भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.153

1.153.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे यक्ष्मनिदाना नाम द्विपञ्चाशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 153 ।
धन्वन्तरिरुदाच ।
अरोचकनिदान्ते वक्ष्ये ऽहं सुश्रुताधुना ।
अरोचको भवेद्दोषैर्जिह्वाहृदयसंश्रयैः

1.153.2

सन्निपातेन मनसः सन्तापेन च पञ्चमः ।
कषायतिक्तमधुरं वातादिषु मुखं क्रमात्

1.153.3

सर्वं वीतरसं शोकक्रोधादिषु यथा मनः ।
छर्दिदोषैः पृथक्सर्वैर्दुष्टैरन्यैश्च पञ्चमः

1.153.4

उदानो ऽधिकृतान्दोषान्सर्वं सन्ध्यर्हमस्यति ।
आशु क्लेशो ऽस्य लावण्यप्रसेकारुचयः क्रमात्

1.153.5

नाभिपृष्ठं रुजत्याशु पार्श्वे चाहारमुत्क्षिपेत् ।
ततो विच्छ्रिन्नल्पाल्पकषायं फेनिलं वमेत्

1.153.6

शब्दोद्गरयुतः कृच्छ्रमनुकृच्छ्रेण वेगवत् ।
कासास्यशोषकं वातात्स्वरपीडासमन्वितम्

1.153.7

पित्तात्क्षारोदकनिभं धूम्रं हरितपीतकम् ।
सासृगम्लं कटुतिक्तं तृण्मूर्छादाहपाकवत्

1.153.8

कफात्स्निग्धं घनं पीतं श्लेष्मतस्तु समाक्षिकम् ।
मधुरं लवणं भूरि प्रसक्तं लोमहर्षणम्

1.153.9

मखश्वयथुमाधुर्यतन्द्राहृल्लासकासवान् ।
सर्वैर्लिङ्गैः समापन्नस्त्याज्यो भवति सर्वथा

1.153.10

सर्वं यस्य च विद्विष्टं दर्शनश्रवणादिभिः ।
वातादिनैव संक्रुद्धकृमिदुष्टान्नजे गदे ।
शूलवेपतुहृल्लासो विशेषात्कृमिजे भवेत्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc