भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.51

1.51.1

इति गारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नित्यकर्माशौचयोर्निरूपणं नाम पञ्चाशत्तमो ऽध्यायः
श्रीगरुडमहापुराणम्- 51
ब्रह्मोवाच ।
अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् ।
अर्थानामुचिते पात्रे श्रद्धया प्रतिपादनम्

1.51.2

दानं तु कथितं तज्ज्ञैर्भुक्तिमुक्तिफलप्रदम् ।
न्यायेनोपार्जयेद्वित्तं दानभोगफलं च तत्

1.51.3

अध्यापनं याजनं च वृत्तमाहुः प्रतिग्रहम् ।
कुसीदं कृषिवाणिज्यं क्षत्त्रवृत्तो ऽथ वर्जयेत्

1.51.4

यद्दीयते तु पात्रेभ्यस्तद्दानं परिकीर्तितम् ।
नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम्

1.51.5

अहन्यहनि यत्किञ्चिद्दीयते ऽनुपकारिणे ।
अनुद्दिश्य फलं तस्माद्ब्राह्मणाय तु नित्यशः

1.51.6

यत्तु पापोपशान्त्यै च दीयते विदुपां करे ।
नैमित्तिकं तदुद्दिष्टन्दानं सद्भिरनुष्ठितम्

1.51.7

अपत्यविजयैश्वर्यस्वर्गार्थं यत्प्रदीयते ।
दानं तत्काम्यमाख्यातमृषिभिर्धर्माचिन्तकैः

1.51.8

ईश्वरप्रीणनार्थाय ब्रह्मावित्सुप्रदीयते ।
चेतसा सत्त्वयुक्तेन दानं तद्विमलं शिवम्

1.51.9

इक्षुभिः सन्ततां भुमिं यवगोधूमशालिनीम् ।
ददाति वेदविदुषे स न भूयो ऽभिजायते

1.51.10

भूमिदानात्परं दानं न भूतं न भविष्यति ।
विद्यां दत्त्वा ब्राह्मणाय ब्रह्मलोके महीयते

1.51.11

दद्यादहरहस्तास्तु श्रद्धया ब्रह्मचारिणे ।
सर्वपापविनिर्मुक्तो ब्रह्मस्थानमवाप्नुयात्

1.51.12

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च च ।
उपोष्याभ्यर्चयेद्विद्वान्मधुना तिलसर्पिषा

1.51.13

गन्धादिभिः समभ्यर्च्य वाचयेद्वा स्वयं वदेत् ।
प्रीयतां धर्मराजेति यथा मनसि वर्तते

1.51.14

यावज्जीवं कृतं पापं तत्क्षणादेव नश्यति ।
कृष्णाजिने तिलान्कृत्वा हिरण्यमधुसर्पिषा

1.51.15

ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ।
घृतान्नमुदकं चैव वैशाख्यां च विशेषतः

1.51.16

निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ।
द्वादश्यामर्चयेद्विष्णुमुपोष्याघप्रणाशनम्

1.51.17

सर्वपापविनिर्मुक्तो नरो भवति निश्चितम् ।
यो हि यां देवतामिच्छेत्समाराधयितुं नरः

1.51.18

ब्राह्मणान्पूजयेद्दत्नाद्भोजयेद्योषितः सुरान् ।
सन्तानकामः सततं पूजयेद्वै पुरन्दरम्

1.51.19

ब्रह्मवर्चसकामस्तु ब्राह्मणान्ब्रह्मनिश्चयात् ।
आरोग्यकामो ऽथ रविं धनकामो हुताशनम्

1.51.20

कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् ।
भोगकामो हि शशिनं बलकामः समीरणम्

1.51.21

मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् ।
अकामः सर्वकामो वा पूजयेत्तु गदाधरम्

1.51.22

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।
तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम्

1.51.23

भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।
गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम्

1.51.24

वासोदश्चान्द्रसालोक्यमश्विसालोक्यमश्वदः ।
अनडुद्दः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम्

1.51.25

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
धान्यदः शावतं सौख्यं ब्रह्मदो ब्रह्म शाश्वतम्

1.51.26

वेदवित्सु ददज्ज्ञानं स्वर्गलोके महीयते ।
गवां घासप्रदानेन सर्वपापैः प्रमुच्यते

1.51.27

इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ।
औषधं स्नेहमाहारं रोगिरोगप्रशान्तये

1.51.28

ददानो रोगरहितः सुखी दीर्घायुरेव च ।
असिपत्रवनं मार्गं क्षुरधारासमन्वितम्

1.51.29

तीक्ष्णा तपं च तरतिच्छत्रोपानत्प्रदो नरः ।
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे

1.51.30

तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ।
अयेन विषुवे चैव ग्रहणे चन्द्रसूर्ययोः

1.51.31

संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ।
प्रयागादिषु तीर्थेषु गयायां च विशेषतः

1.51.32

दानधर्मात्परो धर्मो भूतानां नहे विद्यते ।
स्वर्गायुर्भूतिकामेन दानं पापोपशान्तये

1.51.33

दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च ।
निवारयति पापात्मा तिर्यग्योनिं व्रजेन्नरः

1.51.34

यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।
म्रियमाणेषु विप्रेषु ब्रह्महा स तु गर्हितः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc