गरुड़ पुराण · अध्याय 1.151
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्वासनिदाना नाम पञ्चाशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 151
धन्वन्तरिरुवाच ।
हिक्रारोगनिदानञ्च वक्ष्ये सुश्रुत ! तच्छृणु ।
श्वासैकहेतुः प्राग्रूपं संख्या प्रकृतिसंश्रया
हिक्रा भक्ष्योद्भवा क्षुद्रा यमला महतीति च ।
गम्भीरा च मरुत्तत्र त्वरयायुक्तिसेवितैः
रूक्षतीक्ष्णखराशान्तैरन्नपानैः प्रपीडितः ।
करोति हिक्रां श्वसनः मन्दशब्दां क्षुधानुगाम्
समं सन्ध्यान्नपानेन या प्रयाति च सान्नजा ।
आयासात्पवनः क्रुद्धः क्षुद्रां हिक्रां प्रवर्तयेत्
जत्रुमूलात्परिसृता मन्दवेगवन्ती हि सा ।
वृद्धिमायासतो याति भुक्तमात्रे च मार्दबम्
चिरेण यमलैर्वेगैर्या हिक्रा संप्रवर्तते ।
परिणामान्मुखे वृद्धिं परिणामे च गच्छति
कम्पयन्ती शिरो ग्रीवां यमलां तां विनिर्दिशेत् ।
प्रलापच्छर्द्यतीसारनेत्रविप्लुतजृम्भिता
यमला वेगिनी हिक्रा परिणामवती च सा ।
ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञां च मुञ्चती ।
तुदन्ती मार्गमाणस्य कुर्वती मर्मघट्टनम्
पृष्ठतो नमनं सार्ष्यं महाहिक्रा प्रवर्तते ।
महाशूला महाशब्दा महावेगा महाबला
पक्राशयाच्च नाभेर्वा पूर्ववत्सा प्रवर्तते
तद्रूपा सा महत्कुर्याञ्जृम्भणां गप्रसारणम् ।
गम्भीरेण निदानेन गम्भीरा तु सुसाधयेत्
आद्ये द्वे वर्जयेदन्ये सर्वलिङ्गां च वेगिनीम् ।
सर्वस्य संचितामस्य स्थविरस्य व्यवायिनः
व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य च ।
सर्वे ऽपि रोगा नाशाय न त्वेवं शाघ्रकारिणः
हिक्राश्वासौ यथा तौ हि मृत्युकाले कृतालयौ
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0