भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.32

1.32.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजाविधिर्नामैकत्रिंशोध्यायः
श्रीगरुडमहापुराणम्- 32
महेश्वर उवाच ।
पञ्चतत्त्वार्चनं ब्रूहि शङ्खचक्रगदाधर ।
येन विज्ञानमात्रेण नरो याति परं पदम्

1.32.2

हरिरुवाच ।
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत ।
मङ्गल्यं मङ्गलं दिव्यं रहस्यं कामदं परम्

1.32.3

तच्छृणुष्व महादेव पवित्रं कलिनाशनम् ।
एक एवाव्ययः शान्तः परमात्मा सनातनः

1.32.4

वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः ।
स एव मायाया देव पञ्चधा संस्थितो हरिः

1.32.5

लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः ।
वासुदेवस्वरूपेण तथा सङ्कर्षणेन च

1.32.6

तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः ।
नारायणस्वरूपेण पञ्चधा ह्यद्वयः स्थितः

1.32.7

एतेषां वाचकान्मन्त्रानेताञ्छृणु वृषध्वज ! ।
ओं अं वासुदेवाय नमः ।
ओं आं संकर्षणाय नमः ।
ओं अं प्रद्युम्नाय नमः ।
ओं अनिरुद्धाय नमः ।
ओं ओं नारायणाय नमः

1.32.8

पञ्च मन्त्राः समाख्याता देवानां वाचकास्तव ।
सर्वपापहराः पुण्याः सर्वरोगविनाशनाः

1.32.9

अधुना संप्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम् ।
विधिना येन कर्तव्यं यैर्वा मन्त्रैश्च शङ्कर !

1.32.10

आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत् ।
अर्चनागारमासाद्य प्रक्षाल्यार्ङ्घ्यादिकं तथा

1.32.11

आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम् ।
शोषणादि ततः कुर्याद् अं क्षैं रमिति मन्त्रकैः

1.32.12

सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः ।
विभिद्याण्डं ततो ह्यण्डे भावयेत्परमेश्वरम्

1.32.13

वासुदेवं जगन्नाथं पीतकौशेयवाससम् ।
सहस्रादित्यसङ्काशं स्फुरन्मकरकुण्डलम्

1.32.14

आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम् ।
ततः संकर्षणं देवमात्मानं चिन्तयेत्प्रभुम्

1.32.15

प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः ।
इन्द्रादींश्च सुरांस्तस्माद्देवदेवात्समुत्थितान्

1.32.16

चिन्तयेच्च ततो न्यासं कय्यान्द्वै कारयोर्द्वयोः ।
व्यापकं मूलमन्त्रेण चाङ्गन्यासं ततः परम्

1.32.17

अङ्गमन्त्रैर्महादेव ! तान्मन्त्राञ्शृणु सुव्रत ! ।
ओं आं हृदयाय नमः ।
ओं ईं शिरसे नमः ।
ओं ऊं शिखायै नमः ।
ओं ऐं कवचाय नमः ।
ओं औं नेत्रत्रयाय नमः ।
ओं अः अस्त्राय फट्

1.32.18

ओं समस्तपरिवारायाच्युताय नमः ।
ओं धात्रे नमः ।
ओं विधात्रे नमः ।
ओं आधारशक्तयै नमः ।
ओं कूर्माय नमः ।
ओं अनन्ताय नमः ।
ओं पृथिव्यैनमः ।
ओं धर्माय नमः ।
ओं धर्माय नमः ।
ओं ज्ञानाय नमः ।
ओं वैराग्याय नमः ।
ओं ऐश्वर्याय नमः ।
ओं अज्ञानाय नमः ।
ओं अनैश्वर्याय नमः ।
ओं अं अर्कमण्डलाय नमः ।
ओं सों सोममणाडलाय नमः ।
ओं वं वह्निमण्डलाय नमः ।
ओं वं वासुदेवाय परब्रह्मणे शिवाय तेजोरूपाय व्यापिने सर्वदेवाधिदेवाय नमः ।
ओं पाञ्चजन्याय नमः ।
ओं सुदर्शवनाय नमः ।
ओं गदायै नमः ।
ओं पद्माय नमः ।
ओं श्रियै नमः ।
ओं ह्रियै नमः ।
ओं पुष्ट्यै नमः ।
ओं गीत्यै नमः ।
ओं शक्त्यै नमः ।
ओं प्रीत्यै नमः ।
ओं इन्द्राय नमः ।
ओं अग्नये नमः ।
ओं यमाय नमः ।
ओं निरृतये नमः ।
ओं वरुणाय नमः ।
ओं वायवे नमः ।
ओं सोमाय नमः ।
ओं ईशानाय नमः ।
ओं अनन्ताय नमः ।
ओं ब्रह्मणे नमः ।
ओं विष्वक्सेनाय नमः

1.32.19

एते मन्त्राः समाख्यातास्तव रुद्र समासतः ।
पूजा चैव प्रकर्तव्या मण्डले स्वस्तिकादिके

1.32.20

ओं पद्माय नमः ।
अङ्गन्यासं च कृत्वा तु मुद्राः सर्वाः प्रदशयत् ।
आत्मानं वासुदेवं च ध्यात्वा चैव परेश्वरम्

1.32.21

आसनं पूजयेत्पश्चादावाह्य विधिवन्नरः ।
द्वारे धातुर्विधातुश्च पूजा कार्या वृषध्वज

1.32.22

गरुडं पूजयेदग्रे वासुदेवस्य शङ्कर ।
शङ्खादिपद्मपर्यन्तं मध्यदेशे प्रपूजयेत्

1.32.23

धर्मं ज्ञानं च वैराग्यमैश्वर्यं पूर्वदेशतः ।
आग्नेयादिष्वर्चयेद्वै अधर्मादिचतुष्टयम्

1.32.24

मण्डलत्रयमध्ये तु कीर्तिता ह्यसनस्थितिः ।
पूर्वादिपद्मपत्रेषु पूज्याः संकर्षणादयः

1.32.25

कर्णिकायां वासुदेवं पूजयेत्परमेश्वरम् ।
पाञ्चजन्यादयः पूज्याः ऐशान्यादिषु संस्थिताः

1.32.26

शक्तयश्चैव पूर्वादौ देवदेवस्य शङ्कर ।
इन्द्रादयो लोकपालाः पूज्याः पूर्वादिषु स्थिताः

1.32.27

अधो नाग तदूद्ध्व तु ब्रह्माणं पूजयेत्सुधीः ।
इति स्थानक्रमो ज्ञेयो मण्डले शङ्कर त्वया

1.32.28

आवाह्य मण्डले देवं कृत्वा न्यासं तु तस्य च ।
मुद्रां प्रदर्श्य पाद्यदीन्दद्यान्मूलेन शङ्कर

1.32.29

स्नानं वस्त्रं तथाचामं गन्धं पुष्पं च धूपकम् ।
दीपं नैवेद्यमाचामं नमस्कारं प्रदक्षिणम् ।
कुर्याच्छङ्कर मूलेन जपं चापि समर्पयेत्

1.32.30

दं स्तोत्रं जपेत्पश्चाद्वासुदेवमनुस्मरन् ।
ओं नमो वासुदेवाय नमः सकर्षणाय च

1.32.31

प्रद्युम्नायादिदेवायानिरुद्धाय नमोनमः ।
नमो नारायणायैव नरायणां पतये नमः

1.32.32

नरपूज्याय कीर्त्याय स्तुत्याय वरदाय च ।
अनादिनिधनायैव पुराणाय नमोनमः

1.32.33

सृष्टिसंहारकर्त्रे च ब्रह्मणः पतये नमः ।
मनो वै वेदवेद्याय शङ्खचक्रधराय च

1.32.34

कलिकल्मषहर्त्रे च सुरेशाय नमोनमः ।
संकारवृक्षच्छेत्रे च मायाभेत्रे नमोनमः

1.32.35

वहुरूपाय तीर्थाय त्रिगुणायागुणाय च ।
ब्रह्मविष्णवीशरूपय मोक्षदाय नमोनमः

1.32.36

मोक्षद्वाराय धर्माय निर्माणाय नमोनमः ।
सर्वकामप्रदायैव परब्रह्मस्वरूपिणे

1.32.37

संसारसागरे घोरे निमग्नं मां समुद्धर ।
त्वदन्यो नास्ति देवेश नास्ति त्राता जगत्प्रभो

1.32.38

त्वामव सर्वगं विष्णुं गतो ऽहं शरणं गतः ।
ज्ञानदीपप्रदानेन तमोमुक्तं प्रकाशय

1.32.39

एवं स्तुवीत देवेशं सर्वक्लेशविनाशनम् ।
अन्यैश्चवादकेः स्तात्रैः स्तुत्वा वै नीललोहित

1.32.40

पञ्चतत्त्वसमायुक्तं ध्यायोद्विष्णुं नरो हृदि ।
विसर्जयत्तता देवमिति पूजा प्रकीर्तिता

1.32.41

सर्वकामप्रदा श्रेष्ठा वासुदेवस्य शङ्कर ।
एतत्पूजनमात्रेण कृतकृत्यो भवेन्नरः

1.32.42

इदं च यः पठेद्रुद्र पञ्चतत्त्वार्चनं नरः ।
शृणुयाच्छ्रवायेद्वापि विष्णुलोकं स गच्छति

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc