गरुड़ पुराण · अध्याय 1.31
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीधरा (विष्ण्वर्) चनविधिर्नाम त्रिंशो ऽध्यायः
श्री गरुडमहापुराणम्- 31
रुद्र उवाच ।
भूय एवं जगन्नाथ पूजां कथय मे प्रभो ।
यया तरेयं संसारसागरं ह्यतिदुस्तरम्
हरिरुवाच ।
अर्चनं विष्णुदेवस्य वक्ष्यामि वृषभध्वज ।
तच्छृणुष्व महाभाग भुक्तिमुक्तिप्रदं शुभम्
कृत्वा स्नानं ततः सन्ध्यां ततो यागगृहं व्रजेत् ।
प्रक्षाल्य पाणी पादौ च आचम्य च विशेषतः
मूलमन्त्रं समस्तं तु हस्तयोर्व्यापकं न्यसेत् ।
मूलमन्त्रं च देवस्य शृणु रुद्र वदामि ते
ओं श्रीं ह्रीं श्रीधराय विष्णवे नमः ।
अयं मन्त्रः सुरेशस्य विष्णोरीशस्य वाचकः
सर्वव्याधिहरश्चैव सर्वग्रहहरस्तथा ।
सर्वपापहरश्चैव बुक्तिमुक्तिप्रदायकः
अङ्गन्यासं ततः कुय्यान्देभिर्मन्त्रौर्विचक्षणः ।
ओं हां हृदयाय नमः ।
ओं हीं शिरसे स्वाहा ।
ओं हूं शिखायै वषट् ।
ओं हैं कवचाय हुं ।
ओं हौं नेत्रत्रयाय वौषट् ।
ओं हः अस्त्राय फट्
इति मन्त्रः समाख्यातो मया ते प्रभविष्णुना ।
न्यासं कृत्वात्मनो मुद्रां दर्शयेद्विजितात्मवान्
ततो ध्यायेत्परं विष्णु त्दृत्कोटरसमाश्रितम् ।
शङ्खचक्रसमायुक्तं कुन्देन्दुधवलं हरिम्
श्रीवत्सकौस्तुभयुतं वनमालासमन्वितम् ।
रत्नहारकिरीटेन संयुक्तं परमेश्वरम्
अहं विष्णुरिति ध्यात्वा कृत्वा वै शोधनादिकम् ।
यं क्षैं रमिति बीजैश्च कठिनी कृत्य नामभिः
अण्डमुत्पाद्य च ततः प्रणवेनैव भेदयेत् ।
तत्र पूर्वोक्तरूपं तु भावयित्वा वृषध्वज
आत्मपूजां ततः कुर्याद्रन्धपुष्पादिभिः शुभैः ।
आवाह्य पूजयेत्सर्वा देवता आसनस्य याः
मन्त्रैरेभिर्महादेव तन्मन्त्रं शृणु शङ्कर ।
विष्णवासनदेवता आगच्छत
ओं समस्तपरिवारायाच्युताय नमः ।
ओं धात्रे नमः ।
ओं विधात्रे नमः ।
ओं गङ्गायै नमः ।
ओं यमुनायै नमः ।
ओं शङ्खनिधये नमः ।
ओं पद्मनिधये नमः ।
ओं चण्डाय नमः ।
ओं प्रचण्डाय नमः ।
ओं द्वारश्रियै नमः ।
ओं आधारशक्त्यै नमः ।
ओं कूर्ंमाय नमः ।
ओं अनन्ताय नमः ।
ओं श्रियै नमः ।
ओं धर्ंमाय नमः ।
ओं ज्ञानाय नमः ।
ओं वैराग्याय नमः ।
ओं ऐश्वर्याय नमः ।
ओं अधर्ंमाय नमः ।
ओं अज्ञानाय नमः ।
ओं अवैराग्याय नमः ।
ओं अनैश्वर्याय नमः ।
ओंसं सत्त्वाय नमः ।
ओं रं रजसे नमः ।
ओं तं तमसे नमः ।
ओं कं कन्दाय नमः ।
ओं नं नालाय नमः ।
ओं लां पद्माय नमः ।
ओं अं अर्कमण्डलाय नमः ।
ओं सों सोममण्डलाय नमः ।
ओं वं वह्निमण्डलाय नमः ।
ओं विमलायै नमः ।
ओं उत्कर्षिण्यै नमः ।
ओं ज्ञानायै नमः ।
ओं क्रियायै नमः ।
ओं योगायै नमः ।
ओं प्रह्व्यै नमः ।
ओं सत्यायै नमः ।
ओं ईशानायै नमः ।
ओं अनुग्रहायै नमः
गन्धपुष्पादिभिस्त्वेतैर्मन्त्रैरेतास्तु पूजयेत् ।
पूजयित्वा ततो विष्णुं सृष्टिसंहारकारिणम्
आवाह्य मण्डले रुद्र पूजयेत्प रमेश्वरम् ।
अनेन विधिना रुद्र सर्वपापहरं परम्
यथात्मनि तथा देवे न्यासं कुर्वीत चादितः ।
मुद्रां प्रदर्शयेत्पश्चादर्घ्यादीनर्पयेत्ततः
स्नानां कुर्यात्ततो वस्त्रं दद्यादाचमनं ततः ।
गन्धपुष्पं तथा धूपं दीपं दद्याच्चरुं ततः
प्रदक्षिणं ततो जप्यं ततस्तस्मिन्सर्पयेत् ।
अङ्गादीनां स्वमन्त्रैश्च पूजां कुर्वीत साधकः
देवस्य मूलमन्त्रेणेत्येवं विद्धि वृषध्वज ।
मन्त्राञ्छृणु त्रिनेत्र त्वं कथ्यमानान्मयाधुना
ओं हां हृदयाय नमः ।
ओं हीं शिरसे नमः ।
ओं हूं शिखायै नमः ।
ओं हैं कवचाय नमः ।
ओं हौं नेत्रत्रयाय नमः ।
ओं हः अस्त्राय नमः ।
ओं श्रियै नमः ।
ओं शङ्काय नमः ।
ओं पद्माय नमः ।
ओं चक्राय नमः ।
ओं गदायैनमः ।
ओं श्रीवत्साय नमः ।
ओं कौस्तुभाय नमः ।
ओं वनमालायै नमः ।
ओं पीताम्बराय नमः ।
ओं खड्गाय नमः ।
ओं मुसलाय नमः ।
ओं पाशाय नमः ।
ओं अङ्कुशाय नमः ।
शार्ङ्गाय नमः ।
ओं शराय नमः ।
ओं ब्रह्मणे नमः ।
ओं नारादाय नमः ।
ओं पूर्वसिद्धेभ्यो नमः ।
ओं भागवतेभ्यो नमः ।
ओं गुरुभ्यो नमः ।
ओं परमगुरुभ्यो नमः ।
ओं इन्द्राय सुराधिपतये सवाहनपरिवाराय नमः ।
ओं अग्नये तेजो ऽधिपतये सवाहनपरिवाराय नमः ।
ओं यमाय प्रेताधिपतये सवाहनपरिवाराय नमः ।
ओं निरृतये रक्षो ऽधिपतये सवाहनपरिवाराय नमः ।
ओं वरुणाय जलाधिपतये सवादनपरिवाराय नमः ।
ओं वायवे प्राणाधिपतये सवाहनपरिवाराय नमः ।
ओं सोमाय नक्षत्राधिपतये सवाहनपरिवाराय नमः ।
ओं ईशानाय विद्याधिपतये सवाहनपरिवाराय नमः ।
ओं अनन्ताय नागाधिपतये सवाहनपरिवाराय नमः ।
ओं ब्रह्मणे लोकाधिपतये सवाहनपरिवाराय नमः ।
ओं वज्राय हुं फट् नमः ।
ओं शक्त्यै हुं फट् नमः ।
ओं दण्डाय हुं फट् नमः ।
ओं खड्गाय हुं फट् नमः ।
ओं पाशाय हुं फट् नमः ।
ओं ध्वजाय हुं फट् नमः ।
ओं गदायै हुं फट् नमः ।
ओं त्रिशूलाय हुं फट् नमः ।
ओं चक्राय हुं फट् नमः ।
ओं पद्माय हुं फट् नमः ।
ओं वैं विष्वक्सेनाय नमः
एभिमन्त्रैर्महादेव पूज्या अङ्गादयो नरैः ।
पूजयित्वा महात्मानं विष्णुं ब्रह्मस्वरूपिणम्
स्तुवीत चानया स्तुत्या परमात्मानमव्ययम् ।
विष्णवे देवदेवाय नमो वै प्रभविष्णवे
विष्णवे वासुदेवाय नमः स्थितिकराय च ।
ग्रसिष्णवे नमश्चैव नमः प्रलयशायिने
देवानां प्रभवे चैव यज्ञानां प्रभवे नमः ।
मुनीनां प्रभवे नित्यं यक्षाणां प्रभविष्णवे
जिष्णवे सर्वदेवानां सर्वगाय महात्मने ।
ब्रह्मेन्द्ररुद्रवन्द्याय सर्वेशाय नमोनमः
सर्वलोकहितार्थाय लोकाध्यक्षाय वै नमः ।
सर्वगोप्त्रे सर्वकर्त्रे सर्वदुष्टविनाशिने
वरप्रदाय शान्ताय वरेण्याय नमोनमः ।
शरण्याय सुरूपाय धर्मकामार्थदायिने
स्तुत्वा ध्यायेत्स्वहृदये ब्रह्मरूपिणमव्ययम् ।
एलं तु पूजयेद्विष्णुं मूलमन्त्रेण शङ्कर
मूलमन्त्रं जपेद्वापि यः स याति नरो हरिम् ।
एतत्ते कथितं रुद्र विष्णोरर्चनमुत्तमम्
रहस्यं परमं गुह्यं भुक्तिमुक्तिप्रदं परम् ।
एतद्यश्च पठेद्विद्वान्विष्णुभक्तः पुमान्हर ।
शृणुयाच्छ्रावयेद्वापि विष्णुलोकं स गच्छति
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0