भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.121

1.121.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे रम्भातृतीयाव्रतं नाम विंशत्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 121
ब्रह्मोवाच ।
चातुर्मास्यव्रतान्यूचे एकादश्यां समाचरेत् ।
आषाढ्यां पौर्णमास्यां वा सर्वेणहरिमर्च्यच

1.121.2

इदं व्रतं मया देव गृहीतं पुरतस्तव ।
निर्विघ्नं सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव

1.121.3

गृहीते ऽस्मिन्व्रते देव यद्यपूर्णे म्रियाम्यहम् ।
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन

1.121.4

एवमभ्यर्च्य गृह्णीयाद्व्रतार्चनजपादिकम् ।
सर्वाघं च क्षयं याति चिकीर्षेद्यो हरेर्व्रतम्

1.121.5

स्नात्वायोभ्यच्य गृह्णीयाद्व्रतार्चनजपादिकम् ।
स्नात्वा यच्चतुरो मासानेकभक्तेन पूजयेत् ।
विष्णुं स याति विष्णोर्व लोकं मलविवर्जितम्

1.121.6

मद्यमांससुरात्यगी वेदविद्धरिपूजनात् ।
तैलवर्जि विष्णुलोकं विष्णुभाक्कृच्छ्रपादकृत्

1.121.7

एकरात्रोपवासाच्च देवो वैमानिको भवेत् ।
श्वेतद्वीपं त्रिरात्रात्तु व्रजेत्षष्ठान्नकृन्नरः

1.121.8

चान्द्रायणाद्धरेर्धाम लभेन्मुक्तिमयाचिताम् ।
प्राजापत्यं विष्णुलोकं पराकव्रतकृद्धरिम्

1.121.9

सक्तुयावकभिक्षाशी पयोदधिघृताशनः ।
गोमूत्रयावकाहारः पञ्चगव्यकृताशनः ।
शाकमलफलाद्याशी रसवर्जो च विष्णुभाक्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc