भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.3

1.3.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगरुडमहापुराणोत्पत्तिनिरूपणं नाम द्वितीयो ऽध्यायः
श्रीगरुडमहापुराणम्- 3
सूत उवाच ।
इति रुद्राब्जजो विष्णोः शुश्राव ब्रह्मणो मुनिः ।
व्यासो व्यासादहं वक्ष्येहं ते शौनक नैमिषे

1.3.2

मुनीनां शृण्वतां मध्ये सर्गाद्यं देवपूजनम् ।
तीर्थं भुवनकोशं च मन्वन्तरमिहोच्यते

1.3.3

वर्णाश्रमादिधर्माश्च दानराजादिधर्मकाः ।
व्यवहारो व्रतं वंशा वैद्यकं सनिदानकम्

1.3.4

अङ्गानि प्रलयो धर्मकामार्थज्ञानमुत्तमम् ।
सप्रपञ्चं निष्प्रपञ्चं कृतं विष्णोर्निगद्यते

1.3.5

पुराणे गारुडे सर्वं गरुडो भगवानथ ।
वासुदेवप्रसादेन सामर्थ्यातिशयैर्युतः

1.3.6

भुत्वा हरेर्वाहनं च सर्गादीनां च कारणम् ।
देवान्विजित्य गरुडो ह्यमृताहरणं तथा

1.3.7

चक्रे क्षुधा हृतं यस्य ब्रह्माण्डमुदरे हरेः ।
यं दृष्ट्वा स्मृतमात्रेण नागान्दीनां च संक्षयः

1.3.8

कश्यपो गारुडाद्वृक्षं दग्धं चाजीवयद्यतः ।
गरुडः स हरिस्तेन प्रोक्तं श्रीकश्यपाय च

1.3.9

तच्छ्रीमद्रारुडं पुण्यं सर्वदं पठतस्तव ।
वक्ष्ये व्यासं नमस्कृत्य शृणु शौनक तद्यथा

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc