भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.137

1.137.1

अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ।
प्रीयतां देवदेवेशो विप्रेभ्यः कलशान्ददेत् ।
नद्यस्तीरे ऽयः वा कुर्यात्सर्वान्कामानवाप्नुयात् ॥ गर्प्_1,136. 12 ॥
इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रवणद्वादशीव्रतनिरूपणं नाम षट्त्रिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 137
ब्रह्मोवाच ।
कामदेवत्रयोदश्यां पूज्यो दमनकादिभिः ।
रतिप्रीतिसमायुक्तो ह्यसोको मणिभूषितः

1.137.2

(इति मदनकत्रयोदशीव्रतम्) ।
चतुर्दश्यां तथाष्टभ्यां पक्ष्योः शुक्लकृष्णयोः ।
यो ऽब्दमेकं न भुञ्जीत मुक्तिभाक् शिवपूजनात्

1.137.3

(इति शिवचतुर्दश्यष्टमीव्रतम्) ।
त्रिरात्रोपोषितो दद्यात्कार्तिक्यां भवनं शुभम् ।
सूर्यलोकमवाप्नोति धामव्रतमिदं शुभम्

1.137.4

अमावस्यां पितॄणां च दत्तं जलादितदक्षयम् ।
नक्ताभ्याशी वारनाम्ना यजन्वाराणि सर्वभाक्

1.137.5

(इति वारव्रतानि) ।
द्वादशर्क्षाणि विप्रर्षे ! प्रतिमासं तु यानि वै ।
तन्नाम्नान्ते ऽतच्युतं तेषु सम्यक् संपूजयेन्नरः

1.137.6

केशवं मार्गशीर्षे तु इत्यादौ कृतिकादिके (का) ।
घृतहोमश्चतुर्मासं कृसरञ्च निवेदयेत्

1.137.7

आषाढादौ पायसं तु विप्रांस्तेनैव भोजयेत् ।
पञ्चाव्यजलस्नाननैवेद्यैर्नक्तमाचरेत्

1.137.8

अर्वाग्विसर्जनाद्द्रव्यं नैवेद्यं सर्वमुच्यते ।
विसर्जिते जगन्नाथे निर्माल्यं भवति क्षणात्

1.137.9

पाञ्चरात्रविदो मुख्या नैवेद्यं भुञ्जते स्वयम् ।
एवं संवत्सरस्यान्ते विशेषेण प्रपूजयेत्

1.137.10

नमोनमस्ते ऽच्युत ! संक्षयो ऽस्तु पापस्य वृद्धिं समुपैतु पुण्यम् ।
ऐश्वर्यवित्तादि सदाक्षयं मे तथास्तु मे सन्ततिरक्षयैव

1.137.11

यथाच्युत !त्वं परतः परस्मात्स ब्रह्मभूतः परतः परस्मात् ।
तथाच्युतं मे कुरु वाञ्छितं सदा मया कृतं पापहराप्रमेय

1.137.12

अच्युतानन्त ! गोविन्द ! प्रसीद यदभीप्सितम् ।
तदक्षयममेयात्मन्कुरुष्व पुरुषोत्तम

1.137.13

कुर्याद्वै सप्त वर्षाणि आयुः श्रीसद्गतीर्नरः ।
उपोष्यैकादशीब्दमष्टमीं च चतुर्दशीम्

1.137.14

सप्तमीं पूजयेद्विष्णुं दुर्गां शम्बुं रविं क्रमात् ।
तेषां लोकं समाप्नोति सर्वकामांश्च निर्मलः

1.137.15

एकभक्तेन नक्तेन तथैवायाचितेन च ।
उपवासेन शाकाद्यैः पूजयन्तसर्वदेवताः

1.137.16

सर्वः सर्वासु तिथिषु भुक्तिं मुक्तिमवाप्नुयात् ।
धनदो ऽग्निः प्रतिपदि नासत्यो दस्त्र अर्चितः

1.137.17

श्रीर्यमश्च द्वितीयायां पञ्चम्या पार्वती श्रिया ।
नागाः षष्ठ्यां कार्तिकेयः सप्तम्यां भास्करोर्ऽथदः

1.137.18

दुर्गाष्टम्यां मातरश्च नवम्यामथ तक्षकः ।
इन्द्रो दशम्यां धनद एकादश्यां मुनीश्वराः

1.137.19

द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरो ऽपरे

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc