भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.236

1.236.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ब्रह्मविज्ञानस्वरूपणं नाम पञ्चत्रिंशदुत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 236
श्रीभगवानुवाच ।
आत्मज्ञानं प्रवक्ष्यामि शृणु नारद तत्त्वतः ।
अद्वैतं साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता

1.236.2

अद्वैतयोगसम्पन्नास्ते मुच्यन्ते ऽतिबन्धनात् ।
अतीतारब्धमागामि कर्म नश्यति बोधतः

1.236.3

सद्विचारकुठारेण च्छिन्नसंसारपादपः ।
ज्ञानवैराग्यतीर्थेन लभते वैष्णवं पदम्

1.236.4

जाग्रत्स्वप्नसुषुप्तं च माया त्रिपुरमुच्यते ।
अत्रैवान्तर्गतं सर्वं शाश्वते नाद्वये पदे

1.236.5

नामरूपक्रियाहीनं सर्वं तत्परमं पदम् ।
जगत्कृत्वेश्वरो ऽनन्तं स्वयमत्र प्रविष्टवान्

1.236.6

वेदाहमेतं पुरुषं चिद्रूपं तमसः परम् ।
सो ऽहमस्मीति मोक्षाय नान्यः पन्था विमुक्तये

1.236.7

श्रवणं मननं ध्यानं ज्ञानानां चैव साधनम् ।
यज्ञदानतपस्तीर्थवेदैर्मुक्तिर्न लभ्यते

1.236.8

त्यागेन केनचिद्ध्यानपूजाकर्मादिभिर्यथा ।
द्विविधं वेदवचनं कुरु कर्म त्यजेति च

1.236.9

यज्ञादयो विमुक्तानां निष्कामानां विमुक्तये ।
अन्तः करणशुद्ध्यर्थमूचुरेवात्र केचन

1.236.10

एकेन जन्मना ज्ञानन्मुक्तिर्न द्वैतभाविनाम् ।
योगभ्रष्टाः कुयोगाश्च विप्रा योगिकुलोद्भवाः

1.236.11

कर्मणा बध्यते जन्तुर्ज्ञानान्मुक्तो भवाद्भवेत् ।
आत्मज्ञानन्त्वाश्रयेद्वै अज्ञानं यदतो ऽन्यथा

1.236.12

यदा सर्वे विमुच्यन्ते कामा येस्यहृदि स्थिताः ।
तदामृतत्वमाप्नोति जीवन्नेव न संशयः

1.236.13

व्यापकत्वात्कथं याति को याति क्व स याति च ।
अनन्तत्वान्नदेशो ऽस्ति अमूर्तित्वाद्गतिः कुतः

1.236.14

अद्वयत्वान्न को ऽप्यस्ति बोधत्वाज्जडता कुतः ।
एकोद्दिष्टं यदन्यस्य मतिवाग्गतिसंस्थिति (म्)

1.236.15

कथमाकाशकल्पस्य गतिरागतिसंस्थिति ।
जाग्रत्स्वप्नसुषुप्तं च मायया परिकल्पितम्

1.236.16

वस्तु तैजसकं प्राज्ञे यत्तु पुण्यमखण्डकम् ।
यथा ते प्रियात्मा नः सर्वेषां च तथा प्रियः

1.236.17

बोधमार्गे यथा चित्तं सर्वेषां च तथा मते ।
सर्वदा सर्वभूतानां सर्वस्य च महामुने

1.236.18

नाहमत्रात्मविज्ञानं तस्मात्पूर्णं निरन्तरम् ।
जाग्रत्स्वप्नं तथा वृत्तं सौषुप्तसुखमेव च

1.236.19

स्मरणं विस्मृतार्थस्य नास्ति चेत्कस्य जायते ।
सत्यमस्तु तथा वाणु अशरीरं परं तथा

1.236.20

नास्ति चेत्सुखदुः खानां सर्वेषां वेदनं कथम् ।
सदा सर्वत्र सर्वज्ञः सर्वस्य हृदये न येत्

1.236.21

साक्षिभूतः समाश्रित्य को जानाति विचेष्टितम् ।
सत्य ज्ञानानन्त भिन्नं स्यान्नसत्यं ज्ञानतः पृथक्

1.236.22

नानन्त्यात्पृथगानन्दं नाप्यमानन्दतः पृथक् ।
त्वमेव परमं ब्रह्म सत्यज्ञानादिलक्षणम्

1.236.23

अहं ब्रह्म परं तत्त्वं ज्ञात्वा त्वखिलविद्भवेत् ।
यथैकमृन्मये ज्ञाते सर्वमेतच्चराचरम्

1.236.24

यथैकहेममणिना सर्वं हेममयं भवेत् ।
ज्ञानं तथैवमीशेन ज्ञानिनाप्यखिलं जगत्

1.236.25

यथान्धकारदोषेण रज्जुः सम्यङ्नदृश्यते ।
यथा संमोहदोषेण चात्मा सम्यङ्नदृश्यते

1.236.26

सर्पधारादिभिर्भेदरैन्यथा वस्तुकल्पनम् ।
व्योमादिना सरूपाद्यैरन्यथात्मा प्रकल्प्यते

1.236.27

प्रत्यक्षमपि यद्द्रव्यन्दुर्दर्शमिति भाषते ।
व्योमादिना सरूपाद्यैरन्यथा कल्पितैस्तथा

1.236.28

तथा हि रज्जुरुरगः शुक्तिः कारजतं यथा ।
मृगतृष्णापथायाम्भस्तृप्तिं विष्णो तथा जगत्

1.236.29

हाहिष्णोद्विजा कथि द्भोहमितिदृ ।
ग्रहनाशात्पुनर्ध्यायन्ब्राह्मण्यं मन्यते यथा

1.236.30

मायाविष्टस्तथा जीवो देहोहमिति मन्यते ।
मायानाशात्पुनः स्वीयरूपं ब्रह्मास्मि मन्यते

1.236.31

ग्रहनाशाद्यथा मान्यजनोक्रूरमवेक्षते ।
स्वरूपदर्शनाच्चायं माया नाशन्तया विना

1.236.32

अनादित्वं समं द्वाभ्यां स्वरूपं तद्विलक्षणम् ।
एकः सत्यं तथा भागी विचारेण परं मृषा

1.236.33

अजोपि हि सकृत्प्रेत्य संभवाम्यात्ममायया ।
मायेच्छया द्विधा स स्यात्पतिः पत्नी सुखं जगत्

1.236.34

अष्टाविंशतिभेदैस्तु त्रैगुण्यं विद्यते पृथक् ।
चतुरशीतिर्लक्ष्यन्ते नरनार्याकृतीनि च

1.236.35

एषुविश्वं प्रभवति खण्डजं मायया यथा ।
आदावन्ते च सन्त्येते नामरूपक्रियादयः

1.236.36

सत्तावकल्पनं काले न सन्ति परमार्थतः ।
यथा रथादयः स्वप्ने सन्तो नैव च सत्यतः

1.236.37

तथा जाग्रदवस्थायां भूतानि न तु सन्निधौ ।
द्वैरूप्यं मायया याति जाग्रत्स्वप्नपदज्ञ (क्ष) योः

1.236.38

एवमेतत्परं ब्रह्म स्वप्नजाग्रत्पदद्वये ।
सुषुप्तमचलं रूपमद्वयं पदमुच्यते

1.236.39

मायाविचारसिद्धैव विचारेण विलीयते ।
आपातरहिता सापि कल्पना कालवर्तिनी

1.236.40

एवं तस्या (दात्या) त्मनादित्यं सिद्धमेकस्य सत्यजा ।
सतोस्तित्वं वसातित्वादस्तित्वासत्यतां ततः

1.236.41

ज्ञानं ततोप्यनन्तो नः पूर्णोन्तः शुकमात्मना ।
न नित्यभावाज्जातोहमकृत्वादमृतोस्म्यहम् ।
दीपवद्धृदये ज्योतिरहं ब्रह्मास्मि मुक्तये

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc