भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.127

1.127.1

श्रीगरुडमहापुराणम्- 127
ब्रह्मोवाच ।
माघमासे शुक्लपक्षे सूर्यर्क्षेण युता पुरा ।
एकादशी तथा चैका भीमेन समुपोषिता

1.127.2

आश्चर्य तु व्रतं कृत्वा पितॄणामनृणो ऽभवत् ।
भीमद्वादशी विख्याता प्राणिनां पुण्यवर्धिनी

1.127.3

नक्षत्रेण विनाप्येषा ब्रह्महत्यादि नाशयेत् ।
विनिहन्ति महापापं कुनृपो विषयं यथा

1.127.4

कुपुत्त्रस्तु कुलं यद्वत्कुभार्या च पतिं यथा ।
अधर्मं च यथा धर्मः कुमन्त्री च यथा नृपम्

1.127.5

अज्ञानेन यथा ज्ञानं शौचमाशौचकं यथा ।
अश्रद्धया यथा श्रद्धा सत्यञ्चैवानृतैर्यथा

1.127.6

हिमं यथोष्णमाहन्यादनर्थं चार्थसंचयः ।
यथा प्रकर्तिनाद्दानं तपो वै विस्मयाद्यथा

1.127.7

अशिक्षया यथा पुत्रो गावो दूरगतैर्यथा ।
क्रोधेन च यथा शान्तिर्यथा वित्तमवद्धनात्

1.127.8

ज्ञानेनैयथा विद्या निष्कामेन यथा फलम् ।
तथैव पापनाशाय प्रोक्तेयं द्वादशी शुभा

1.127.9

ब्रह्महत्या सुरा पान स्तेयं गुर्वङ्गनागमः ।
युगपत्तुप्रजातानिहन्ति त्रिपुष्करम्

1.127.10

न चापि नैमिषं क्षेत्रं कुरुक्षेत्रं प्रभासकम् ।
कालिन्दी यमुना गङ्गा न चैव न सरस्वती

1.127.11

चैव सर्वतीर्थानि एकादश्याः समानि हि ।
न दानं न जपो होमो न चान्यत्सुकृतं क्रचित्

1.127.12

एकतः पृथिवीदानमेकतो हरिवासरः ।
ततो ऽप्येका महापुण्या इयमेकादशी वरा

1.127.13

अस्मिन्वराहपुरुषं कृत्वा देवं तु हाटकम् ।
घटोपरि नवे पात्रे कृत्वा वै ताम्रभाजने

1.127.14

सर्वबीजभृते विप्राः सितवस्त्रावगण्ठिते ।
सहिरण्यप्रदीपाद्यैः कृत्वा पूजां प्रयत्ननः

1.127.15

वराहाय नमः पादौ क्रोडाकृतये नमः कटिम् ।
नाभिं गंभीरघोषया उरः श्रीवत्सधारिणे

1.127.16

बाहुं सहस्रशिरसे ग्रीवां सर्वेश्वराय च ।
मुखं सर्वात्मने पूज्यं ललाटं प्रभवाय च

1.127.17

केशाः शतमयूखाय पूज्या देवस्य चक्रिणः ।
विधिना पूजयित्वा तु कृत्वा जागरणं निशि

1.127.18

श्रुत्वा पुराणं देवस्य माहात्म्यप्रतिपादकम् ।
प्रातर्विप्राय दत्त्वा च याचकाय शुभाय तत्

1.127.19

कनकक्रोडसहितं सन्निवेद्य परिच्छदम् ।
पश्चात्तु पारणं कुर्यान्नातितृप्तः सकृद्व्रतः

1.127.20

एवं कृत्वा नरो विद्यान्न भूय स्तनपो भवेत् ।
उपोष्यैकादशीं पुण्यां मुच्यते वै ऋणत्रयात् ।
मनो ऽभिलषितावाप्तिः कृत्वा सर्वव्रतादिकम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc