गरुड़ पुराण · अध्याय 1.135
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे महानवम्यां महाकौशिकमन्त्रकृत्यादिविवरणं नाम चतुस्त्रिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 135
ब्रह्मोवाच ।
नवम्यामाश्विने शुक्ले एकभक्तेन पूजयेत् ।
देवीं विप्रंल्लक्षमेकञ्जपेद्वीरं व्रती नरः
(ति वीरनवमीव्रतम्) ।
ब्रह्मोवाच ।
चैत्रे शुक्लनवम्यां च देवीं दमनकैर्यजेत् ।
आयुरारोग्यसौभाग्यं शत्रुभिश्चापराजितः
(इति दमनकनवमीव्रतम्) ।
ब्रह्मोवाच ।
दशम्यामेकभक्ताशी समान्ते दशधेनुदः ।
दिशश्च काञ्चनीर्दत्त्वा ब्रह्माण्डाधिपतिर्भवेत्
(इति दिग्दशमीव्रतम्) ब्रह्मोवाच ।
एकादश्यामृषिपूजा कार्या सर्वोपकारिका ।
धनवान्पुत्रवांश्चान्ते ऋषिलोके महीयते
मरीचिरत्र्यं गिरसौ पुलसत्यः पुलहः क्रतुः ।
प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च
चैत्रादौ कारयेत्पूजां माल्यैश्च दमनोद्भवैः ।
अशोकाख्याष्टमीप्रोक्ता वीराख्या नवमीतथा
दमनाख्या दिग्दशमी नवम्येकादशी तथा
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0