गरुड़ पुराण · अध्याय 1.132
(इति कृष्णाष्टमीव्रतम्) ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कृष्णाष्टमीव्रतनिरूपणं ना मैकत्रिंशदुत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 132
ब्रह्मोवाच ।
नक्ताशी त्वष्टमीं यावद्वर्षान्ते चैव धेनुदः ।
पौरन्दरपदं याति सद्गतिव्रतमुच्यते !
शुक्लाष्टभ्यां पौषमासे महारुद्रेति साधु वै ।
मत्प्रीतये कृतं देवि शथसाहस्रिकं फलम्
अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ।
भविष्यति तदा तस्यां व्रतमेतत्कथा परा
तस्यां नियमकर्तारो न स्युः खण्डितसम्पदः ।
तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलिद्वयम्
भक्तं सद्भक्तिश्रद्धाभ्यां मुक्तिकामी हि मानवः ।
आम्र पत्रपुटे कृत्वा यो भुड्क्ते कुशवोष्टिते
कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवे (लभे) त् ।
बुधं पञ्चोपचारेण पूजयित्वा जलाशये
शक्तितो दक्षिणं दद्यात्कर्करीं तण्डुलान्विताम् ।
बुं बुधायेति बीजं स्यात्स्वाहान्तः कमलादिकः
बाणचापधरंश्यामं दले चाङ्गनि मध्यतः ।
बुधाष्टमीकथा पुण्या श्रोतव्या कृतिभिर्ध्रुवम्
पुरे पाटलिपुत्राख्ये वीरो नाम द्विजोत्तमः ।
रम्भा भार्या तस्य चासीत्कौशिकः पुत्र उत्तमः
दुहिता विजयानाम्नी व (ध) नपालो वृषो ऽभवत् ।
गृहीत्वा कौशिकस्तं च ग्रीष्मे गङ्गां गतो ऽरमत्
गोपालकैर्वृषश्चौरैः क्रीडास्थोपहृतो बलात् ।
गङ्गातः स च उत्थाय वनं बभ्राम दुः खितः
जलार्थं विजया चागाद्भ्रा(न्मा) त्रा सार्धं च साप्यगात् ।
पिपासितो मृणालार्थो आगतो ऽथ सरोवरम्
दिव्यस्त्रीणां च पूजादीन्दृष्ट्वा चाप्यथ विस्मितः ।
स ता गत्वा ययाचे ऽन्नं सानुजो ऽहं बुभुक्षितः
स्त्रियो ऽब्रुवन्व्रतं कर्तुं दास्यामश्च कुरु व्रतम् ।
पत्न्यर्थं धनपाना (लार्) थं पूजयामासतुर्बुधम्
पुटद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम् ।
स्त्रियो गतास्तौ धनदौ धनपानमपश्यताम्
चौरैर्दत्तं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम् ।
वीरं च दुः खितं नत्वा रात्रौ सुप्तो यथासुखम्
कन्यां च युवतीं दृष्ट्वा कस्मै देया सुता मया ।
यमायेत्यब्रवीद्दुः खात्साचाराद्व्रतसत्फलात्
स्वर्गं गतौ च पितरौ व्रतं राज्याय कौ शिकः ।
चक्रे ऽयोध्यामहाराज्यं दत्त्वा च भगिनीं यमे
यमो ऽपि विजयामाह गृहस्था भव मे पुरे ।
नोद्धाटयान्यत्रगते यमे सा न तथाकरोत् ।
अपश्यन्मातरं स्वां सा पाशयातनया स्थिताम्
अथोद्विग्ना कोशिकोक्तं ज्ञात्वा मुक्तिप्रदं व्रतम् ।
चक्रे च सा ततो मुक्ता माता तस्माच्चरेद्व्रतम्
व्तपुण्यप्रभावेण स्वर्गं गत्वावसत्सुखम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0