भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.237

1.237.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आत्मज्ञानस्वरूपवर्णनं नाम षट्त्रिंशदुत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 237
श्रीबगवानुवाच ।
गीतासारं प्रवक्ष्यामि अर्जुनायोदितं पुरा ।
अष्टाङ्गयोगयुक्तात्मा सर्ववेदान्तपारगः

1.237.2

आत्मलाभः परो नान्य अत्मदेहादिवर्जितः ।
हीनरूपादिदेहान्तः करणत्वादिलोचनः

1.237.3

बिज्ञानरहितः प्राणः सुषुप्तौ हि प्रतीयते ।
नाहमात्मा च दुः खादिसंसारादिसमन्वयात्

1.237.4

विधूम इव दीप्तार्चिरादीप्त (दित्य) इव दीप्तिमान् ।
वैद्युतो ऽग्निरिवाकाशे हृत्सङ्गे आत्मनात्मनि

1.237.5

श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना ।
सर्वज्ञः सर्वदर्शो च क्षेत्रज्ञस्तानि पश्यन्ति

1.237.6

यदा प्रकाशते ह्यात्मा पटे दीपो ज्वलन्निव ।
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः

1.237.7

यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम्

1.237.8

मनोबुद्धिरहङ्कारमव्यक्तं पुरुषं तथा ।
प्रसंख्याय परंव्याप्तो विमुक्तो बन्धवैर्भवेत्

1.237.9

इन्द्रियग्राममखिलं मनसाभिनिवेश्य च ।
मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव

1.237.10

अहं कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ।
प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत्

1.237.11

अहं बह्म परं ज्योतिः प्रसंख्याय विमुच्यते ।
नवद्वारमिदं गेहं तिसृणां?पञ्चसाक्षिकम्

1.237.12

क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स वरः कविः ।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोच्शीम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc