गरुड़ पुराण · अध्याय 1.2
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमो ऽध्यायः
श्रीगरुडमहापुराणम्- 2
ऋषय ऊचुः ।
कथं व्यासेन कथितं पुराणं गारुडं तव ।
एतत्सर्वं समाख्याहि परं विष्णुकथाश्रयम्
सूत उवाच ।
अहं हि मुनिभिः सार्धं गतो बदरिकाश्रमम् ।
तत्र दृष्टो मया व्यासो ध्यायमानः परेश्वरम्
तं प्रणम्योपविष्टो ऽहं पृष्टवान्हि मुनीश्वरम् ।
सूत उवाच ।
व्यास ब्रूहि हरे रूपं जगत्सर्गादिकं ततः
मन्ये ध्यायसि तं यस्मात्तस्माज्जानासि तं विभुम् ।
एवं पृष्टो यथा प्राह तथा विप्रा?निबोधत
व्यास उवाच ।
शृणु सूत ! प्रवक्ष्यामि पुराणं गारुडं तव ।
सह नारददक्षाद्यैर्ब्रह्मा मामुक्तवान्यथा
सूत उवाच ।
दक्षनारदमुख्यैस्तु युक्तं त्वां कथमुक्तवान् ।
ब्रह्मा श्रीगारुडं पुण्यं पुराणं सारवाचकम्
व्यास उवाच ।
अहं हि नारदो दक्षो भृग्वाद्याः प्रणिपत्य तम् ।
सारं ब्रूहीति पप्रच्छुर्ब्रह्माणं ब्रह्मलोकगम्
ब्रह्मोवाच ।
पुराणं गारुडं सारं रुद्रं च मां यथा ।
सुरैः सहाब्रवीद्विष्णुस्तथाहं व्यास वच्मिते
व्यास उवाच ।
कथं रुद्रं सुरैः सार्धमब्रवीद्वै हरिः पुरा ।
पुराणं गारुडं सारं ब्रूहि ब्रह्मन्महार्थकम्
ब्रह्मोवाच ।
अहं गतो ऽद्रिं कैलासमिन्द्राद्यैर्दैवतैः सह ।
तत्र दृष्टो मया रुद्रो ध्यायमानः परं पदम्
पृष्टो नमस्कृतः किं त्वं देवं ध्यायसि शङ्कर? ।
त्वत्तो नान्यं परं देवं जानामि ब्रूहि मां ततः
सारात्सारतरं तत्त्वं श्रोतुकामः सुरैः सह ।
रुद्रौवाच ।
अहं ध्यायामि तं विष्णुं परमात्मानमीश्वरम्
सर्वदं सर्वगं सर्वं सर्वप्राणिहृदिस्थितम् ।
भस्मोद्धूलितदेहस्तु जटामण्डलमण्डितः
विष्णोराराधनार्थं मे व्रतचर्या पितामह ।
तमेव गत्वा पृच्छामः सारं यं चिन्तयाम्यहम्
विष्णुं जिष्णुं पद्मनाभं हरिं देहविवर्जितम् ।
शुचिं शुचिषदं हंसं तत्पदं परमेश्वरम्
युक्ता सर्वात्मनात्मानं तं देवं चिन्तयाम्यहम् ।
यस्मिन्विश्वानि भूतानि तिष्ठन्ति च विशन्ति च
गुणभूतानि भूतेशे सूत्रे मणिगणा इव ।
सहस्राक्षं सहस्राङ्घ्रिं सहस्रोरुं वराननम्
अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि
यं वाक्येष्वनुवाक्येषु निषत्सूपनिषत्सु च ।
गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु
पुराण पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो द्विजातिषु ।
क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे
यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो यथा ।
ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम्
अर्चयन्ति च यं देवा यक्षराक्षसपन्नगाः ।
यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः
चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ।
यस्य त्रिलोकी जठरे मस्य काष्ठाश्च बाहवः
यस्योच्छ्वासश्च पवनः तं देवं चिन्तयाम्यहम् ।
यस्य केशेषु जीमूता नद्यः सर्वाङ्गसन्धिषु
कुक्षौ समुद्राश्चत्वारस्तं देवं चिन्तयाम्यहम् ।
परः कालात्परो यज्ञात्परः सदसतश्चयः
अनादिरादि र्विश्वस्य तं देवं चिन्तयाम्यहम् ।
मनसश्चन्द्रमा यस्य चक्षुषोश्च दिवाकरः
मुखादग्निश्च संजज्ञे तं देवं चिन्तयाम्यहम् ।
पद्य्भां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः
मूर्धभागाद्दिवं यस्य तं देवं चिन्तयाम्यहम् ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च
वंशानुचरितं यस्मात्तं देवं चिन्तयाम्यहम् ।
यं ध्यायाम्यहमेतस्मादूजामः सारमीक्षितुम्
ब्रह्मोवाच ।
इत्युक्तो ऽहं पुरा रुद्रः श्वेतद्वीपनिवासिनम् ।
स्तुत्वा प्रणम्य तं विष्णुं श्रोतुकाम स्थितः सुरैः
अस्माकं मध्यतो रुद्र उवाच परमेश्वरम् ।
सारान्त्सारतरं विष्णुं पृष्टवांस्तं प्रणम्य वै
ब्रह्मोवाच ।
यथा पप्रच्छ मां व्यास स्तथासौ भगवान् भवः ।
पप्रच्छ विष्णुं देवाद्यैः शृण्वताममरैः सह
रुद्र उवाच ।
हरे कथय देवेश ! देवदेवः क ईश्वरः ।
को ध्येयः कश्च वै पूज्यः कैर्व्रतै स्तुष्यते परः
कैर्धर्मैः कैश्च नियमैः कया वा धर्मपूजया ।
केनाचारेण तुष्टः स्यात्किं तद्रूपं च तस्य वै
कस्माद्देवाज्जगज्जातं जगत्पालयते चकः ।
कीदृशैरवतारैश्च कस्मिन्याति लयं जगत्
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
कस्माद्देवात्प्रवर्तन्ते कस्मिमन्नेतत्प्रतिष्ठितम्
एतत्सर्वं हरे ! ब्रूहि यच्चान्यदपि किञ्चन ।
परमेश्वरमाहात्म्यं युक्तयोगादिकं तथा
तथाष्टादश विद्याश्च हरी रुद्रं ततो ऽब्रवीत् ।
हरिरुवाच ।
शृणु रुद्र ! प्रवक्ष्यामि ब्रह्मणा च सुरैः सह
अहं हि देवो देवानां सर्वलोकेश्वरेश्वरः ।
अहं ध्येयश्च पूज्यश्च स्तुत्योहं स्ततिभिः सुरैः
अहं हि पूजितो रुद्र ! ददामि परमां गतिम् ।
नियमैश्च व्रतैस्तुष्ट आचारेण च मानवैः
जगत्स्थितेरहं बीजं जगत्कर्ता त्वहं शिव ! ।
दुष्टनिग्रहकर्ता हि धर्मगोप्ता त्वहं हर !
अवतारैश्च मत्स्याद्यैः पालयाम्यखिलं जगत् ।
अहं मन्त्राश्च मन्त्रार्थः पूजाध्यानपरो ह्यहम्
स्वर्गादीनां च कर्ताहं स्वर्गादीन्यहमेव च ।
योगी योगोहमेवाद्यः पुराणान्यहमेवच
ज्ञाता श्रोता तथा मन्ता वक्ता वक्तव्यमेव च ।
सर्वः सर्वात्मको देवो भुक्तिमुक्तिकरः परः
ध्यानं पूजोपहारो ऽहं मण्डलान्यहमेव च ।
इतिहासान्यहं रुद्र ! सर्ववेदा ह्यहं शिव !
सर्वज्ञानान्यहं शम्भो ! ब्रह्मात्माहमहं शिव ! ।
अहं ब्रह्मा सर्वलोकः सर्वदेवात्मको ह्यहम्
अहं साक्षात्सदाचारो धर्मो ऽहं वैष्णवो ह्यहम् ।
वर्णाश्रमास्तथा चाहं तद्धर्मो ऽहं पुरातनः
यमो ऽहं नियमो रुद्र ! व्रतानि विविधानि च ।
अहं सूर्यस्तथा चन्द्रो मङ्गलादीन्यहं तथा
पुरा मां गरुडः पक्षी तपसाराधयद्भुवि ।
तुष्ट ऊचे वरं ब्रूहि मत्तो वव्रे वरं स तु
गरुड उवाच ।
मम माता च विनता नागैर्दासीकृता हरे ।
यथाहं देव ताञ्जित्वा चामृतं ह्यानयामि तत्
दास्याद्विमोक्षयिष्यामि यथाहं वाहनस्तव ।
महाबलो महावीर्यः सर्वज्ञो नागदारणः
पुराणसंहिताकर्ता यथाहं स्यां तथा कुरुं ।
विष्णुरुवाच ।
यथा त्वयोक्तं गरुड तथा सर्वं भविष्यति
नागदास्यान्मातरं त्वं विनतां मोक्षयिष्यसि ।
देवादीन्सकलाञ्जित्वा चामृतं ह्यानयिष्यसि
महाबलो वाहनस्त्वं भविष्यसि विषार्दनः ।
पुराणं मत्प्रसादाच्च मम माहात्म्यवाचकम्
यदुक्तं मत्स्वरूपं च तव चाविर्भविष्यति ।
गारुडं तव नाम्ना तल्लोके ख्यातिं गमिष्यति
यथाहं देवदेवानां श्रीः ख्यातो विनतासुत ।
तथा ख्यातिं पुराणेषु गारुडं गारुडैष्यति
यथाहं कीर्तनीयो ऽथ तथा त्वं गरुडात्मना ।
मां ध्यात्वा पक्षिमुख्येदं पुराणं गद गारुडम्
इत्युक्तो गरुडो रुद्र ! कश्यपायाह पृच्छते ।
कश्यपो गारुडं श्रुत्वा वृक्षं दग्धमजीवयत्
स्वयं चान्यमना भूत्वा विद्ययान्यान्य जीवयत् ।
यक्षि ओंउंस्वाहाजापी विद्ययं गारुडी परा ।
गरुडोक्तं गारुडं हि शृणु रुद्र ! मदात्मकम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0