भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.46

1.46.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शालग्राममूर्तिलक्षणं नाम पञ्चचत्वारिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 46
हरिरुवाच ।
वास्तुं संक्षेपतो वक्ष्ये गृहादौ विघ्ननाशनम् ।
ईसानकोणादारभ्य ह्येकाशीतिपदे यजेत्

1.46.2

ईशाने च शिरः पादौ नैरृते ऽग्न्यनिले करौ ।
आवासवासवेश्मादौ पुरे ग्रामे वणिक्पथे

1.46.3

प्रासादारामदुर्गेषु देवालयमठेषु च ।
द्वाविंशति सुरान्बाह्ये तदन्तश्च त्रयोदश

1.46.4

ईशश्चैवाथ पर्जन्यो जयन्तः कुलिशायुधः ।
सूर्यः सत्यो भृगुश्चैव आकाशो वायुरेव च

1.46.5

पूषा च वितथश्चैव ग्रहक्षेत्रयमावुभौ ।
गन्धर्वो भृगुराजस्तु मृगः पितृगणस्तथा

1.46.6

दौवारिको ऽथ सुग्रीवः पुष्पदन्तो गणाधिपः ।
असुरः शेषपापौ (दौ) च रोगो।डहिमुख (ख्य) एव च

1.46.7

भल्लाटः सोमसर्पौ च अदितिश्चदितिस्तथा ।
बहिर्द्वात्रिंशदेते तु तदन्तश्चतुरः शृणु

1.46.8

ईशानादिचतुष्कोणसंस्थितान्पूजयेद्धुधः ।
आपश्चैवाथ सावित्री जयो रुद्रस्तथैव च

1.46.9

मध्ये नवपदे ब्रह्मा तस्याष्ठौ च समीपगान् ।
देवानेकोत्तरानेतान्पूर्वादौ नामतः शृणु

1.46.10

अर्यमा सविता चैव विवस्वान्विबुधाधिपः ।
मित्रो ऽथ राजयक्ष्मा च तथा पृथ्वीधरः क्रमात्

1.46.11

अष्टमश्चापवत्सश्च परितो ब्रह्मणः स्मृताः ।
ईशानकोणादारभ्य दुर्गे चर् (ज्ञेयो) वंश उच्यते

1.46.12

आग्नेयकोणादारभ्य वंशो भवति दुर्धरः ।
अदितिं हिमवन्तं च जयन्तं च इदं त्रयम्

1.46.13

नायिका कालिका नाम शक्राद्रन्धर्वगाः पुनः ।
वास्तुदेवान्पूजयित्वा गृहप्रासादकृद्भवेत्

1.46.14

सुरेज्यः पुरतः कार्यो यस्याग्नेय्यां महानसम् ।
कपिनिर्गमने (णी)?येन पूर्वतः सत्रमण्डपम्

1.46.15

गन्धपुष्पगृहं कार्यमैशान्यां पट्टसंयुतम् ।
भाण्डागारं च कौबेर्यां गोष्ठागारं च वायवे

1.46.16

उदगाश्रयं च वारुण्यां वातायनसमन्वितम् ।
समित्कुशेन्धनस्थानमायुधानां च नैरृते

1.46.17

अभ्यागतालयं रम्यसशय्यासनापदुकम् ।
तोयाग्निदीपसद्भृत्यैर्युक्तं दक्षिणतो भवेत्

1.46.18

गृहान्तराणि सर्वाणि सजलैः कदलीगृहैः ।
पञ्चवर्णैश्च कुसुमैः शोभितानि प्रकल्पयेत्

1.46.19

प्राकारं तद्वहिर्दद्यात्पञ्चहस्तप्रमाणतः ।
एवं विष्ण्वाश्रमं कुर्याद्वनैश्चोपवनैर्युतम्

1.46.20

चतुः षष्टिपदो वास्तुः प्रासादादौ प्रपूजितः ।
मध्ये चतुष्पदो ब्रह्मा द्विप दास्त्वर्यमादयः

1.46.21

कर्णे चैवाथ शिख्याद्यास्तथा देवाः प्रकीर्तिताः ।
तेभ्यो ह्युभयतः सार्धादन्ये ऽपि द्विपदाः सुराः

1.46.22

चतुः षष्टिपदा देवा इत्येवं परिकीर्तिताः ।
चरकी च विदारी च पूतना पापराक्षसी

1.46.23

ईशानाद्यास्ततो बाह्ये देवाद्या हेतुकादयः ।
हैतुकस्त्रिपुरान्तश्च अग्निवेतालकौ यमः

1.46.24

अग्निजिह्वः कालकश्च करालो ह्यकपादकः ।
ऐशान्यां भीमरूपस्तु पाताले प्रेतनायकः

1.46.25

आकाशे गन्धमाली स्यात्क्षेत्रपालांस्ततो यजेत् ।
विस्ताराभिहतं दैर्घ्यं राशिं वास्तोस्तु कारयेत्

1.46.26

कृत्वा च वसुभिर्भागं शेषं बद्धा यमादिशेत् ।
पुनर्गुणितमष्टाभिरृभागं तु भाजयेत्

1.46.27

यच्छेषं तद्भवेदृक्षं भागैर्हृत्वाव्ययं भवेत् ।
ऋक्षं चतुर्गुणं कृत्वा नवभिर्भागहारितम्

1.46.28

शेषमंशं विजानीयाद्देवलस्य मतं यथा ।
अष्टाभिर्गुणितं पिण्डं षष्टिभिर्भागाहरितम्

1.46.29

यच्छेषं तद्भवेज्जीवं मरणं भतहारितम् ।
वास्तुक्रोडे गृहं कुर्यान्न पृष्ठे मानवः सदा

1.46.30

वामपार्श्वेन स्वापिति नात्र कार्या विचारणा ।
सिंहकन्यातुलायां च द्वारं शुध्येदथोत्तरम्

1.46.31

एवं च वृश्चिकादौ स्यात्पूर्वदक्षिणपश्चिमम् ।
द्वारं दीर्घार्धविस्तारं द्वाराण्यष्टौ स्मृतानि च

1.46.32

सन्तानप्रेष्यनीचत्वं स्वयानं स्वर्णभूषणम् ।
सुतहीनं तु रौद्रेण वीर्यघ्नं दक्षिणे तथा

1.46.33

वह्नौ बधश्चायुर्वृद्धिंपुत्त्रलाभसुतृप्तिदः ।
धनदे नृपपीडादमर्थघ्नं रोगदं जले

1.46.34

नृपभी तिर्मृतापत्यं ह्यनपत्यं न वैरदम् ।
अर्थदं चार्थहान्यै च दोषदं पुत्रमृत्युदम्

1.46.35

द्वाराण्युत्तरसंज्ञानि पूर्वद्वाराणि वच्म्यहम् ।
अग्निभीतिर्बहु कन्याधनसंमानकोपदम्

1.46.36

राजघ्नं कोपदं पूर्वे फलतो द्वारमीरितम् ।
ईशानादौ भवेत्पूर्वमग्नेय्यादौ तु दक्षिणम्

1.46.37

नैरृत्यादौ पश्चिमं स्याद्वायव्यादौ तु चोत्तरम् ।
अष्टभागे कृते भागे द्वाराणां च फलाफलम्

1.46.38

अश्वत्थप्लक्षन्यग्रोधाः पूर्वादौ स्यादुदुम्बरः ।
गृहस्य शोभनः प्रोक्त ईशाने चैव साल्मलिः ।
पूजितो विग्नहारी स्यात्प्रासादस्य गृहस्य च

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc