भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.131

1.131.1

(इति विजयसप्तमीव्रतम्) ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तमीव्रतनिरूपणं नाम त्रिंशोत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 131
ब्रह्मोवाच ।
ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः ।
दूर्वां सौरीं गणेशं च फलपुष्पैः शिवं यजेत्

1.131.2

फलव्रीह्यादिभिः सर्वैः शम्भवेनमः शिवाय च ।
त्वं दूर्वे ऽमृजन्मासि ह्यष्टमी सर्वकामभाक्

1.131.3

अनग्निपक्रमश्रीयान्मुच्यते ब्रह्महत्यया ।
(इति दूर्वाष्टमीव्रतम्) ।
कृष्णाष्टम्यां च रोहिण्यामर्धरात्रेर्ऽचनं हरेः

1.131.4

कार्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्मनः ।
उपोषितोर्ऽचयेन्मन्त्रैस्तिथि भान्ते च पारणम्

1.131.5

योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमोनमः ।
(स्नानमन्त्रः( यज्ञाय यज्ञेश्वराय यज्ञपतये गोविन्दाय नमोनमः

1.131.6

(अर्चनदृ)--विश्वाय विश्वेश्वराय विश्वपतये गोविन्दाय नमोनमः ।
(शयनदृ)--सर्वाय सर्वेश्वराय सर्वेताय सर्वसम्भवाय गोविन्दाय नमोनमः

1.131.7

स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीं तथा ।
शङ्खे तोयं समादाय सपुष्पफलचन्दनम्

1.131.8

जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् ।
क्षिरोदार्णवसंभूत ! अत्रिनेत्रसमुद्भव !

1.131.9

गृहाणार्घ्यं शशाङ्केश (मं) रोहिण्या सहितो मम ।
श्रियै च वसुदे वाय नन्दाय च बलाय च

1.131.10

यशोदायै ततो दद्यादर्घ्यं फलसमन्वितम् ।
अनन्तं (घं) वामनं शौरिं वैकुष्ठं पुरुषोत्तमम्

1.131.11

वासुदेवं हृषीकेशं माधवं मधुसूदनम् ।
वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम्

1.131.12

दामोदरं पद्मनाभं केशवं गारुडध्वजम् ।
गोविन्दमच्युतं देवमनन्तम पराजितम्

1.131.13

अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम् ।
अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम्

1.131.14

नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ।
पीतम्बरधरं दिव्यं वनमालाविभूषितम्

1.131.15

श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् ।
यं देवं देवकी देवी वसुदेवादजीजनत्

1.131.16

भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।
नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत्पुनः

1.131.17

त्राहि मां देवदेवेश ! हरे ! संसारसागरात् ।
त्राहि मां सर्वपापघ्न ! दुः खशोकार्णवात्प्रभो !

1.131.18

देवकीनन्दन ! श्रीश ! हरे ! संसारसागरात् ।
दुर्वृत्तांस्त्रायसे विष्णो ! ये स्मरन्ति सकृत्सकृत्

1.131.19

सो ऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात् ।
पुष्कराक्ष ! निमग्नो ऽहं मह्तयज्ञानसागरे

1.131.20

त्राहि मां देवदेवेश ! त्वामृते ऽन्यो न रक्षिता ।
स्वजन्म वासुदेवाप गोब्राह्मणहिताय च

1.131.21

जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ।
शान्तिरस्तु शिवं चास्तु धनविख्यातिराज्यभाक्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc