भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.122

1.122.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चातुर्मास्यव्रतनिरूपणं नामकावशत्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 122
ब्रह्मोवाच ।
व्रतं मासोपवासाख्यं सर्वोत्कृष्टं वदामिते ।
वानप्रस्थो यतिर्नारी कुर्यान्मासोपवासकम्

1.122.2

आश्विनस्य सिते पक्षे एकादश्यामुपोषितः ।
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु

1.122.3

अद्यप्रभृत्यहं विष्णो यावदुत्थानकं तव ।
अर्चयेत्वामनश्रंस्तु दिनानि त्रिंशदेव तु

1.122.4

कार्तिकाश्विनयोर्विष्णो द्वादश्योः शुक्लयोरहम् ।
म्रियेयद्यन्तराले तु व्रतभङ्गो न मे भवेत्

1.122.5

हरिं यजोत्त्रिषवणस्नायी गन्धादिभिर्व्रती ।
गात्राभ्यङ्गं गन्धलेपं देवतायतने त्यजेत्

1.122.6

द्वादश्यामथ संपूज्य प्रदद्याद्द्विजभोजनम् ।
ततश्च पारणं कुर्याद्धरेर्मासोपवासकृत्

1.122.7

दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितो ऽन्तरा ।
दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc