भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.235

1.235.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऽच्युतस्तोत्रं नाम चतुस्त्रिंशदुत्तरद्विशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 235
सूत उवाच वेदान्तसाङ्ख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् ।
अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन्

1.235.2

सूर्ये हृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् ।
यथा सर्पिः शीरस्थं गवां न कुरुते बलम्

1.235.3

निर्गतं कर्मसंयुक्तं दत्तं तासां महा बलम् ।
तथा विष्णुः शरीरस्थो न करोति हितं नणाम्

1.235.4

विनाराधनया देवः सर्वगः परमेश्वरः ।
आरुरुक्षुमतीनां तु कर्मज्ञानमुदाहृतम्

1.235.5

आरूढयोगवृक्षाणां ज्ञानं त्यागं परं मतम् ।
ज्ञातुमिच्छति शब्दादीन्रागो द्वेषो ऽथ जायते

1.235.6

लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत् ।
हस्तावुपस्थमुदरं वाक्चतुर्थो चतुष्टयम्

1.235.7

एतत्सुसंयतं यस्य स विप्रः कथ्यते बुधैः (धः) ।
परवित्तं न गृह्णाति न हिंसां कुरुते तथा

1.235.8

नाक्षक्रीडारतो यस्तु हस्तौ तस्य सुसंयतौ ।
परस्त्रीवर्जनरतस्तस्योपस्थं सुसंयतम्

1.235.9

अलोलुपमिदं भुङ्क्ते जठरं तस्य संयतम् ।
सत्यं हितं मितं ब्रूते यस्माद्वाक्तस्य संयता

1.235.10

यस्य संयतान्येतानि तस्य किं तपसाध्वरैः ।
ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणां च सर्वदा

1.235.11

सबीजं वापि निर्बोजं ध्यानमेतत्प्रकीर्तितम् ।
भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः

1.235.12

हन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते

1.235.13

स्वप्नान्पश्यत्यसौ जीवो बाह्यानाभ्यन्तरानथ ।
जीवो जाग्रदवस्थायामेवमाहुर्विपाश्चितः

1.235.14

हृदि स्थितः स तमसा मोहितो न स्मरत्यपि ।
यदा तस्य कुतो वेति सुषुप्तिरिति कथ्यते

1.235.15

जाग्रतो यस्य नो तन्द्रा न मोहो न भ्रमस्तथा ।
उत्पद्यते न जानाति शब्दार्थविषयान्वशी

1.235.16

इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा ।
बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च

1.235.17

संयम्य प्रकृतिं चापि चिच्छक्त्या केवले स्थितः ।
पश्यत्यात्मानि चात्मानमात्मनात्मप्रकाशकम्

1.235.18

चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम् ।
तुरीयायामवस्थायामास्थितो ऽसौ न संशयः

1.235.19

शब्दादयो गुणाः पञ्च सत्त्वाद्याश्च गुणास्त्रयः ।
पुर्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि

1.235.20

साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका ।
कर्णिकायां स्थितो देवो देही चिद्रूप एव हि

1.235.21

पुर्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम् ।
यदा याति तदा जीवो याति मुक्तिं न संशयः

1.235.22

प्राणायामो जपश्चैव प्रत्याहारो ऽथ धारणा ।
ध्यानं समाधिरित्येते षड् योगस्य प्रसाधकाः

1.235.23

पापक्षये देवतानां प्रीतिरिन्द्रियसंयमः ।
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः

1.235.24

षट्त्रिंशन्मात्रकः श्रेष्ठश्चतुर्विंशतिमात्रकः ।
मध्यो द्वादशमात्रस्तु ओङ्कारं सततं जपेत्

1.235.25

वाचके प्रणवे ज्ञाते वाच्यं ब्रह्म प्रसीदति ।
(ओंनमो विष्णवे).षष्ठाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरी

1.235.26

सर्वेषामिन्द्रियाणां तु प्रवृतिर्विषयेषु च ।
निवृत्तिर्मनसस्तस्याः प्रत्याहारः प्रकीर्तितः

1.235.27

इन्द्रियाणीन्द्रियार्थेभ्यः समाहृत्य हितो हि सः ।
सहसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः

1.235.28

प्राणायामैर्द्वादशभिर्यावत्कालःकृतो भवेत् ।
यस्तावत्कालपर्यन्तं मनो ब्रह्मणि धारयेत्

1.235.29

तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ।
तुष्येत नियतो युक्तः समाधिः सो ऽभीधीयते ॥ गर्प्_1,235.28*1 ॥
ध्यायन्न चलते यस्य मनोभिध्यायतो भृशम्

1.235.30

प्राप्यावधिकृतं कालं यावत्सा धारणा स्मृता ।
ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति

1.235.31

नान्यं पदार्थं जानाति ध्यानमेतत्प्रकीर्तितम् ।
ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन्

1.235.32

यत्तद्ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ।
ध्येयमेव हि सर्वत्र ध्याता तन्मयतां गतः

1.235.33

पश्यति द्वैतरहितं समाधिः सो ऽभिधीयते ।
मनः सङ्कल्परहितमिन्द्रियार्थान्न चिन्तयेत्

1.235.34

यस्य ब्रह्मणि संलीनं समाधिस्थं तदोच्यते ।
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः

1.235.35

मनस्तन्मयतां याति समाधिस्थः स कीर्तितः ।
चित्तस्य स्थिरता भ्रान्तिर्दैर्मनस्यं प्रमादता

1.235.36

योगिनां कथिता दोषा योगविघ्नप्रवर्तकाः ।
स्थित्यर्थं मनसः सर्वं स्थूलरूपं विचिन्तयेत्

1.235.37

तद्व्रतं निश्चलीभूतं सूय्यस्थं स्थिरतां व्रजेत् ।
न विना परमात्मानं किञ्चिज्जगति विद्यते

1.235.38

विश्वरूपं तमेवैकमिति ज्ञात्वा विमुञ्चति ।
ओङ्कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम्

1.235.39

क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रात्रयान्वितम् ।
हृदि सञ्चिन्तयेत्पूर्वं प्रधानं तस्य चोपरि

1.235.40

तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात् ।
कृष्णरक्तसितं तस्मिन्पुरुषं जीवसंज्ञितम्

1.235.41

तस्योपरि गुणैश्वर्यमष्टपत्रं सरोरुहम् ।
ज्ञानं तु कर्णिका तत्र विज्ञानं केसराः स्मृताः

1.235.42

वैराग्यनालं तत्कन्दो वैष्णवो धर्म उत्तमः ।
कर्णिकायां स्थितं तत्र जीववन्निश्चलं विभु

1.235.43

ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम् ।
ध्यायन्यदि त्यजेत्प्राणान्याति ब्रह्म स्वसन्निधिम्

1.235.44

हरिं संस्थाप्य देहाब्जे ध्यायन्यो गी च भक्तिभाक् ।
आत्मानमात्मना केचित्पश्यन्ति ध्यानचक्षुषः

1.235.45

सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ।
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदनम्

1.235.46

तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः ।
जितेन्द्रियात्मकरणो ज्ञानदृप्तो हि यो भवेत्

1.235.47

स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः ।
आसनस्थानविधयो न योगस्य प्रसाधकाः

1.235.48

विलम्बजनकाः सर्वे विस्तराः परिकीर्तिताः ।
शिशुपालः सिद्धिमाप स्मरणाभ्यासगौरवात्

1.235.49

योगाभ्यासं प्रकुर्वन्तः पस्यन्त्यात्मानमात्मना ।
सर्वभूतेषु कारुण्यं विद्वेषं विषयेषु च

1.235.50

गुप्तशिश्रोदरादिश्च कुर्वन्योगी विमुच्यते ।
इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा

1.235.51

काष्ठवद्ब्रह्मसंलीनो योगी मुक्तस्तदा भवेत् ।
सर्ववर्णाः श्रियः सर्वाः कृत्वा पापानि भस्मसात्

1.235.52

ध्यानाग्निना च मेधावी लभते परमां गतिम् ।
मन्थनाद्दृश्यते ह्यग्निस्तद्वद्ध्यानेन वै हरिः

1.235.53

ब्रह्मात्मनोर्यदैकत्वं स योगश्चोत्तमोत्तमः ।
बाह्यरूपैर्न मुक्तिस्तु चान्तस्थैः स्याद्यमादिभिः

1.235.54

साङ्ख्यज्ञानेन योगेन वेदान्तश्रवणेन च ।
प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते ।
अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc