भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.48

1.48.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशे आचारकाण्डे प्रासादलिङ्गमण्डपादिलक्षणनिरूपणंनाम सप्तचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 48
सूत उवाच ।
प्रतिष्ठां सर्वदेवानां संक्षेपेण वदाम्यहम् ।
सुतिथ्यादौ सुरम्यां च प्रतिष्ठां कारयेद्गुरुः

1.48.2

ऋत्विग्भिः सह चाचार्यं वरयेन्मध्यदेशगम् ।
स्वशाखोक्तविधानेन अथ वा प्रणवेन तु

1.48.3

पञ्चभिर्बहुभिर्वाथ कुर्यात्पाद्यार्घ्यमेव च ।
मुद्रिकाभिस्तथा वस्त्रैर्गन्धमाल्यानुलेपनैः

1.48.4

मन्त्रन्यासं गुरुः कृत्वा ततः कर्म समारभेत् ।
प्रासादस्याग्रतः कुर्यान्मण्डपं दशहस्तकम्

1.48.5

कुर्याद्द्वादशहस्तं वा स्तम्भैः षोडशभिर्युतम् ।
ध्वजाष्टकैश्चतुर्हस्तां मध्ये वेदिं च कारयेत्

1.48.6

नदीसंगमतीरात्थां वालुकां तत्र दापयेत् ।
चतुरश्रं कार्मुकाभं वर्तुलं कमलाकृति

1.48.7

पूर्वादितः समारभ्य कर्तव्यं कुण्डपञ्चकम् ।
अथवा चतुरश्राणि सर्वाण्येतानि कारयेत्

1.48.8

शान्तिकर्मिधानेन सर्वकामार्थसिद्धये ।
शिरः स्थाने तु देवस्य आचार्यो होममाचरेत्

1.48.9

ऐशान्यां केचिदिच्छन्ति उपलिप्यावनिं शुभाम् ।
द्वाराणि चैव चत्वारि कृत्वा वै तोरणान्तिके

1.48.10

न्यग्रोधोदुम्बराश्वत्थबैल्वपालाशखादिराः ।
तोरणाः पञ्चहस्ताश्च वस्त्रपुष्पाद्यलङ्कृताः

1.48.11

निखनेद्धस्तमेककं चत्वारश्चतुरो दिशः ।
पूर्वद्वारे मृगेन्द्रं तु हयराजं तु दक्षिणे

1.48.12

पश्चिमे गोपतिर्नाम सुरशार्दूलमुत्तरे ।
अग्निमीलेति हि मन्त्रेण प्रथमं पूर्वतो न्यसेत्

1.48.13

ईषेत्वेतिहि मन्त्रेण दक्षिणस्यां द्वितीयकम् ।
अग्नायाहिमन्त्रेण पश्चिमस्यां तृतीयकम्

1.48.14

शन्नोदेवीति मन्त्रेण उत्तरस्यां चतुर्थकम् ।
पूर्वे अम्बुदवत्कार्या आग्नोय्यां धूमरूपिणी

1.48.15

याम्यां वै कृष्णरूपा तु नैरृत्या श्यामला (धूसरा) भवेत् ।
वारुण्यां पाण्डुरा ज्ञेया वायव्यां पीतवर्णिका

1.48.16

उत्तरे रक्तवर्णा तु शुक्लेशी च पताकिका ।
बहुरूपा तथा मध्ये इन्द्रविद्येति पूर्वके

1.48.17

आग्निं संसुप्तिमन्त्रेण यमोनागेति दक्षिणे ।
पूज्या रक्षोहनोवेति पश्चिमे उत्तरे ऽपि च

1.48.18

वात इत्यभिषिच्याथ आप्यायस्वेति चोत्तरे ।
तमीशानमतश्चैव विष्णोर्नुकेति मध्यमे

1.48.19

कलशौ तु ततो द्वौद्वौ निवेश्यौ तोरणान्तिके ।
वस्त्रयुग्मसमायुक्ताश्चन्दनाद्यैः स्वलङ्कृताः

1.48.20

पुष्पैर्वितानैर्बहुलैरादिवर्णाभिमन्त्रिताः ।
दिक्पालाश्च ततः पूज्याः शास्त्रदृष्टेन कर्मणा

1.48.21

त्रातारमिन्द्रभन्त्रेण अग्निर्मूर्धेति चापरे ।
अस्मिन्वृक्ष इतं चैव प्रचारीति परा स्मृता

1.48.22

किञ्चेदधातु आचत्वाभित्वादेति च सप्तमी ।
इमारुद्रेति दिक्यालान्पूजयित्वा विचक्षणः

1.48.23

होमद्रव्याणि वायव्ये कुर्यात्सोपस्कराणि च ।
शङ्खाञ्छास्त्रोदिताञ्छ्वेतान्नेत्राभ्यां विन्यसेद्गुरुः

1.48.24

आलोकनेन द्रव्याणि शुद्धिं यान्ति न संशयः ।
त्दृदयादीनि चाङ्गानि व्याहृतिप्रणवेन च

1.48.25

अस्त्रं चैव समस्तानां न्यासो ऽयं सर्वकामिकः ।
अक्षतान्विष्टरं चैव अस्त्रेणैवाभिमन्त्रितान्

1.48.26

विष्टरेण स्पृशेद्दुव्यान्यागमण्डपसंभृतान् ।
अक्षतान्विकिरेत्पश्चादस्त्रपूतान्समन्ततः

1.48.27

शक्रीं दिशमथारभ्य यावदीशानगोचरम् ।
अवकीर्याक्षतार्न्संवांल्लेपयेन्मण्डपं ततः

1.48.28

गन्धाद्यैरर्घ्यपात्रे च मन्त्रग्रामं न्यसेद्गुरुः ।
तेनार्घ्यपात्रतोयेन प्रोक्षयेद्यागमण्डपम्

1.48.29

प्रतिष्ठा यस्य देवस्य तदाख्यं कलशं न्यसेत् ।
ऐशान्यां पूजयेद्याम्ये अस्त्रेणैव च बर्धनीम्

1.48.30

कलशं वर्धनीं चैव ग्रहान्वास्त्तोष्पतिं तथा ।
आसनेतानि सर्वाणि प्रणवाख्यं जपेद्गुरुः

1.48.31

सूत्रग्रीवं रत्नगर्भं वस्त्रयुग्मेन वेष्टितम् ।
सर्वौषधीगन्धलिप्तं पूजयेत्कलशं गुरुः

1.48.32

देवस्तु कलशे पूज्यो वर्धन्या वस्त्रमुत्तमम् ।
वर्धन्या तु समायुक्तं कलशं भ्रामयेदनु

1.48.33

वर्धनीधारया सिञ्चन्नग्रतो धारयेत्ततः ।
अभ्यर्च्य वर्धनीकुम्भं स्थण्डिले देवमर्चयेत्

1.48.34

घटं चावाह्य वायव्यां गणानां त्वेति सद्गणम् ।
देवमीशानकोणे तु जपेद्वास्तोष्पतिं बुधः

1.48.35

वास्तोष्पतीति मन्त्रेण वास्तुदोषोपशान्तये ।
कुम्भस्य पूर्वतो भूतं गणदेवं बलिं हरेत्

1.48.36

पठेदिति च विद्याश्च कुर्यादालम्भनं बुधः ।
योगेयोगेति मन्त्रेणास्तरणं शाद्वलैः कुशैः

1.48.37

ऋत्विग्भिः सार्धमाचार्यः स्नानपीठे गुरुस्तदा ।
विविधैर्ब्रह्मघोषैश्च पुण्याहजयमङ्गलैः

1.48.38

कृत्वा ब्रह्मरथे देवं प्रतिष्ठन्ति ततो द्विजाः ।
ऐशान्यामानयेत्पीठमण्डपे विन्यसेद्गुरुः

1.48.39

भद्रङ्कर्णेत्यथ स्नात्वा सूत्रवल्कलजेन तु ।
संस्नाप्य लक्षणोद्धारं कुर्यात्तूर्यादि (दूराभि) वादनैः

1.48.40

मधुसर्पिः समायुक्तं कांस्ये वा ताम्रभाजने ।
अक्षिणी चाञ्जयेच्चास्य सुवर्णस्य शलाकया

1.48.41

अग्निर्ज्योतीति मन्त्रेण नेत्रोद्वाटं तु कारयेत् ।
लक्षणे क्रियमाणे तु नामैकं स्थापको व(द) देत्

1.48.42

इमंमेगङ्गेमन्त्रेण नेत्रयोः शीतलक्रिया ।
अग्निर्मूर्धेति मन्त्रेण दद्याद्वल्मी कमृत्तिकाम्

1.48.43

बिल्वोदुम्बरमश्वत्थं वटं पालाशमेव च ।
यज्ञायज्ञेति मन्त्रेण दद्यात्पञ्चकषायकम्

1.48.44

पञ्चगव्यं स्नापयेच्च सहदेव्यादि भिस्ततः ।
सहदेवी बला चैव शतमूली शतावरी

1.48.45

कुमारी च गुडूची च सिंही व्याघ्री तथैव च ।
या ओषधीति मन्त्रेण स्नानमोषधिमज्जलैः

1.48.46

याः फलिनीति मन्त्रेण फलस्नानं विधीयते ।
द्रुपदादिवेति मन्त्रेण कार्यमुद्वर्तनं बुधैः

1.48.47

कलशेषु च विन्यस्य उत्तरादिष्वनुक्रमात् ।
रत्नानि चैव धान्यानि ओषधीं शतपुष्पिकाम्

1.48.48

समुद्रांश्चैव विन्यस्य चतुरश्चतुरो दिशः ।
क्षीरं दधि क्षीरोदस्य घृतोदस्येति वा पुनः

1.48.49

आप्यायस्व दधिक्राव्णो या औषधीरितीति च ।
तेजो ऽसीति च मन्त्रैश्च कुम्भं चैवाभिमन्त्रयेत्

1.48.50

समुद्राख्यैश्चतुर्भिश्च स्नापयेत्कलशैः पुनः ।
स्नातश्चैव सुवेषश्च धूपो देयश्च गुग्गुलुः

1.48.51

अभिषेकाय कुम्भेषु तत्तत्तीर्थानि विन्यसेत् ।
पृथिव्यां यानि तीर्थानि सरितः सागरास्तथा

1.48.52

या ओषधीति मन्त्रेण कुम्भं चैवाभिमन्त्रयेत् ।
तेन तोयेन यः स्नायात्स मुच्येत्सर्वपातकैः

1.48.53

अभिषिच्य समुद्रैश्च त्वर्घ्यं दद्यात्ततः पुनः ।
गन्धद्वारेति गन्धं च न्यासं वै वेदमन्त्रकैः

1.48.54

स्वशास्त्रविहितैः प्राप्तैर्युवंवस्त्रेति वस्त्रकम् ।
कविहाविति मन्त्रेण आनयेन्मण्डपं शुभम्

1.48.55

शम्भवायेति मन्त्रेण शय्यायां विनिवेशयेत् ।
विश्वतश्चक्षुर्मन्त्रेण कुर्यात्सकलनिष्कलम्

1.48.56

स्थित्वा चैव परे तत्त्वे मन्त्रन्यासं तु कारयेत् ।
स्वशास्त्रविहितो मन्त्रो न्यासस्तस्मिंस्तथोदितः

1.48.57

वस्त्रेणाच्छादयित्वा तु पूजनीयः स्वभावतः ।
यथाशास्त्रं निवेद्यानि पादमूले तु दापयेत्

1.48.58

अथ प्रणवसंयुक्तं वस्त्रयुग्मेन वेष्टितम् ।
कलशं सहिरण्यं च शिरः स्थाने निवेदयेत्

1.48.59

स्थित्वा कुण्डसमीपे ऽथ अग्नेः स्थापनमाचरेत् ।
स्वशास्त्रविहितैर्मन्त्रैर्वेदोक्तैर्वाथ वा गुरुः

1.48.60

श्रीसूक्तं पावमान्यं च वासदाम्यसवाजिनम् ।
वृषाकपिं च मित्रं बह्वचः पूर्वतो जपेत्

1.48.61

रुद्रं पुरुषसूक्तं च श्लोकाध्यायं च शुक्रियम् ।
ब्रह्माणं पितृमैत्रं च अध्वर्युर्दक्षिणे जपेत्

1.48.62

वेदव्रतं वामदेव्यं ज्येष्ठसाम रथन्तरम् ।
भेरुण्डानि च सामानि छन्दोगः पश्चिमे जपेत्

1.48.63

अथर्वशिरसं चैव कुम्भसूक्तमथर्वणः ।
नीलरुद्रांश्च मैत्रं च अथर्वश्चोत्तरे जपेत्

1.48.64

कुण्डं चास्त्रेण संप्रोक्ष्य आचार्यस्तु विशेषतः ।
ताम्रपात्रे शरावे वा यथाविभवतो ऽपि वा

1.48.65

जातवेदसमानीय अग्रतस्तं निवेशयेत् ।
अस्त्रेण ज्वालयेद्वह्निं कवचेन तु वेष्टयेत्

1.48.66

अमृतीकृत्य तं पश्चान्मन्त्रैः सर्वैश्च देशिकः ।
पात्रं गृह्य कराभ्यां च कुण्डं भ्राम्य ततः पुनः

1.48.67

वैष्णवेन तु योगेन परं तेजस्तु निः क्षिपेत् ।
दक्षिणे स्थापयेद्ब्रह्म प्रणीताञ्चोत्तरेण तु

1.48.68

साधारणेन मन्त्रेण स्वसूत्रविहितेन वा ।
दिक्षुदिक्षु ततो दद्यात्परिधिं विष्टरैः सह

1.48.69

ब्रह्मविष्णुहरेशानाः पूज्याः साधारणेन तु ।
दर्भेषु स्थापयेद्वह्निं दर्भैश्च परिवेष्टितम्

1.48.70

दर्भतोयेन संस्पृष्टो मन्त्रहीनो ऽपि शुध्यति ।
प्रागग्रैरुदगग्रैश्च प्रत्यगग्रैरखण्डितैः

1.48.71

विततैर्वेष्टितो वह्निः स्वयं सान्निध्यमाव्रजेत् ।
अग्नेस्तु रक्षणार्थाय यदुक्तं कर्म न्त्रवित्

1.48.72

आचार्याः केचिदिच्छन्ति जातकर्माद्यनन्तरम् ।
पवित्रं तु ततः कृत्वा कुर्यादाज्यस्य संस्कृतिम्

1.48.73

आचार्यो ऽथ निरीक्ष्यापि नीराज्यमभिमन्त्रितम् ।
आज्यभागाभिघारान्तमवेक्षेताज्यसिद्धये

1.48.74

पञ्चपञ्चाहुतीर्हुत्वा आज्येन तदनन्तरम् ।
गर्भाधानादितस्तावद्यावद्गौदानिकं भवेत्

1.48.75

स्वशास्त्रविहितैर्मन्त्रैः प्रणवेनाथ होमयेत् ।
ततः पूर्णाहुतिं दत्त्वा पूर्णात्पूर्णमनारेथः

1.48.76

एवमुत्पादितो वह्निः सर्वकर्मसु सिद्धिदः ।
पूजयित्वा ततो वह्निं कुण्डेषु विहरेत्तथा

1.48.77

इन्द्रादीनां स्वमन्त्रैश्च तथाहुतिशतंशतम् ।
पुर्णाहुतिं शतस्यान्ते सर्वेषां चैव होमयेत्

1.48.78

स्वामाहुतिमथाज्येषु होता तत्कलशे न्यसेत् ।
देवताश्चैव मन्त्रांश्च तथैव जातवेदसम्

1.48.79

आत्मानमेकतः कृत्वा ततः पूर्णां प्रदापयेत् ।
निष्कृष्य बहिराचार्यो दिक्पालानां बलिं हरेत्

1.48.80

भूतानां चैव देवानां नागानां च प्रयोगतः ।
तिलाश्च समिधश्चैव होमद्रव्यं द्वयं स्मृतम्

1.48.81

आज्यं तयोः सहकारि तत्प्रधानं यदङ्क(क्ष)योः ।
परुषसुक्तं पूर्वेणैव रुद्रचैव तु दक्षिणे

1.48.82

ज्येष्ठसाम च भारुण्डं तन्नयामीति पश्चिमे ।
नीलरुद्रो महामन्त्रः कुम्भसूक्तमथर्वणः

1.48.83

हुत्वा सहस्रमेकैकं देवं शिरसि कल्पयेत् ।
एवं मध्ये तथा पादे पूर्णाहुत्या तथा पुनः

1.48.84

शिरः स्थानेषु जुहुयादाविशेच्चाप्यनुक्रमात् ।
वेदानामादिमन्त्रैर्वा मन्त्रैर्वा देवनामभिः

1.48.85

स्वशास्त्रविहितैर्वापि गायत्त्र्या वाथ ते द्विजाः ।
गायत्त्र्या वाथवाचार्यो व्याहृतिप्रणवेन तु

1.48.86

एवं होमविधिं कृत्वा न्यसेन्मन्त्रांस्तु देशिकः ।
चरणावग्निमीळे तु इषेत्वो गुल्फयोः स्थिताः

1.48.87

अग्न आयाहि जङ्घे द्वे शन्नोदेवीति जानुनी ।
बृहद्रथन्तरे ऊरू उदरेष्वातिलो (स्वातिनो) न्यसेत्

1.48.88

दीर्घायुष्ट्वाय हृदये श्रीश्चते गलके न्यसेत् ।
त्रातारमिन्द्रमुरसि नेत्राभ्यां तु त्रियम्बकम्

1.48.89

मूर्धाभव तथा मूर्ध्नि आलग्नाद्धोममाचरेत् ।
उत्था पयेत्ततो देवमुत्तिष्ठब्रह्मणस्पते !

1.48.90

वेदपुण्याहशब्देन प्रासादानां प्रदक्षिणम् ।
पिण्डिकालंभनं कृत्वा देवस्यत्वेति मन्त्रवित्

1.48.91

दिक्पा लान्सह रत्नैश्च धातूनोषधयस्तथा ।
लौहबीजानि सिद्धानि पश्चाद्देवं तु विन्यसेत्

1.48.92

न गर्भे स्थापयेद्देवं न गर्भं तु परित्यजेत् ।
ईषन्मध्यं परित्यज्य ततो दोषापहं तु तत्

1.48.93

तिलस्य तुषमात्रं तु उत्तरं किञ्चिदानयेत् ।
ओं स्थिरो भव शिवो भव प्रजाभ्यश्च नमोनमः

1.48.94

देवस्य त्वा सवितुर्वः षड्भ्यो वै विन्यसेद्गुरुः ।
तत्त्ववर्णकलामात्रं प्रजानि भुवनात्मजे

1.48.95

षड्भ्यो विन्यस्य सिद्धार्थं ध्रुवार्थैरभिमन्त्रयेत् ।
सम्पातकलशेनैव स्नापयेत्सुप्रतिष्ठितम्

1.48.96

दीपधूपसुगन्धैश्च नैवेद्यैश्च प्रपूजयेत् ।
अर्घ्यं दत्त्वा नमस्कृत्य ततो देवं क्षमापयेत्

1.48.97

पात्रं वस्त्रयुगं छत्रं तथा दिव्याङ्गुलीयकम् ।
ऋत्त्विग्भ्यश्च प्रदातव्या दक्षिणा चैव शक्तितः

1.48.98

चतुर्थौ जुहुयात्पश्चाद्यजमानः समाहितः ।
आहुतीनां शतं हुत्वा ततः पूर्णां प्रदापयेत्

1.48.99

निष्क्रम्य बहिराचार्यो दिक्पालानां बलिं हरेत् ।
आचार्यः पुष्पहस्तस्तु क्षमस्वेति विसर्जयेत्

1.48.100

यागान्ते कपिलां दद्यादाचार्याय च चामरम् ।
मुकुटं कुण्डलं छत्रं केयूरं कटिसूत्रकम्

1.48.101

व्यजनं ग्रामवस्त्रादीन्सोपस्कारं सुमण्डपम् ।
भोजनं च महात्कुर्यात्कृतकृत्यश्च जायते ।
यजमानो विमुक्तः स्यात्स्थापकस्य प्रसादतः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc