गरुड़ पुराण · अध्याय 1.30
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाडे त्रैलोक्यमोहिनी(श्रीधर) पूजनविधिर्नामैकोनत्रिंशो ऽध्यायः
श्रीगरुडमहापुराणम्- 30
सूत उवाच ।
विस्तरेण प्रवक्ष्यामि श्रीधरस्यार्चनं शुभम् ।
परिवारश्च सर्वेषां समोज्ञेयो हि पण्डितैः
ओं श्रां हृदयाय नमः ।
ओं श्रींशिरसे स्वाहा ।
ओं श्रू शिखायै वषटू ।
ओं श्रैं कवचाय हुं ।
ओं श्रौं नेत्रत्रयाय वौषट् ।
ओं श्रः अस्त्राय फट् इति
दर्शयेदात्मनो मुद्रां शङ्खचक्रगदादिकाम् ।
ध्यात्वात्मानं श्रीधराख्यं शङ्खचक्रगदाधरम्
ततस्तं पूजयेद्देवं मण्डले स्वस्तिकादिके ।
आसनं पूजयेदादौ देवदेवस्य शार्ङ्गिणः ।
एबिर्मन्त्रैर्महादेव तान्मत्राञ्छृणु शङ्कर
ओं श्रीधरासनदेवताः आगच्छता ।
ओं समस्तपरिवारायच्युतासनाय नमः
ओं धात्रे नमः ।
ओं विधात्रे नमः ।
ओं गङ्गायै नमः ।
ओं यमुनायै नमः ।
ओं आधारशक्तयै नमः ।
ओं कूर्ंमाय नमः ।
ओं अनन्ताय नमः ।
ओं पृथिव्यै नमः ।
ओं धर्ंमाय नमः ।
ओं ज्ञानाय नमः ।
ओं वैराग्याय नमः ।
ओं ऐश्वर्याय नमः ।
ओं अधर्ंमाय नमः ।
ओं अज्ञानाय नमः ।
ओं अवैराग्याय नमः ।
ओं अनैश्वर्याय नमः ।
ओं कन्दाय नमः ।
ओं नालाय नमः ।
ओं पद्माय नमः ।
ओं विमलायै नमः ।
ओं उत्कर्षिण्यै नमः ।
ओं ज्ञानायै नमः ।
ओं क्रियायै नमः ।
ओं योगायै नमः ।
ओं प्रह्व्यै नमः ।
ओं सत्यायै नमः ।
ओं ईशानायै नमः ।
ओं अनुग्रहायै नमः
अर्चयित्वा समं रुद्र हरिमावाह्य संयजेत् ।
मन्त्रैरेभिर्महाप्राज्ञः सर्वपापप्रणाशनैः
ओं ह्रीं श्रीधराय त्रैलोक्यमोहनाय विष्णवे नमः आगच्छ
ओं श्रियै नमः ।
ओं श्रां हृदयाय नमः ।
ओं श्रीं शिरसे नमः ।
ओं श्रूं शिखायै नमः ।
ओं श्रैं कवचाय नमः ।
ओं श्रौं नेत्रत्रयाय नमः ।
ओं श्रः अस्त्राय नमः ।
ओं शङ्खाय नमः ।
ओं पद्माय नमः ।
ओं चक्राय नमः ।
ओं गदायै नमः ।
ओं श्री वत्साय नमः ।
ओं कौस्तुभ्य नमः ।
ओं वनमालायै नमः ।
ओं पीताम्बराय नमः ।
ओं व्रह्मणे नमः ।
ओं नारदाय नमः ।
ओं गुरुभ्यो नमः ।
ओं इन्द्राय नमः ।
ओं अग्नये नमः ।
ओं यमाय नमः ।
ओं निरृतये नमः ।
ओं वरुणाय नमः ।
ओं वायवे नमः ।
ओं सोमाय नमः ।
ओं ईशानाय नमः ।
ओं अनन्ताय नमः ।
ओं ब्रह्मणे नमः ।
ओं सत्त्वाय नमः ।
ओं रजसे नमः ।
ओं तमसे नमः ।
ओं विष्वक्सेनाय नमः
अभिषेकं तथा वस्त्त्रं ततो यज्ञोपवीतकम् ।
गन्धं पुष्पं तथा धूपं दीपमन्नं प्रदक्षिणम्
दद्यादेभिर्महामन्त्रैः समप्यार्थ जपेन्मनुम् ।
शतमष्टोत्तरं चापि जप्त्वा ह्यथ समर्पयेत्
ततो मुहूर्तमेकन्तुध्यायेद्देवं हृदि स्थितम् ।
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम्
प्रसन्नवदनं सौम्यं स्फुरन्मकरकुण्डलम् ।
किरीटिनमुदाराङ्गं वनमालासमन्वितम्
परब्रह्मस्वरूपं च श्रीधरं चिन्तयेत्सुधीः ।
अनेन चैव स्तोत्रेण स्तुवीत परमेश्वरम्
श्रीनिवासाय देवाय नमः श्रीपतये नमः ।
श्रीधराय सशार्ङ्गाय श्रीप्रदाय नमोनमः
श्रीवल्लभाय शान्ताय श्रीमते च नमोनमः ।
श्रीपर्वतनिवासाय नमः श्रेयस्कराय च
श्रेयसां पतये चैव ह्याश्रमाय नमोनमः ।
नमः श्रेयः स्वरूपाय श्रीकराय नमोनमः
शरण्याय वरेण्याय नमो भूयो नमोनमः ।
स्तोत्रं कृत्वा नमस्कृत्य देवदेवं विसर्जयेत्
इति रुद्र समाख्याता पूजा विष्णोर्महात्मनः ।
यः करोति महाभक्त्या स याति परमं पदम्
इं यः पठते ऽध्यायं विष्णुपूजाप्रकाशकम् ।
स विधूयेह पापानि याति विष्णोः परं पदम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0