गरुड़ पुराण · अध्याय 1.136
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ऋष्येकादशीव्रतं नाम पञ्चत्रिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 136
ब्रह्मोवाच ।
श्रवणद्वादशों वक्ष्ये भुक्तिमुक्तिप्रदायिनीम् ।
एकादशी द्वादशी च श्रवणेन च संयुता
विजया सा तिथिः प्रोक्ता हरिपूजादि चाक्षयम् ।
एक भक्तेन नक्तेन तथैवायाचितेन च
उपवासेन भैक्ष्येण नैवाद्बादशिको भवेत् ।
कास्यं मांसं तथा क्षौद्रं लोभं वितथभाषणम्
व्यायामं च व्यवायं च दिवास्वप्नमथाञ्जनम् ।
शिलाषिष्टं मसूरं च द्वादश्यां वर्जयेन्नरः
मासी भाद्रपदे शुक्ला द्वादशी श्रवणान्विता ।
महती द्वादशी ज्ञेया उपवासे महाफला
संगम सरितां स्नानं बुधयुक्ता महाफला ।
कुंभे सरत्ने सजले यजेत्स्वर्णं तु वामनम्
सितवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ।
ओं नमो वासुदेवाय शिरः संपूजयेत्ततः
श्रीधराय मुखं तद्वत्कण्ठं कृष्णाय वै नमः ।
नमः श्रीपतये वक्षो भुजौ सर्वास्त्रधारिणे
व्यापकाय नमः कुक्षौ केशवायोदरं बुधः ।
त्रैलोक्यपतये मेढ्रं जङ्घे सर्वभृते नमः
सर्वात्मने नमः पादौ नैवेद्यं घृतपायसम् ।
कुम्भांश्च मोदकान्दद्याज्जागरं कारयेन्निशि
स्नात्वाचान्तोर्ऽचयित्वा तु कृतपुष्पाञ्जलिर्वदेत् ।
नमोनमस्ते गोविन्द बुध श्रवणसंज्ञक !
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0