भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.49

1.49.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे देवप्रतिष्ठादिनिरूपणं नामाष्टचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 49
इति प्रतिष्ठाप्रकरणं समाप्तम् ।
ब्रह्मोवाच ।
सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः ।
विप्राद्यैः स्वेन धर्मेण तद्धर्मं व्यास ! वै शृणु

1.49.2

यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ।
अध्यापनं चाध्ययनं षट् कर्माणिद्विजोत्तमे

1.49.3

दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः ।
दण्डस्तस्य कृषिर्वैश्यस्य शस्यते

1.49.4

शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ।
कारुकर्म तथाऽजीवो पाकयज्ञो ऽपि धर्मतः

1.49.5

भिक्षाचर्याथ शुश्रूषा गुरोः स्वाध्याय एव च ।
सन्ध्याकर्माग्निकार्यञ्च धर्मो ऽयं ब्रह्मचारिणः

1.49.6

सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम् ।
ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः

1.49.7

यो ऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ।
उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः

1.49.8

अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ।
गृहस्थस्य समासेन धर्मो ऽयं द्विजसत्तम !

1.49.9

उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ।
कुटुम्बभरणे युक्तः साधको ऽसौ गृही भवेत्

1.49.10

ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्याधनादिकम् ।
एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः

1.49.11

भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ।
संविभागो यथान्यायं धर्मो ऽयं वनवासिनः

1.49.12

तपस्तप्यति यो ऽरण्ये यजेद्देवाञ्जुहोति च ।
स्वाध्याये चैव निरतो वनस्थस्तापसोत्तमः

1.49.13

तपसा कर्शितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् ।
सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थितः

1.49.14

योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ।
ज्ञानाय वर्तते भुक्षुः प्रोच्यते पारमेष्ठिकः

1.49.15

यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ।
सम्यक् च दमसम्पन्नः स योगी भिक्षुरुच्यते

1.49.16

भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः ।
सम्यक् च ज्ञानवैराग्यं धर्मो ऽयं भिक्षुके मतः

1.49.17

ज्ञानसन्यासिनः केचिद्वेदसन्यासिनो ऽपरे ।
कर्मसन्यासिनः केचित्त्रिविधः पारमेष्ठिकः

1.49.18

योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवच ।
तृतीयो ऽन्त्याश्रमी प्रोक्तो योगमूर्तिंसमास्थितः

1.49.19

प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना ।
तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी

1.49.20

धर्मात्संजायते मोक्षो ह्यर्थात्कामो ऽभिजायते ।
प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम्

1.49.21

ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत् ।
क्षमा दमो दया दानमलोभा (भो) भ्यास एव च

1.49.22

आर्जवं चान्सूया च तीर्थानुसरणं तथा ।
सत्यं संतोष आस्तिक्यं तथा चेन्द्रियनिग्रहः

1.49.23

देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ।
अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता

1.49.24

एते आश्रमिका धर्माश्चतुर्वर्ण्यं बवीम्यतः ।
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम्

1.49.25

स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ।
वैश्यानां मारुतं स्थानं स्वधरममनुवर्तताम्

1.49.26

गान्धर्वं शूद्रजातीनां परिचारे च वर्तताम् ।
अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम्

1.49.27

स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम् ।
सप्तर्षीणां तु यत्स्थानं स्थानं तद्वै वनौकसाम्

1.49.28

यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् ।
आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्तते मुनिः

1.49.29

योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम् ।
आनन्दमैश्वरं यस्मान्मुक्तो नावर्तते नरः

1.49.30

मुक्तिरष्टाङ्गविज्ञानात्संक्षेपात्तद्वदे शृणु ।
यमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंसनम्

1.49.31

सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् ।
अमैथुनं ब्रह्मचर्यं सर्वत्यागो ऽपरिग्रहः

1.49.32

नियमाः पञ्च सत्याद्या बाह्ममाभ्यन्तरं द्विधा ।
शौचं तुष्टिश्च सन्तोषस्तपश्चोन्द्रियनिग्रहः

1.49.33

स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः ।
आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः

1.49.34

मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः ।
एवं द्विधा त्रिधाप्युक्तं पुरणात्पूरकः स च

1.49.35

कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा ।
लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः

1.49.36

षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ।
ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः

1.49.37

अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ।
अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम्

1.49.38

ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम् ।
अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमानिन्द्रियम्

1.49.39

अहंमनोबुद्धिमहदहङ्कारादिवर्जितम् ।
जाग्रत्स्वप्नसुषुप्त्यादियुक्तज्योतिस्तदीयकम्

1.49.40

नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम् ।
यो ऽसावादित्यपुरुषः सो ऽसावहमखण्डितम् ।
इति ध्यायन्विमुच्येत् ब्राह्मणो भवबन्धनात्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc