भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.130

1.130.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे दष्टोद्धारपञ्चमव्रितं नामैकोनत्रिंशोत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 130
ब्रह्मोवाच ।
एवं भाद्रपदे मासि कार्तिकेयं प्रपूयेत् ।
स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते

1.130.2

सप्तम्यां प्राशयेच्चपि भोज्यं विप्रान्रविं यजेत् ।
ओं खखोल्कायमृतत्वं (तन्तं) प्रियसङ्गमो भव सद स्वाहा

1.130.3

अष्टम्यां पारणं कुर्यान्मरीचं प्राश्य स्वर्गभाक्
सप्तम्यां नियतः स्नात्वा पूजयित्वा दिवाकरम्

1.130.4

दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति ।
खर्जूरं नारिकेलं वा प्राशयेन्मातुलुङ्गकम्

1.130.5

सर्वे भवन्तु सफला मम कामाः समन्ततः ।
(इति फलसप्तमी)
संपूज्य देवं सप्तम्यां पायसेनाथ भोजयेत्

1.130.6

विप्रांश्च दक्षिणां दत्त्वा स्वयं चाथ पयः पिबेत् ।
भक्ष्यं चोष्यं तथा लेह्यं ओदनं चेति कीर्तितम्

1.130.7

धनपुत्रादिकामस्तु त्यजेदेतदनोदनः
वाय्वाशी विजयेत्क्षुच्च कुर्याद्विजयसप्तमीम् ।
अद्यादर्कं च कामेच्छुरुपवासे तरेन्मदम्

1.130.8

गोधूममाषयवषष्टिककांस्यपात्रं पाषाणपिष्टमधुमैषुनमद्यमांसम् ।
अभ्यञ्जनाञ्जनतिलांश्च विवर्जयेद्यः तस्येषितं भवति सप्तसु सप्तमीषु

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc