्ञःऋ स वै ज्ञेयो भूतेभ्यो यस्त्वयं बलिः

1.50.72

श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च ।
दद्याद्भूमौ बहिस्त्वन्नं पक्षिभ्यश्च द्विजोत्तमः

1.50.73

एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमाः ।
नित्यश्राद्धं तदुद्दिश्य पितृयज्ञो गतिप्रदः

1.50.74

उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः ।
वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत्

1.50.75

पूजयेदतिथिं नित्यं नमस्येदर्चयोद्द्विजम् ।
मनोवाक्कर्मभिः शान्तं स्वागतैः स्वगृहं ततः

1.50.76

भिक्षामाहुर्ग्रासमात्रमन्नं तत्स्याच्चतुर्गुणम् ।
पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते

1.50.77

गोदोहमात्रकालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् ।
अभ्यागतान्यथाशक्ति पूजयेदतिथिं तथा

1.50.78

भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्यचारिणे ।
दद्यादन्नं यथाशक्ति अर्थिभ्यो लोभवर्जितः

1.50.79

भुञ्जति बन्धुभिः सार्धं वाग्यतो ऽन्नमकुत्सयन् ।
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमः

1.50.80

भुञ्जते चेत्स मूढात्मा तिर्यग्योनिं च गच्छति ।
वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रियाक्षमाः

1.50.81

नाशयन्त्याशु पापानि देवानामर्चनं तथा ।
यो मोहादथ वालस्यादकृत्वा देवतार्चनम्

1.50.82

भुङ्क्ते स याति नरकान्त्सूंकरेष्वेव जायते ।
अशौचं संप्रवक्ष्यामि अशुचिः पातकी सदा

1.50.83

अशौचं चैव संसर्गाच्छुद्धिः संसर्गवर्जनात् ।
दशाहं प्राहुराशौचं सर्वेविप्रा विपश्चितः

1.50.84

मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तम ।
आदन्तजननात् सद्य आचूडादेकरात्रकम्

1.50.85

त्रिरात्रमौपनयनाद्दशरात्रमतः परम् ।
क्षत्त्रियो द्वादशहेन दशभिः पञ्चभिर्विशः

1.50.86

शुध्येन्मासेन वै शूद्रो यतीनां नास्ति पातकम् ।
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावेषु शौचकम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc