भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.126

1.126.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम पञ्चविंशत्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 126
ब्रह्मोवाच ।
येनार्चनेन वै लोको जगाम परमां गतिम् ।
तमर्चनं प्रवक्ष्यामि भुक्तिमुक्तिकरं परम्

1.126.2

सामान्यमण्डलं न्यस्य धातारं द्वारदेशतः ।
विधातारं तथा गङ्गां यमुनां च महानदीम्

1.126.3

द्वारश्रियं च दण्डं च प्रचण्डं वास्तुपूरुषम् ।
मध्ये चाधारशक्तिं च कूर्मं चानन्तमर्चयेत्

1.126.4

भूमिं धर्मं तथा ज्ञानं वैरग्यैश्वर्यमेव च ।
अधर्मादींश्च चतुरः कन्दं नालं च पङ्कजम्

1.126.5

कर्णिकां केसरं सत्त्वं राजसं तामसं गुणम् ।
सुर्यादिमण्डलान्येव विमलाद्याश्च शक्तयः

1.126.6

दुर्गां गणं सरस्वतीं क्षेत्रपालं च कोणके ।
आसनं मूर्तिमभ्यर्च्य वासुदेवं बलं स्मरन्

1.126.7

अनिरुद्धं महात्मानं नारायणमथार्चयेत् ।
हृदयादीनि चाङ्गानि शङ्खादीन्यायुधानि च

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc