गरुड़ पुराण · अध्याय 1.125
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवरात्रिव्रतं नाम चतुर्विंशत्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 125
पितामह उवाच ।
मान्धाता चक्रवर्त्यासीदुपोष्यैकादशीं नृपः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयारपि
दशम्येकादशीमिश्रा गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत्
द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ।
दशम्येकादशी यत्र तत्र सन्निहितो ऽसुरः ।
बहुवाक्यविरोधेन सन्देहो जायते यदा
द्वादशी तु तदा ग्राह्या त्रयोदश्यान्तु पारणम् ।
एकादशी कलापिस्यादुपोष्या द्वादशी तथा
एकादशी द्वादशी च विशेषेण त्रयोदशी ।
त्रिमिश्रा सा तिथिर्ग्राह्या सर्वपापहरा शुभा
एकादशीमुपोष्यैवद्वादशीम थवा द्विज ! ।
त्रिमिश्रां चैव कुर्वीत न दशम्या युतां क्रचित्
रात्रौ जागरणं कुर्वन्पुराणश्रवणं नृपः ।
गदाधरं पूजयंश्च उपोष्यैका दशीद्वयम् ।
रुक्माङ्गदो ययौ मोक्षमन्ये चैकादशीव्रतम्
मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0