भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.152

1.152.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हिक्रानिदाना नामैकपञ्चाशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 152
धन्वन्तरिरुवाच ।
अथातो यक्ष्मरोगस्य निदानं प्रवदाम्यहम् ।
अनेकरोगानुगतो बहुरोगपुरोगमः

1.152.2

राजयक्ष्मा क्षयः शोषो रोगराडिति कथ्यते ।
नक्षत्राणां द्विजानाञ्च राज्ञो ऽभूद्यदयं पुरा

1.152.3

यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ।
देहौषधक्षयकृतेः क्षयस्तत्सम्भवाच्च सः

1.152.4

रसादिशोषणाच्छोषो रोगराडिति राजवत् ।
साहसं वेगसंरोधः शुक्रौजः स्नेहसंक्षयः

1.152.5

अन्नपानविधित्यागश्चत्वारस्तस्यहेतवः ।
तैरुदीर्णो ऽनिलः पित्तं व्यर्थं चोदीर्य सर्वतः

1.152.6

शरिरसन्धिमाविश्य ताः शिराः प्रतिपीडयन् ।
मुखानि स्रोतसां रुद्ध्वा तथैवातिविसृज्य वा

1.152.7

मध्यमूर्ध्वमधस्तिर्यगव्यथां सञ्जनयेद्धृदः ।
रूपं भविष्यतस्तस्य प्रतिश्यायो भृशं ज्वरः

1.152.8

प्रसेको मुखमाधुर्यं मार्दवं वह्निदे हयोः ।
लौल्यभावो ऽन्नपानादौ शुचावशुचिवीक्षणम्

1.152.9

मक्षिकातृणकेशादिपातः प्रायो ऽन्नपानयोः ।
हृल्लासश्छर्दिररुचिरस्नाते ऽपि बलक्षयः

1.152.10

पाण्योरुवक्षः पादास्यकुक्ष्यक्ष्णोरतिशुक्लता ।
बाह्वोः प्रतोदो जिह्वायाः काये बैभत्स्यदर्शनम्

1.152.11

स्त्रीमद्यमांसप्रियता घृणिता मूर्धगुण्ठनम् ।
नखकेशास्थिवृद्धिश्च स्वप्ने चाभिभवो भवेत्

1.152.12

पतनं कृकलासाहिकपिश्वापदपक्षिभिः ।
केशास्थितुषभस्मादितरौ समधिरोहणम्

1.152.13

शून्यानां ग्रामदेशानां दर्शनं शुष्यतो ऽम्भसः ।
ज्योतिर्दिवि दवाग्नीनां ज्वलतां च महीरुहाम्

1.152.14

पीनसश्वासकासं च स्वरमूर्धरुजो ऽरुचिः ।
ऊर्ध्वनिः श्वाससंशोषावधश्छर्दिश्च कोष्ठगे

1.152.15

स्थिते पार्श्वे च रुग्बोधे सन्धिस्थे भवति ज्वरः ।
रूपाण्यैकादशैतानि जायन्ते राजयक्ष्मणः

1.152.16

तेषामुपद्रवान्विद्यात्कण्ठध्वंसकरी रुजाः ।
जृम्भाङ्गमर्दनिष्ठीववह्निमान्द्यास्यपूतिता

1.152.17

तत्र वाताच्छिरः पार्श्वशूलनं सांगमर्दनम् ।
कण्ठरोधः स्वरभ्रंशः पित्तात्पादांसपाणिषु

1.152.18

दाहो ऽतिसारो ऽसृक् छर्दिर्मुखगन्धो ज्वरो मदः ।
कफादरोचकच्छर्दिकासा अर्ध्वां गगौरवम्

1.152.19

प्रसेकः पीनसः श्वासः स्वरभेदो ऽल्पवह्निता ।
दोषैर्मन्दानलत्वेन शोथलेपकफोल्बणैः

1.152.20

स्रोतोमुखेषु रुद्धेषु धातुषु स्वल्पकेषु च ।
विदाहो मनसः स्थाने भवन्त्यन्ये ह्युपद्रवाः

1.152.21

पच्यते कोष्ठ एवान्नमम्लयुक्तै रसैर्युतम् ।
प्रायो ऽस्य क्षयभागानां नैवान्नं चाङ्गपुष्टये

1.152.22

रसो ह्यस्य न रक्ताय मांसाय कुरुते तु तत् ।
उपष्टब्धः समन्ताच्च केवलं वर्तते क्षयी

1.152.23

लिङ्गेष्वल्पेष्वतिक्षीणं व्याधौ षट्करणक्षयम् ।
वर्जयेत्साधयेदेव सर्वेष्वपि ततो ऽन्यथा

1.152.24

दोषैर्व्यस्तैः समस्तैश्च क्षयात्सर्वस्य मेदसः ।
स्वरभेदो भवेत्तस्य क्षामो रूक्षश्चलः स्वरः

1.152.25

शुकवर्णाभकण्ठत्वं स्निग्धोष्णोपशमो ऽनिलात् ।
पित्तात्तालुगले दाहः शोषो भवति सन्ततम्

1.152.26

लिम्पन्निव कफैः कण्ठं मुखं घुरघुरायते ।
स्वयं विरुद्धैः सर्वैस्तु सर्वालिङ्गैः क्षयो भवेत्

1.152.27

धूमायतीव चात्यर्थमुदेति श्लेष्मलक्षणम् ।
कृच्छ्रसाध्याः क्षयाश्चात्र सर्वैरल्पञ्च वर्जयेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc