भाषा

ENहिગુ
ग्रंथ पाठ

गरुड़ पुराण · अध्याय 1.123

1.123.1

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मासोपवासव्रतं नाम द्वाविंशत्युत्तरशततमो ऽध्यायः
श्रीगरुडमहापुराणम्- 123
ब्रह्मोवाच ।
व्रतानि कार्तिके वक्ष्ये स्नात्वा विष्णुं प्रपूजयेत् ।
एकभक्तेन नक्तेन मासं वायाचितेन वा

1.123.2

दुग्धशाकफलाद्यैर्वा उपवासेन वा पुनः ।
सर्वपापविनिर्मुक्तः प्राप्तकामो हरिं व्रजेत्

1.123.3

सदा हरेर्व्रतं श्रेष्ठं ततः स्याद्दक्षिणायने ।
चातुर्मास्ये ततस्तस्मात्कार्तिके भीष्मपञ्चकम्

1.123.4

ततः श्रेष्ठव्रतं शुक्लस्यैकादश्यां समाचरेत् ।
स्नात्वा त्रिकालं पित्रादीन्यवाद्यैरर्चयेद्धरिम्

1.123.5

यजेन्मौनी घृताद्यैश्च पञ्चगव्येन वारिभिः ।
स्नापयित्वाथ कर्पूरमुखैश्चैवानुलेपयेत्

1.123.6

घृताक्तगुग्गुलैर्धूपं द्विजः पञ्चदिनं दहेत् ।
नैवद्यं परमान्नं तु जपेदष्टोत्तरं शतम्

1.123.7

ओं नमो वासुदेवाय घृतव्रीहितिलादिकम् ।
अष्टाक्षरेण मन्त्रेण स्वाहान्तेन तु होमयेत्

1.123.8

प्रथमे ऽह्नि हरेः पादौ यजेत्पद्मैर्द्वितयिक ।
बिल्वपत्रैर्जानुदेशं नाभि गन्धेन चापरे

1.123.9

स्कन्धा बिल्वजवाभिश्च पञ्चमे ऽह्नि शिरोर्ऽचयत् ।
मालत्या भूमिशायी स्याद्गोमयं प्राशयेत्क्रमात्

1.123.10

गोमूत्रं च दधि क्षीरं पञ्चमे पञ्चगव्यकम् ।
नक्तं कुर्यात्पञ्चदश्यां व्रती स्याद्भुक्तिमुक्तिभाक्

1.123.11

एकादशीव्रतं नित्यं तत्कुर्यात्पक्षयोर्द्वयोः ।
अघौघनरकं हन्यात्सर्वदं विष्णुलोकदम्

1.123.12

एकादशी द्वादशी च निशान्ते च त्रयोदशी ।
नित्यमेकादशी यत्र तत्र सन्निहितो हरिः

1.123.13

दशम्येकादशी यत्र तत्रस्थाश्चासुरादयः ।
द्वादश्यां पारण कुर्यात्सूतके मृतके चरेत्

1.123.14

चतुर्दशीं प्रतिपदं पूर्वमिश्रामुपावसेत् ।
पौर्णमास्या ममावास्यां प्रतिपन्मिश्रितां मुने

1.123.15

द्वितीयां तृतीयामिश्रां तृतीयाञ्चाप्युपावसेत् ।
चतुर्थ्या सङ्गतां नित्यं चतुर्थोञ्चनया युताम् ।
पञ्चमींषष्ठ्यसंयुक्तां षष्ठ्या युक्ताञ्च सप्तमीम्

मूल पाठ: Garuḍapurāṇa · Edition: Bombay : Venkatesvara Steam Press (or a reprint thereof) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc