भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.1

1.1.1

श्रीगणाधिपतये नमः ।
सरस्वत्यैनमः ।
अथ श्रीगरुडमहापुराणं प्रारभ्यते ।
तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते ।
ओं नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ गर्प्_मन्ग्.1 ॥
ओं अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् ।
सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम्

1.1.2

नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम् ।
देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा

1.1.3

सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम् ।
विष्णुभक्तं महात्मानं नैमिशारण्यमागतम्

1.1.4

तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने ।
ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम्

1.1.5

शौनकाद्या महाभागा नैमिषीयास्तपोधनाः ।
मुनयो रविसङ्काशाः शान्ता यज्ञ परायणाः

1.1.6

ऋषय ऊचुः ।
सूत ! जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम् ।
देवतानां हि को देव ईश्वरः पूज्य एव कः

1.1.7

को ध्येयः को जगत्स्रष्टा जगत्पात्ति च हन्ति कः ।
कस्मात्प्रवर्तते धर्मो दुष्टहन्ता च कः स्मृतः

1.1.8

तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः ।
कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते

1.1.9

अवताराश्च के तस्य कथं वंशादिसम्भवः ।
वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्तकः

1.1.10

एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते ! ।
नारायणकथाः सर्वाः कथयास्माकमुत्तमाः

1.1.11

सूत उवाच ।
पुराणं गारुडं वक्ष्ये सारं विष्णुकथा श्रयम् ।
गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया

1.1.12

एको नारायणो देवो देवानामीश्वरेश्वरः ।
परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत्

1.1.13

जगतो रक्षणार्थाय वासुदेवो ऽजरो ऽमरः ।
स कुमारादिरूपेण अवतारान्करोत्यजः

1.1.14

हरिः स प्रथमं देवः कौमारं सर्गमास्थितः ।
चचार दुश्चरं ब्रह्मन् ब्रह्मचर्यमखण्डितम्

1.1.15

द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्ते यज्ञेशः सौकरं वपुः

1.1.16

तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः

1.1.17

नरनारायणो भूत्वा तुर्ये तेपे तपो हरिः ।
धर्मसं रक्षणार्थाय पूजितः स सुरासुरैः

1.1.18

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाच सूरये साङ्ख्यं तत्त्वग्रामवि निर्णयम्

1.1.19

षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तो ऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान्

1.1.20

ततः सप्त आकूत्यां रुचेर्यज्ञो ऽभ्यजायत ।
सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे

1.1.21

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम्

1.1.22

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धैर्महौषधैर्विप्रास्तेन संजीविताः प्रजाः

1.1.23

रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम्

1.1.24

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः

1.1.25

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
आप्यायत्सुरानन्यान्मोहिन्या मोहयंस्त्रिया

1.1.26

चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम् ।
ददार करजैरुग्रैरेरकां कटकुद्यथा

1.1.27

पञ्चदशं वामनको भूत्वागादध्वरं बलेः ।
पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्

1.1.28

अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् ।
त्रिः सप्तकृत्वः कुपितो निः क्षत्त्रामकरोन्महीम्

1.1.29

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखां दृष्ट्वा पुंसो ऽल्पमेधसः

1.1.30

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे कार्याण्यतः परम्

1.1.31

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम्

1.1.32

ततः कलेस्तु सन्ध्यान्ते संमोहाय सुरद्विषाम् ।
बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति

1.1.33

अथ सो ऽष्टमसन्ध्यायां नष्टप्रायेषु राञ्जसु ।
भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः

1.1.34

अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः ।
मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः

1.1.35

तस्मात्सर्गादयो जाताः संपूज्याश्च व्रतादिना ।
पुराणं गारुडं व्यासः पुरासौ मे ऽब्रवीदिदम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc