भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.138

1.138.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथिवारनक्षत्रादिव्रतनिरूपणं नाम सप्तत्रिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 138
(इति व्रतानि समाप्तानि) ।
हरिरुवाच ।
राज्ञां वंशान्प्रवक्ष्यामि वंशानुचरितानि च ।
विष्णुनाभ्यब्जतो ब्रह्मा दक्षो ऽङ्गुष्ठाच्च तस्य वै

1.138.2

ततो ऽपितर्विवस्वांश्च ततः सूनुर्विवस्वतः मनुरिक्ष्वाकुशर्याती नृगो धृष्टः प्रषध्रकः

1.138.3

नरिष्यन्तश्च नाभागो दिष्टः शशक एव च ।
मनोरासीदिला कन्या सुद्युम्नो ऽस्य सुतो ऽभवत्

1.138.4

इलायां तु बुधाज्जातो राजा रुद्र पुरूरवाः ।
सुतास्त्रयश्च सुद्युम्नादुत्कलो विनतो गयः

1.138.5

अभृच्छ्रद्रो गोवधात्तु पृषध्रस्तु मनोः सुतः ।
करूषात्क्षत्त्रिया जाता कारूषा इति विश्रुताः

1.138.6

दिष्टपुत्रस्तु नाभागो वैश्यातामगमत्स च ।
तस्माद्भलन्दनः पुत्रो वत्सप्रीतिर्भलन्दनात्

1.138.7

ततः पांशुः खनित्रो ऽभूद्भूपस्तस्मात्ततः क्षुपः ।
क्षुपाद्विंशो ऽभवत्पुत्रो विंशाज्जातो विविंशकः

1.138.8

विविंशाच्च खनीनेत्रो विभूतिस्तत्सुतः स्मृतः ।
करन्धमो विभूतेस्तु ततो जातो ऽप्यविक्षितः

1.138.9

मरुत्तो ऽविक्षितस्यापि नरिष्यन्तस्ततः स्मृतः ।
नरिष्यन्तात्तमो जातस्ततोभूद्राजवर्धनः

1.138.10

राजवर्धात्सुधृतिश्च नरो ऽभूत्सुधृतेः सुतः ।
नराच्च केवलः पुत्रः केवलाद्धुन्धुमानपि

1.138.11

धुन्धुमतो वेगवांश्च बुधो वेगवतः सुतः ।
तृणबिन्दुर्बुधाज्जातः कान्या चैलविला तथा

1.138.12

विशालं जनयामास तृणबिन्दोस्त्वलम्बुसा ।
विशालाद्धेमचन्द्रो ऽभूद्धेम चन्द्राच्च चन्द्रकः

1.138.13

धूम्राश्वश्चैव चन्द्रात्तु धूम्राश्वात्सृञ्जयस्तथा ।
सञ्जयात्सहदेवो ऽभूत्कृशाश्वस्तत्सुतो ऽभवत्

1.138.14

कृशाश्वात्सोमदत्तस्तुततो ऽभूज्जनमेजयः ।
तत्पुत्रश्च सुमन्तिश्च एते वैशालका नृपाः

1.138.15

शर्यातेस्तु सुकन्याबूत्सा भार्या च्यवनस्य तु ।
अनन्तो नाम शार्यते रनन्ताद्रेवतो ऽभवत्

1.138.16

रैवतो रेवतस्यापि रैवताद्रेवती सुता ।
धृष्टस्य धार्ष्टर् (त) कं क्षेत्रं वैष्णवं (श्यकं) तद्वभूव ह

1.138.17

नाभागपुत्रो नेष्ठो ह्यम्बरीषो ऽपि तत्सुतः ।
अम्बरीषाद्विरूपो ऽभूत्पृषदश्वो विरूपतः

1.138.18

रथीनरश्च तत्पुत्रो वासुदेवपरायणः ।
इक्ष्वाकोस्तु त्रयः पुत्राः विकुक्षिनिमिदण्डकाः

1.138.19

इक्ष्वाकुजो विकुक्षिस्तु शशादः शशभक्षणात् ।
पुरञ्जयः शशादाच्च ककुत्स्थाख्यो ऽभवत्सुतः

1.138.20

अनेनास्तु ककुत्सथाच्च पृथुः पुत्रस्त्वनेनसः ।
विश्वरातः पृथोः पुत्र आर्द्रे ऽभूद्विश्वराततः

1.138.21

युवनाश्वो ऽभवच्चार्द्राच्छावस्तो युवनाश्वतः ।
बृहदश्वस्तुशावस्तात्तत्पुत्रः कुवलाश्वकः

1.138.22

धुन्धुमारो हि विक्यातो दृढश्वश्चततो ऽभवत् ।
चन्द्राश्वः कपिलाश्वश्च हर्यश्वश्च दृढश्वतः

1.138.23

हर्यश्वाच्च निकुम्बो ऽभूद्धिताश्वश्च निकुम्भतः ।
पूजाश्वश्च हिताश्वाच्च तत्सतो युवनाश्वकः

1.138.24

युवनाश्वाच्च मान्धाता बिन्दुमत्यास्ततो ऽभवत् ।
मुचुकुन्दो ऽम्बरीषश्च पुरुकुत्सस्त्रयः सुताः

1.138.25

पञ्चाशत्कन्यकाश्चैव भार्यास्ताः सौभरेर्मुनेः ।
युवनाश्वो ऽम्बरीषाच्च हरितो युवनाश्वतः

1.138.26

पुरुकुत्सान्नर्मदायां त्रसदस्युरबूत्सुतः ।
अनरण्यस्ततो जातो हर्यश्वो ऽप्यनरण्यतः

1.138.27

तत्पुत्रो ऽभूद्वसुमनास्त्रिधन्वा तस्य चात्मजः ।
त्रय्यारुणस्तस्य पुत्रस्तस्त सत्यरतः सुतः

1.138.28

यस्त्रिशङ्कुः समाख्यातो हरिश्चन्द्रो ऽभवत्ततः ।
हरिश्चन्द्राद्रोहिताश्वो हरितो रोहिताश्वतः

1.138.29

हरितस्य सुतश्चञ्चुश्चञ्चोश्च विजयः सुतः ।
विजयाद्रुरुको जज्ञे रुरुकात्तु वृकः सुतः

1.138.30

वृकाद्बाहुर्नृपो ऽभूच्च बाहोस्तु सगरः स्मृतः ।
षष्टिः पुत्र सहस्राणि सुमत्यां सगराद्धर

1.138.31

केशिन्यामेक एवासावसमञ्जससंज्ञकः

1.138.32

तस्यांशुमान्सुतो विद्वान्दिलीपस्तत्सुतो ऽभवत् ।
भगीरथो दिलीपाच्च यो गङ्गामानयद्भुवम्

1.138.33

श्रुतो भगीरथसुतो नाभगश्च श्रुतात्किल ।
नाभागादम्बरीषो ऽभूत्सिन्दुद्वीपो ऽम्बरीषतः

1.138.34

सिन्दुद्वीपस्यायुतायुरृतुपर्णस्तदात्मजः ।
ऋतुषर्णात्सर्वकामः सुदासो ऽभूत्तदात्मजः

1.138.35

सुदासस्य च सौदासो नाम्ना मित्रसहः स्मृतः ।
कल्माष पादसंज्ञश्च दमयन्त्यां तदात्मजः

1.138.36

अश्वकाख्यो ऽभवत्पुत्रो ह्यश्वकान्मूल(न्मृच्छ) को ऽभवत् ।
ततो दशरथो राजा तस्य चैलविलः सुतः

1.138.37

तस्य विश्वसहः पुत्रः खट्वाङ्गश्च तदात्मजः ।
खट्वाङ्गद्दीर्घबाहुश्च दीर्घबाहोर्ह्यजः सुतः

1.138.38

तस्य पुत्त्रो दशरथश्चत्वारस्तत्सुताः स्मृताः ।
रामलक्ष्मणशत्रुघ्नभरताश्च महाबलाः

1.138.39

रामात्कुशलवौ जातौ भरतात्तार्क्षपुष्करौ ।
चित्राङ्गदश्चन्द्रकेतुर्लक्ष्मणात्संबभूवतुः

1.138.40

सुबाहुशूरसेनौ च शत्रुघ्नात्संबभूवतुः ।
कुशस्य चातिथिः पुत्रो निषधो ह्यतिथेः सुतः

1.138.41

निषधस्य नलः पुत्रो नलस्य च नभाः स्मृतः ।
नभसः पुण्डरीकस्तुक्षेमधन्वा तदात्मजः

1.138.42

देवानीकस्तस्य पुत्रो देवानीकादहीनकः ।
अहीनकाद्रुरुर्यज्ञे पारियात्रो रुरोः सुतः

1.138.43

पारियात्राद्दलो यज्ञे दल पुत्रश्छलः स्मृतः ।
छलादुक्थस्ततो ह्युक्थाद्वज्रनाभस्ततो गणः

1.138.44

उषिताश्वो गणाज्जज्ञे ततो विश्वसहो ऽभवत् ।
हिरण्यनाभस्तत्पुत्रस्तत्पुत्रः पुष्पकः स्मृतः

1.138.45

ध्रुवसन्धिरभूत्पुष्पाद्ध्रुवसन्धेः सुदर्शनः ।
सुदर्शनादग्निवर्णः पद्मवणो ऽग्निवर्णतः

1.138.46

शीघ्रस्तु पद्मवर्णात्तु शीघ्रात्पुत्रो मरुस्त्वभूत् ।
मरोः प्रसुश्रुतः पुत्रस्तस्य चोदावसुः सुतः

1.138.47

उदावसोर्नन्दिवर्धनः सुकेतुर्नन्दिवर्धनात् ।
सुकेतोर्देवरातो ऽभूद्वृहदुक्थस्ततः सुतः

1.138.48

बृहदुक्थान्महावीर्यः सुधृतिस्तस्य चात्मजः ।
सुधृतेर्धृष्टकेतुश्च हर्यश्वो धृष्टकेतुतः

1.138.49

हर्यश्वात्तु मरुर्जातो मरोः प्रतीन्धको ऽभवत् ।
प्रतीन्धकात्कृतिरथो देवमीढस्तदात्मजः

1.138.50

विबुधो देवमीढात्तु विबुधात्तु महाधृतिः ।
महाधृतेः कीर्तिरातो महारोमा तदात्मजः

1.138.51

महारोम्णः स्वर्णरोमा ह्रस्वरोमा तदात्मजः ।
सीरध्वजो ह्रस्वरोम्णः तस्य सीताभवत्सुता

1.138.52

भ्राता कुशध्वजस्तस्य सीरध्वजात्तु भानुमान् ।
शतद्युम्नो भानुमतः शतद्युम्नाच्छुचिः स्मृतः

1.138.53

ऊर्जनामा शुचेः पुत्रः सनद्वाजस्तदात्मजः ।
सनद्वाजात्कुलिर्जातो ऽनञ्जनस्तु कुलेः सुतः

1.138.54

अनञ्जनाच्च कुलजित्तस्यापि चाधिनेमिकः ।
श्रुतायुस्तस्य पुत्रो ऽभूत्सुपार्श्वश्च तदात्मजः

1.138.55

सुपार्श्वात्सृंजयो जातः क्षेमारिः सृजयात्समृतः ।
क्षेमारि तस्त्वनेनाश्च तस्य रामरथः स्मृतः

1.138.56

सत्यरथो रामरथात्तस्मादुपगुरुः स्मृतः ।
उपगुरोरुपगुप्तः स्वागतश्चोपगुप्ततः

1.138.57

स्वनरः स्वागताज्जज्ञे सुवर्चास्तस्य चात्मजः ।
सुवर्चसः सुपार्श्वस्तु सुश्रुतश्च सुपार्श्वतः

1.138.58

जयस्तु सुश्रुताज्जज्ञे जयात्तु विजयो ऽभवत् ।
विजयस्य ऋतः पुत्रः ऋतस्य सुनयः सुतः

1.138.59

सुनयाद्वीतहव्यस्तु वीतहव्याद्धतिः स्मृतः ।
बहुलाश्वो धृतेः पुत्रो बहुलाश्वात्कृतिः स्मृतः

1.138.60

जनकस्य द्वये वंशे उक्तो योगसमाश्रयः

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc