भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.47

1.47.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वास्तुमानलक्षणं नाम षट्चत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 47
सूत उवाच ।
प्रासादानां लक्षणं च वक्ष्ये शौनक तच्छृणु ।
चतुः षष्टिपदं कृत्वा दिग्विदिक्षूपलक्षितम्

1.47.2

चतुष्कोणं चतुर्भिश्च द्वाराणि सूर्यसंख्यया ।
चत्वारिंशाष्टबिश्चैव भित्तीनां कल्पना भवेत्

1.47.3

ऊर्ध्वक्षेत्रसमा जङ्घा जङ्घार्धद्विगुणं भवेत् ।
गर्भविस्तारविस्तीर्णः शुकाङ्घ्रिश्च विधीयते

1.47.4

तत्त्रिभागेन कर्तव्यः पञ्चभागेन वा पुनः ।
निर्गमस्तु शुकाङ्घ्रेश्च उच्छ्रायः शिखरार्धगः

1.47.5

चतुर्धा शिखरं कृत्वा त्रिभागे वेदिबन्धनम् ।
चतुर्थे पुनरस्यैव कण्ठमामूलसाधनम्

1.47.6

अथ वापि समं वास्तुं कृत्वा षोडशभागिकम् ।
तस्य मध्ये चतुर्भागमादौ गर्भं तु कारयेत्

1.47.7

चतुर्भागेन भित्तीनामुच्छ्रायः स्यात्प्रमाणतः

1.47.8

द्विगुणः शिखरोच्छ्रायो भित्त्युच्छायाच्च मानतः ।
शिखरार्धस्य चैर्धेन विधेयास्तु प्रदक्षिणाः

1.47.9

चतुर्दिक्षु तथा ज्ञेयो निर्गमस्तुः तथा बुधैः ।
पञ्चभागेन संभज्य गर्भमानं विचक्षणः

1.47.10

भागमेकं गृहीत्वा तु निर्गमं क्लपयेत्पुनः ।
गर्भसूत्रसमो भागादग्रतो मुखमण्डपः

1.47.11

एतत्सामान्यमुद्दिष्टं प्रासादस्य हि लक्षणम् ।
लिङ्गमानमथो वक्ष्ये पीठो लिङ्गसमो भवेत्

1.47.12

द्विगुणेन भवेद्रर्भः समन्ताच्छौनक ध्रुवम् ।
तद्द्विधा च भवेद्भीतिर्जङ्घा तद्विस्तरार्धगा

1.47.13

द्विगुणं शिखरं प्रोक्तं जङ्घायाश्चैव शौनक ।
पीठगर्भावरं कर्म तन्मानेन शुकाङ्घ्रिकम्

1.47.14

निर् गमस्तु समाख्यातः शेषं पूर्ववदेव तु ।
लिङ्गमानं स्मृतं ह्येतद्द्वारमानमथोच्यते

1.47.15

कराग्रं वेदवत्कृत्वा द्वारं भागाष्टमं भवेत् ।
विस्तरेण समाख्यातं द्विगुणंस्वेच्छया भवेत्

1.47.16

द्वारवत्पीठमध्ये तु शेषं सुषिरकं भवेत् ।
पादिकं शेषिकं भित्तिर्द्वारार्धेन परिग्रहात्

1.47.17

तद्विस्तारसमा जङ्घा सिखरं द्विगुणं भवेत् ।
शुकाङ्घ्रिः पूर्ववज्ज्ञेया निर्गमोच्छ्रायकं भवेत्

1.47.18

मण्डपे मानमेतत्तु स्वरूपं चापरं वदे ।
त्रैवेदं कारयेत्क्षेत्रं यत्र तिष्ठन्ति देवताः

1.47.19

इत्थं कृतेन मानेन बाह्यभागविनिर्गतम् ।
नेमिः पादेन विस्तीर्णा प्रासादस्य समन्ततः

1.47.20

गर्भं तु द्विगुणं कुर्यान्नेम्या मानं भवेदिह ।
स एव भित्तेरुत्सेधो शिखरो द्विगुणो मतः

1.47.21

प्रासादानां च वक्ष्यामि मानं योनिं च मानतः ।
वैराजः पुष्पकाख्यश्च कैलासो मालिकाह्वयः

1.47.22

त्रिविष्टपं च पञ्चैते प्रासादाः सर्वयोनयः ।
प्रथमश्चतुरश्रो हि द्वितीयस्तु तदायतः

1.47.23

वृत्तो वृत्तायतश्चान्यो ऽष्टाश्रश्चेह च पञ्चमः ।
एतेभ्य एव सम्भूताः प्रासादाः सुमनोहराः

1.47.24

सर्वप्रकृतिभूतेभ्यश्चत्वारिंशत्तथैव च ।
मेरुश्च मन्दरश्चैव विमानश्च तथापरः

1.47.25

भद्रकः सर्वता भद्रो रुचको नन्दनस्तथा ।
नन्दिवर्धनसंज्ञश्च श्रीवत्सश्च नवेत्यमी

1.47.26

चतुरश्राः समुद्भूता वैराजादिति गम्यताम् ।
वलभी गृहराजश्च शा लागृहं च मन्दिरम्

1.47.27

विमानं च तथा ब्रह्ममन्दिरं भवनं तथा ।
उत्तम्भं शिबिका वेश्म नवैते पुष्पकोद्भवाः

1.47.28

वलयो दुन्दुभिः पद्मो महापद्मस्तथापरः ।
मुकुली चास्य उष्णीषी शङ्खश्च कलशस्तथा

1.47.29

गुवावृक्षस्तथान्यश्च वृत्ताः कैलाससम्भवाः ।
गजो ऽथ वृषभो हंसो गरुडः सिंहनामकः

1.47.30

भूमुखो भूधरश्चैव श्रीजयः पृथिवीधरः ।
वृत्तायताः समुद्भूता नवैते मणिकाह्वयात्

1.47.31

वज्रं चक्रं तथान्यच्च मुष्टिकं वभ्रुसंज्ञितम् ।
वक्रः स्वस्तिकखड्गौ च गदा श्रीवृक्ष एव च

1.47.32

विजयो नामतः श्वेतस्त्रिविष्टिपसमुद्भवाः ।
त्रिकोणं पद्ममर्धेन्दुश्चतुष्कोणं द्विरष्टकम्

1.47.33

यत्र तत्र विधातव्यं संस्थानं मण्डपस्य तु ।
राज्यं च विभवश्चैवः ह्यायुर्वर्द्वनमेव च

1.47.34

पुत्रलाभः स्त्रियः पुष्टिस्त्रिकोणादिक्रमाद्भवेत् ।
कुर्याद्धजादिकं ख्यातद्वारि गर्भगृहं तथा

1.47.35

मणाडपः समसंख्याभिर्गुणितः सूत्रकस्तथा ।
मण्डपस्य चतुर्थांशाद्भद्रः कार्यो विजानता

1.47.36

स्पर्धागवाक्षकोपेतो निर्गवाक्षो ऽथ वा भवेत् ।
सार्धभित्तिप्रमाणेन भितिमानेन वा पुनः

1.47.37

भित्तेर्द्वैगुण्यतो वापि कर्तव्या मण्डपाः क्रचित् ।
प्रासादे मञ्चरी कार्या चित्रा विषमभूमिका

1.47.38

परिमाणविरोधेन रेखावैषम्यभूषिता ।
आधारस्तु चतुर्धारश्चतुर्मण्डपशोभितः

1.47.39

शतशृङ्गसमायुक्तो मेरुः प्रासाद उत्तमः ।
मण्डपास्तस्य कर्तव्या भद्रैस्त्रिभिरलङ्कृताः

1.47.40

घचनाकारमानानां भिन्नाभिन्ना भवन्ति ते ।
कियन्तो येषु चाधारा निराधाराश्च केचन

1.47.41

प्रतिच्छन्दकभेदेन प्रासादाः सम्भवन्ति ते ।
अन्योन्यासंकरास्तेषां घटनानामभेदतः

1.47.42

देवतानां विशेषाय प्रासादा बहवः स्मृताः ।
प्रासादे नियमो नास्ति देवतानां स्वयम्भुवाम्

1.47.43

तानेव देवतानां च पूर्वमानेन कारयेत् ।
चतुरश्रायतास्तत्त्र चतुष्कोणसमन्विताः

1.47.44

चन्द्रशालान्विता कार्या भेरीशिखरसंयुता ।
पुरतो वाहनानां च कर्तव्या लग्न(घु) मण्डपाः

1.47.45

नाट्यशाला च कर्तव्या द्वारदेशसमाश्रया ।
प्रसादे देवतानां च कार्या दिक्षु विदिक्ष्वपि

1.47.46

द्वारपालाश्च कर्तव्या मुख्या गत्वा पृथक्पृथक् ।
किञ्चिददूरतः कार्या मठास्तत्रोपजीविनाम्

1.47.47

प्रावृता जगती कार्या फलपुष्पजलान्विता ।
प्रसादेषु सुरांस्थाप्य पूजाभिः पूजयेन्नरः ।
वासुदेवः सर्वदेवः सर्वभाक् तद्गृहादिकृत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc