गणेशपुराणम् · अध्याय 1.31.35
अध्याय ३१ प्रारंभ : -
रूक्मांगद उवाच ।
आगते गौतमे को वा वृत्तान्तोऽभून्महामुने ।
वद मे सकलं तं तु जिज्ञासा महती मम
नारद उवाच ।
नित्यकर्म समाप्यैव स्वाश्रमं गौतमो ययौ।
आकार्यं निजपत्नीं तां देहि पादोदकं मम
किमर्थं नागताऽद्य त्वं संमुखं मम पूर्ववत् ।
नानीतमासनं कस्मात्कथं चाटु न भाषसे
श्रुत्वेत्थं वचनं तस्य वेपमाना लतेव सा ।
अधोमुखी विनिर्गम्य मुहुर्तान्मुनिमाययौ
साष्टांगं पतिता भूमौ तत्पादौ परिमस्तका ।
विह्वला शापभीता सा शनैरथ जगौ मुनिम्
उषसि त्वं प्रयातोऽसि स्नानं कर्तुं निजं विधिम् ।
तवरूपधरो दुष्टो देवेन्द्रो मामुवाच ह
दृष्टा वराऽप्सरोभ्योऽपि सुंदरी कामिनी मया ।
न मे मनो जपे दैवे विधौ नित्ये स्थिरं भवेत् ।
परावृत्यागतस्तस्माद्रतिं मे देहि शोभने
त्वमेवेति मया भान्त्या कृतं वाक्यं तथैव तत् ।
दिव्यगन्धानुपाघ्राय विकल्पो मेऽभवत्पुनः
दुरात्मन् कोऽसि नो ब्रूहि नोचेद्भस्म भविष्यसि ।
इति शापभयाज्जातः प्रकटो बलसूदनः
तावदेव भवद्वाक्यं श्रुतं तु मुनिसत्तम ।
लज्जयाऽनागता शीघ्रमपराधं क्षमस्व मे
स्वयं निवेदनेऽदोषो दोषोऽपर निवेदने ।
मन्त्रायुर्गृहरुध्रश्री रतयश्चौषधानि च
मानापमान दानानि प्रकटानि न कारयेत् ।
इत्थं निशम्य स मुनिः कोपव्याकुलितेन्द्रियः
शशाप वनिनां स्वीयां दुःशीलां त्वं शिला भव ।
नाज्ञासीर्मे स्वरुपं तं स्वभावं चेष्टितानि च
परे पुंसि निमग्नं ते यतश्चेतोऽतिकामुके ।
यदा दाशरथी रामो भ्रमद्राजा वने वने
तस्यांघ्रिस्पर्शनादेव स्वं रूपं प्रतिपत्स्यसे ।
नारद उवाच ।
तदैव सा शिला जाता तपोनिधिवचोबलात्
तस्या शापं समाकर्ण्य चकम्पे पाकशासनः ।
प्रकम्पनस्य संयोगाद्धिमवत् पर्वतो यथा
तर्कयामास मनसि कथं कार्यं मयाऽधुना।
समुद्रमध्ये कूपे वा तडागे कमलेऽथवा
लीनो भूत्वा तदा स्थास्ये तदा ज्ञास्यति मां मुनिः ।
अतो बिडालरूपेण विचचार स वज्रभृत
गौतमस्तमचक्षाणो गृहे द्वारि तथाश्रमे ।
क्व गतो दानवरिपुर्यो मे भार्याविदूषकः
ध्यानेन बुबुधे तं तु क्षणेन मुनिसत्त्मः ।
न ते भस्म करिष्यामि देवेन्द्रोऽसि यतः खलः
शपामि त्वां शचीभर्तः सहस्रभगवान्भव ।
श्रुतवान्वचनं यावद्रोषेण मुनिनेरितम्
तावद्ददर्श स्वं देहं सहस्रभग चिह्नितम् ।
ततो दुःखार्णवे मग्नः शुशोच बलवृत्रहा
इन्द्र उवाच ।
अहं शिक्षापितो वृद्धैर्नाना धर्माननेकशः ।
वृद्धानां वचनं यन्मे न विचारितमादरात्
स्व बुद्धीर्हितकृत्सर्वा विनाशाय परेरिता ।
गुरोर्गरीयसी बुद्धिः क्षयदा कामिनीमतिः
कुतो नारदवाक्येन यातोऽहं तामनिंदिताम् ।
देवराजो भवन्नास्यं लोकानां दर्शये कथम्
दिव्यदेहो गतः क्वाद्य निजभार्यां वदे नु किम् ।
धिङ्ग्मां च धिक्स्मरं येन प्रापितो गर्हितां दशाम्
प्राणिभिर्भुज्यते कर्म शुभं वा यदि वाऽशुभम् ।
तिर्यग् योनिं समासाद्य क्षपयिष्येऽघमात्मनः
नलिनी कुड्मले तिष्ठे हीन्द्र गोपकरूपधृक ।
(११७०)
इति श्रीगणेशपुराण उपासनाखंडे शक्रशापवर्णनं नामैकत्रिंशतितमोऽध्यायः ॥३१
अध्याय ३२ प्रारंभ :-
नारद उवाच ।
शक्रे तु नलिनीं याते तत्पुरं त्वहमागतः ।
बृहस्पतिपुरोगांस्तांस्तत्रापश्यं स्थितान् सुरान्
तेभ्यो ह्यकथयं सर्वमुभयोः शापकारणम् ।
अहल्याया महेन्द्रस्य संयोगं च विरूपताम्
सहस्रभगतां यातः शक्रो गौतमशापतः ।
अहल्याधर्षणाद्देवास्तत्संगात्सा शिलाऽभवत्
ब्रह्मोवाच ।
श्रुत्वा ते नारदोक्तं तत् सर्वे देवाः शुचान्विताः।
अतिदुःखाद्रुदन्तस्ते निश्वासोच्छवास विभ्रमैः
देवा ऊचुः ।
येनाकारि शतं यज्ञा दानवा येन निर्जिताः ।
त्रैलोक्यं पालितं येन भुक्तमैन्द्रं पदं शुभम्
पूजिता बहवो देवा ब्राह्मणा ब्रह्मवित्तमाः ।
भुक्ता नानाविधा भोगा अन्येषामतिदुर्लभाः
कुत्र स्थास्यत्यसौ देवो भोक्ष्यते स्वप्स्यते कथम् ।
कमद्य शरणं यामः स्वकृते तत्कृतेऽपि वा
पालयिष्यति कांऽस्मान्वै पदमैन्द्रं शचीं तथा ।
कथं प्रसन्नतां यायाद् गौतमो मुनिसत्तमः
स्वीयभार्या वियुक्तःसंस्तत्कृतागः स्मरन् रूषा ।
अन्योपायं न पश्यामो गौतमस्य प्रसादतः
तस्मान्नारद यास्यामो गौतमं सान्वितुं मुनिम् ।
एवं ते निर्ययुर्देवा नारदेन समन्विताः
गौतमं ते समासाद्य बद्धांजलिपुटा मुनिम् ।
तुष्टवुर्विविधैर्वाक्यै स्तमेव शरणं गताः
देवा ऊचुः ।
तव प्रभावं वक्तुं नो मुने शक्तिर्न विद्यते ।
गरिमाणं वदेत् को नु मेरोर्हिमवतोऽपि च ।
वृष्टिधारा रजो भूमेर्गंगायाः सिकता अपि
कमम्बुधेर्गुणान्विष्णोर् गणयेत्को नु मूढधीः ।
प्रातरेवोप्तबीजानां मध्याह्ने सस्यसंपदः
संपादितास्त्वया पूर्वमविता ऋषिसत्तमाः।
वालखिल्यैर्यजिं कृत्वा पर इन्द्रो विनिर्मितः
ब्रह्मादिभिः प्रार्थितास्ते पक्षिणां तमकल्पयन् ।
पयसां निधिरेकेन प्राशितश्चुलकेन यत्
अपरा सृष्टिरारब्धा गाधिपुत्रेण धीमता ।
स्तम्भितो भुज इन्द्रस्य च्यवनेन महात्मना
तस्मात्सर्वात्मना पुंसां भवतां सेवनं नतिः ।
दर्शनं भाषणं पूजा स्पर्शनं पापनाशनम्
उपकारेरतानां च दीनानुग्रहकारिणाम् ।
इन्द्रार्थे शरणं यातान्कृपां कर्तुं त्वमर्हसि
गौतम उवाच ।
भवतां दर्शनं चर्मचक्षुषां नैव जायते ।
मम पुण्येन जातं तत् कामसंपादनं नृणाम्
जन्माश्रम तपोदानं देह आत्मा व्रतानि च ।
सार्थकानी क्षणेनैव जातानि भवतां खलु
इदानीं प्रार्थितं किं वस्तन्निरुप्यं ममाग्रतः ।
शक्यं चेत्तत् करिष्येऽहं भवत्स्मृतिबलेन तत्
मुनिरुवाच ।
इति तद्वचनं श्रुत्वा जहृषुस्ते दिवौकसः ।
चन्द्रोदये यथा हर्षं प्राप्नोति जलधिः स्फुटम्
यथा वा बालभाषाभिः पितरौ मुदमीयतुः ।
प्रार्थनां चक्रिरे सर्वे गौतमं तं महामुनिम्
देवा ऊचुः ।
ईश्वरस्यापराधेन कामो भस्मत्वमागतः ।
आगस्कारी त्वया शक्रो न च प्राणैर्वियोजितः
इदानीं स यथास्थानं स्वकीयं प्राप्नुयान्मुने ।
क्षमित्वा तस्य चागांसि सर्वेषां वचनाद्धि नः
कृते तस्मिन्प्रसादे तु सर्वेषां वांछितं भवेत् ।
नारद उवाच ।
श्रुत्वा देवसमूहस्य वचनानि स गौतमः
प्रहस्य प्रत्युवाचेदं सर्वान् देवगणान्प्रति ।
गौतम उवाच ।
नामापि तस्य न ग्राहयं पतितस्य कृतागसः
कपटस्य शठस्यापि दुष्टस्याप्यविवेकिनः ।
अनुतापविहीनस्य निष्कृतिर्नैव विद्यते
तथापि भवतां वाक्यात्करिष्ये तत्प्रियं सुराः ।
भवन्तोऽपि यदा रुष्टास्तदा शापः पतेन्ययि
पूतो भवति जन्तुर्हि बहुभिर्यो ऽनुगृह्यते ।
अत एकं वदे मन्त्रं तस्मै तं प्रदिशन्तु च।
सर्वकर्ता सर्वहर्ता सर्वपाता कृपानिधिः ।
विनायको देवदेवो ब्रह्मविष्णुशिवात्मकः
षडक्षरस्तस्य मन्त्रो महासिद्धि प्रदायकः।
उपदेशे कृते तस्य दिव्यदेहो भवेत्तु सः
भगानि तस्य यावन्ति तावन्नेत्रो भविष्यति ।
स्वराज्यं प्राप्स्यते शक्र इति सत्यं वदामि वः
अभिधाय सुरानित्थं तूष्णीमासीत्स गौतमः।
तं च ते पूजयित्वा तु नमश्चक्रुर्मुदान्विताः
प्रदक्षिणीकृत्य पुनः प्राप्यानुज्ञां ययुः सुराः ।
प्रशंसन्तो मुनिं तत्र यत्रास्ते बलवृत्रहा
गौतमा ज्ञानसंपन्नात् सात्विकोऽन्यो न वर्तते
(१२०६ )
इति श्रीगणेशपुराण उपासनाखंडे मन्त्रकथनं नाम द्वात्रिंशोऽध्यायः
अध्याय ३३ प्रारंभः –
नारद उवाच । ऊचुर्देवा वृत्रहणं बहिर्याहि शतक्रतो।
वयं हि सहितास्तत्र नारदेन सुरर्षिणा
तं गत्वा गौतममुनिं प्रसाद्य त्वामिहागताः ।
उपायस्तेन कथितो वरो दत्तस्तवापि च
दोषे जाते स्वयं सन्तः ख्यापयन्ति जनेषु तम् ।
तत्र प्रतिविधिं सम्यक्कुर्वन्ति तन्निरर्थकम्
आच्छादने दोषवृद्धिः ख्यापने तु लये भवेत् ।
तस्मात्त्वमपि देवेन्द्र बहिरागत्य तं वद
देवर्षिं प्रति तं ब्रूहि कुरूपायं मुनीरितम् ।
वैनायकं महामन्त्रं गृहाण त्वं षडक्षरम्
ब्रह्मा ददर्श चांगुष्ठुं विवाहे गिरिजेशयोः ।
चस्कन्द स तदा रेतो लज्जितोऽवाङ्मुखो गतः
ज्ञात्वा महेशः कृतवान्निर्दोषं तमुपायतः ।
इति वाणीं स श्रुत्वैव देवर्षिगणनिर्मिताम्
आजगाम बहिः शक्रो नलिनीकोशतो नृप।
सर्वेषां तत्र देवानां श्रुत्वा वाक्यानि सादरम्
पूयशोणितदिग्धांगो मलिनः पूतिगन्धवान् ।
दृष्ट्वा तथाविधं देवा नेमुः सर्वे सुरेश्वरम
आच्छाद्य घ्राणरन्ध्राणि वस्त्राग्रैर्नृपसत्तम ।
सुस्नातं पुनराचान्तं तमिन्द्रं वाक्पतिस्तदा
षडक्षरं महामन्त्रं गणेशस्योपदिष्टवान् ।
उपदेशे कृते तेन दिव्यदेहोऽभवच्च सः
सहस्रनयनः श्रीमान्बभौ सूर्यं इवाकरः ।
ततो वाद्यनिनादैश्च जयशब्र्दैर्दिवौकसाम्
गन्धर्वाणां गानरवैर्नादिता विदिशो दिशः ।
मुमुचुः पुष्पवर्णाणि सर्वे देवा मुदान्विताः
आशिषोऽथ ददुः सर्वे मुनयो नारदादयः ।
आलिलिंगुर्मुदा देवास्तुष्टुवुश्चापरे च तम्
केऽप्यूचुस्तं सुमनसः सनाथा हि वयं त्वया ।
विना त्वां नैव शोभामो विना चंद्रं नभो यथा
विना स्वपितरौ बाला न सुखं यान्ति सर्वथा।
तथा विना वयं त्वां हि लभामः शर्म न क्वचित्
मुनिरुवाच ।
श्रुत्वेत्थं देववचनं जहर्ष च शतक्रतुः ।
उवाच च प्रसन्नात्मा तथ्यं वाक्यं सुरान्प्रति
इन्द्र उवाच ।
मया कृतं कर्म सुदुष्करं यद् देवर्षिवाक्येन विमोहितेन ।
लब्धं फलं दुःसहमद्य सर्वैरुद्धारितोऽहं दुरितप्रकोपात्
नमामि सर्वानमरप्रबर्हाँनृषींश्च सर्वान् सुगुरु प्रभावान् ।
उद्धर्तुमात्मानमतोऽखिला मां, संत्रातुमर्हाः शरणं प्रपन्नम्
कथं प्रयत्नो रचितो भवद्भिः, प्रसादनायास्य हि गौतमस्य ।
कथं नु मन्त्रं परमं मदर्थे, स उक्तवांस्तत् कथयन्तु सर्वे
देवा ऊचुः ।
मुनिं पुरस्कृत्य गुरुं वयं च, गता मुनिं तं प्रणिपत्य सम्यक् ।
प्रसादितो वागमृतैर्विचित्रैः , स याच्यमानोऽप्यवदत् स्वमन्त्रम्
यस्योपदेशेन सहस्रनेत्रो, जातो भवान्सर्व सुखाय देव ।
प्रयाहि देव त्वमरावतीं स्वां, प्रशाधि सर्वान् विबुधांश्च लोकान्
इन्द्र उवाच ।
नाहं प्रयास्ये स्वपुरीं प्रसादं, विना गणेशस्य सुरर्षिवर्याः ।
व्रजन्तु यूयं कृतसाधुकृत्या, धामानि दिव्यानि मुदा रमन्तः
एतावताऽलं प्रकटीकृतोऽहं, लज्जाविलीनो बहुदुर्गतिश्च ।
प्रसादितो यन्मुनिरुग्रतेजा, भवत् प्रसादाद् बहुनेत्रता मे २४ (१२३०)
इति श्रीगणेशपुराण उपासनाखंडे त्रयस्त्रिंशतितमोऽध्यायः
अध्याय ३४ प्रारंभ :-
नारद उवाच ।
कदंबवृक्षस्य तले निधाय, नासाग्रदृष्टिं परमासने सः ।
मनो निरुध्याथ जजाप मन्त्रं, षडक्षरं जम्भरिपुर्नरेन्द्र
सहस्रवर्षाणि गतानि तस्य, मरुत्पते मारुत भक्षणस्य।
वल्मीक गुल्मानि शरीरदेशे, जातानि वै भूधरवस्थिरस्य
ततः प्रसन्नो भगवान् गणेशो, यः सर्वगः सर्वविदुर तेजाः ।
स्वतेजसा बह्वि शशीनतेजां, स्याच्छादयन्सर्व विलोचनानि
चतुर्भुजो रत्नकिरीट माली, चावंगदः कुंडलमंडिगंड: ।
मुक्तामयं दाम च नूपुरे च, बिभ्रन् महा कटिसूत्रमुच्चैः
यः पुष्कराक्षः पृथु पुष्करोऽपि, बृहत्करः पुष्करशालिमालः ।
आविर्बभूवाखिल देवमूर्तिः सिन्दूरशालि पुरतो मथोनः
तं दृष्ट्वा भयभीतोऽभूत् किमिदं किमिवागतम् ।
कथं च जीवितं मे स्यादस्थिप्राणमयस्य च
विघ्नोऽयं किं महानद्य न जाने केन निर्मितः ।
स्वेदस्रावि शरीरं मे कम्पते बोधिपत्रवत्
इत्थं विक्लवितं तस्य बुबुधेऽखिलदृग्विभुः ।
विनायको महेन्द्रं तमुवाच मंजुलं वचः
विनायक उवाच ।
मा भयं कुरु देवेश मां न वेत्सि कथं सुर ।
यन्निर्गुणं निर्विकारं चिदानन्दं सनातनम्
कारणातीतमव्यक्तं जगत्कारणकारणम् ।
यं ध्यायसि सदा देवं मन्त्रेणानेन निश्चलः
श्रान्तोऽसि बहु कालं त्वम् इति प्रत्यक्षतां गतः ।
तपसाऽनेन तुष्टोऽहं वरं दातुमिहागतः
ब्रह्मांडानामनन्तानामुत्पत्ति प्रलयावनम् ।
मत्त एवेति विद्धि त्वं वृणु यद्वांछसेऽनघ
नारद उवाच ।
श्रुत्वा तस्य वचो रम्यं बुबुधे बलभेदनः ।
भगवन्ते महाकायं देवदेवं विनायकम्
ननाम परया भक्त्या तत उत्थाय सत्वरः ।
अवीवदच्छचीकान्तः प्रत्यक्षं ब्रह्मरूपिणम्
इन्द्र उवाच ।
ब्रह्मादयोऽपि नो देवा विदुस्त्वां सदिगीश्वराः।
गुणांस्तव महाबाहो सष्टिस्थित्यन्तकारिणः
पदं तु कृत्रिमं मह्यं शतयज्ञसमुद्भवम् ।
दत्तं तत्राप्यन्तराया भवन्ति बहुधा मम
मया कथं तु विज्ञेयो महिमा ते गजानन ।
यस्य तेऽनुग्रहः पूर्णो भविष्यति महेश्वर
स एव महिमानं ते जानीयाद्विघ्नकारण ।
तस्य ते गुणरूपाणि वक्तुं शक्तिर्भविष्यति
निराधारोऽखिलाधारो नित्यज्ञानोऽजरोऽमरः ।
नित्यानन्देन संपूर्णो मायावी क्षर एव च
अक्षरः परमात्मा च विश्वरूपोऽखिलेश्वरः ।
उग्रैस्तपोभिस्त्वां ज्ञात्वा निर्वृत्ता सनकादयः
षडक्षरप्रभावेण दृष्टोसि परमेश्वर ।
पुराऽयं ब्रह्मणादिष्टो मन्त्रो मेऽनुग्रहेण वै
उक्तवांश्चैव मां ब्रह्मा यदाऽमुं विस्मरिष्यसि ।
तदैव भ्रश्यसे स्थानाद्दुर्दशां चैव यास्यसि
नतो मयाऽति लुब्धेन दुर्भाग्यंवशगेन ते।
धर्षिता मुनिपत्नी सा ततो दुर्गतिमाप्तवान्
पुनश्च धिषणोक्तेन तेन मंत्रेण दृष्टवान् ।
स्वरूपं तव देवेश सहस्रनयनोऽधुना
अन्यमेकं वरं याचे यतस्त्वं चिन्तितार्थदः।
इदं कदम्बनगरं चिन्तामणिपुरं त्विति
अनुष्ठानफलं प्राप्तं यत्ते दृढपदाम्बुजम् ।
इदानीं तु वरं याचे यं तं मे देहि विघ्नप
तव विस्मरणं देव न भवेन्मे तथा कुरु ।
मनो मे रमतां तव पादाम्बुजे विभो
अद्यप्रभृति लोकेऽस्मिन् ख्यातिं यातु गजानन ।
चिन्तामणीति तीर्थं तु सरश्च प्रथतामिदम्
अस्मिन्स्नानेन दानेन धर्मकामार्थमुक्तयः ।
जनानां सिद्धयः सन्तु प्रसादात्ते जगद्गुरो
मुनिरुवाच ।
आकर्ण्य वचनं शाक्रं मेघगंभारनिस्वनः।
उवाच श्लक्ष्णया वाचा विघ्नेशो जगतां पतिः
विनायक उवाच ।
इदं संपत्स्यते सर्वं यत्त्वया प्रार्थितं विभो ।
अन्य एको वरस्तेऽस्तु स्वपदे त्वं स्थिरो भव
अविस्मृतश्च सततं मम तेऽस्तु सुरेश्वर ।
यदा च संकटं ते स्यात्तदा मां स्मर वासर
आविर्भावेन ते कार्यं सर्वं संपादयेऽनिशम्।
इदं चिन्तामणिपुरं ख्यातं भुवि भविष्यति
कदम्बपुरमित्येतत्तीर्थं चिन्तामणीति च ।
अत्र स्नानेन सर्वेषां सिद्धयोऽपि करे स्थिताः
चिंतितं च प्रदास्यामि चिंतामणिविनायकः।
नारद उवाच ।
एवं वरं ततो लब्ध्वा स्वतःसिंधुमानयद्धरिः
कृत्वाभिषेकं तद्द्वारा पूजयामास तं विभुम् ।
गजाननं महाभागं परिवारसमन्वितम्
पूजितः सुरनाथेन तत्रैवान्तर्दधे विभुः ।
स्थापयामास शक्रोऽपि स्फाटिकां मूर्तिमादरात्
वैनायकीं शुभां दिव्यां सर्वावयवसुंदराम् ।
कारयामास विपुलम् प्रासादं रत्नकांचनैः
नत्वा प्रदक्षिणीकृत्य शक्रः स्वं पदमभ्यगात् ।
तदेतद्भुवि विख्यातं चिंतामणिसरो महत्
अद्यापि सा शुभजला गंगा शक्रस्य शासनात् ।
कृत्वाऽभिषेकं तन्मूर्तौ याति स्वं धाम सर्वदा
एवं ते क्षेत्र महिमा कथितोऽद्भुतदर्शनः ।
सर्वदोषहरः श्रीमान् सर्वकामप्रदः शुभ
तत्र गत्वा महीपाल स्नानं कुरु यथाविधि ।
सर्वदोषविनिर्मुक्तो भविष्यसि न संशयः
ब्रह्मोवाच ।
ततो ययौ मुनिः शीघ्रमनुपृच्छ्य च तं नृपम् ।
आशीर्भिरभिनन्द्यैव स रुक्मांगदमादरात् ।
(१२७३)
इति श्री गणेशपुराण उपांसनाखंडे चिंतामणितीर्थवर्णनं नाम चतुस्त्रिंशोऽध्यायः ।
व्यास उवाच ।
देवर्षौ तु गते तस्मिन्नृपः किमकरोत्तदा ।
रुक्मांगदो मे कथय कथामेतां मनोरमाम्
ब्रह्मोवाच ।
कृत्वोपदेशं सुमहान्तमेव गते मुनौ नारद नाम्नि पुत्र ।
रुक्मांगदो हर्षयुतो ददर्श सेनां स्वकीयां चतुरंगिणीताम्
तयाऽपि दृष्टो नृपतिर्विरूपो यः स्वर्णकान्तो रतिभर्तृरूपः ।
आसीत् पुरेत्थं कथमेष जातः, संशय्य पप्रच्छ नृपं निमित्तम् । । ३ ॥
सेनान्य ऊचुः ।
गिरीन्वनानि सरितो भ्रान्त्वा च वयमागतः ।
क्षुत्तृट्परीता राजेन्द्र त्वद्दर्शन समुत्सुकाः
पदे पदे प्रपश्यन्तः संप्राप्तास्ते पदाम्बुजम् ।
इमामवस्थां दृष्टवा ते दुःखाद् दुःखतरं गताः
किं निमित्तमभूत्तन्नः कथयस्व नृपोत्तम ।
नृप उवाच ।
अहमग्रे समायातस्तृषितः क्षुधितश्च ह ॥ ६। ।
अपश्यं पुरतः शीघ्रं वाचक्नवि गृहाश्रमम् ।
तत्र गत्वा मया दृष्ट्वा तस्य पत्नी शुभानना । ।७। ।
नाम्ना मुकुंदेति शुभा याचिता सा जलं मया ।
सा तु दुष्टा स्वैरिणी च मामुवाचाशुभं वचः
रतिं कुरु मया सार्धं नो चेच्छापं ददामि ते ।
निराकृता मया सा तु बलाच्छुद्धेन चेतसा
तद् भर्तरि गते स्नातुं सा मां दुष्टाऽशपद्रुषा ।
ततस्तु वृक्षमूलेऽहमुपविष्टो हि दुःखितः
प्रभावात् पूर्वपुण्यस्य दृष्टवान् नारदं मुनिम् ।
तेन मे कथितोऽरिष्टनाशको विधिरुत्तमः
चिन्तामणि क्षेत्रगतो गणेशतीर्थ संश्रितः ।
महिमा कथितस्तेन तस्य तीर्थस्य विस्तरात्
तत्र स्नानं समाख्यातं मुनिना दिव्यचक्षुषा ।
अतः स्नातुं गमिष्यामि स्वदोषस्यापनुत्तये
यान्तु सर्वे मया सार्धं तत्र स्नातुं यदीच्छथ ।
स्नात्वा दत्त्वा यथाशक्ति संपूज्य च विनायकम्
पूतास्तयोः प्रभावेण यास्यामः स्वपुरं ततः ।
क उवाच ।
इति ते निश्चयं बुद्ध्वा जग्मू राजपुरःसराः।
दृष्टवा तीर्थं गणेशाख्यं दिव्यदेहो बभौ नृपः
तप्तकांचनवर्णाभो यथापूर्वं मुनीश्वर ।
ततो रुक्मांगदो मेने नारदोक्तमृतं वचः
तत्र स्नात्वा ददौ दानान्यनेकानि नृपस्तदा ।
रुक्मांगदो ब्राह्मणेभ्यो मुदा परमया युतः ॥ १७। ।
विनायकं पूजयित्वा तेजोराशिं ददर्श सः ।
विमानमर्कप्रतिमं ब्राह्मणाः सेवकाश्च ते ॥ १ ८।
विनायकगणैर्जुंष्टमप्सरः किन्नरैर्युतम् ।
नत्वा नृपस्तान् पप्रच्छ के यूयं कुत आगताः ॥ १ ९॥
दूताः कस्य किमत्रास्ति कार्यं तद्ब्रूत सादरम् ।
ब्रह्मोवाच –
श्रुत्वा नृपतिवाक्यानि मंजुलानि विमानगा ॥१.३५.२ ० ॥
दूता विनायकस्योचुर्धन्योसि नृपसत्तम ।
येन ते सर्वभावेन ध्यातश्चिंतामणिः प्रभु ॥२ १ ॥
तीर्थयात्रा कृता सम्यग्दानं दत्वा यथाविधि ।
चिन्तामणिः पूजितश्च कृतकृत्योऽसि सांप्रतम् ॥२ २॥
चिन्तितस्य प्रदानाद्धि चिन्तामणिरयं स्मृतः ।
वयं च कृतकृत्याः स्मो दर्शनात्तव सुव्रत
महिमानं न जानीमस्तव भक्तेर्नृपोत्तम ।
कः येन वचसा बुद्ध्या जीवस्याप्यर्पणेन च
आराधितास्त्वया देव सर्वब्रह्मांडनायक। ।
विनायकस्तस्य दूतास्तेन च प्रेषिता नृप ।
उत्सुकः स उवाचास्मान् मद्भक्तं शीघ्रयायिनः ।
रुक्मांगदं विमानेन आनयन्तु ममान्तिकम्
इति श्रुत्वा वयं याता आरोहस्व नभोगमम् ।
याहि शीघ्रतरं देव सहास्माभिर्विनायकम्
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तेषामाह रूक्मांगदो नृपः ।
क्वाहं मन्दमतिर्दूता क्व चाखंडित विग्रहः
अप्रमेयेऽप्रतर्क्यश्च चिन्मात्रो विभुरव्ययः ।
सर्गस्थित्यप्ययानां यः कारणं कारणातिगः
तस्यादरो मयि कथं न जाने तीर्थजं फलम् ।
जन्मान्तरगतं कि मे फलितं पुण्यमुत्तमम्
तेन वो दर्शनं जातमग्रेऽति फलदं शुभम् ।
यूयं धन्यतरा येषां प्रत्यक्षोऽहर्निशं विभुः
इत्युक्त्वा पूजयामास नत्वा चरणपंकजम् ।
प्रार्थयामास सर्वांस्तान्पिता मम नृपोत्तम ।
ब्रह्मण्यः सत्यवादी च भीमो भीमपराक्रमः ॥३ २॥
विना तं कथमायामि मातरं चारुहासिनीम् ।
तयाऽप्याराधितो देवो देवदेवो विनायकः
जन्मावधि न चान्यं सा मनुते देवतांतरम् ।
दूत उवाच ।
एवं चेत्तर्हि तीर्थे ऽस्मिन्कुरु स्नानं तयोरपि ।
श्रेयस्तस्मै च तस्य च पित्रे मात्रे प्रदीयताम्
ततस्तावपि नेष्यामो विमानवरमास्थितौ ॥३ ६॥
ब्रह्मोवाच ।
इति तद् वचनं श्रुत्वा कृत्वा प्रतिकृतिं कुशैः ।
कुशोऽसि कुशपुत्रोऽसि ब्रह्मणा निर्मितः पुरा । ॥३ ७॥
त्वयि स्नाते तु स स्नातो यस्येदं ग्रन्थिबंधनम् ।
एवं मन्त्रं समुच्चार्य सर्वेषामानुपूर्वशः
ग्राम्याणां सर्वलोकानां चक्रे स्नानविधिं नृप ।
चिन्तामणि क्षेत्रगतं तीर्थे गाणेश संज्ञके
ततो रुक्मांगदो राजा सबलो दूतवाक्यतः ।
विमानवरमारुह्य कौंडिन्यं पुरमाययौ
वाद्यघोषैर्ब्रह्मघोषैर्गन्धर्वाप्सरसां रवैः ।
नादितं गगनं तेन विमानेन दिशो दश ॥४ १ ॥
मातापितृभ्यां प्रददौ श्रेयो रुक्मांगदो नृपः ।
सर्वेषामेव लोकानां स्नानश्रेयो विनायके
दत्तमात्रे तु कौशेय स्नानजे श्रेयसि ध्रुवम् ।
विनायकाज्ञयाऽन्यानि विमानानि समाययुः
प्रत्येकं ते समारुढा एकेकं गगनेचरम् ।
एवं रुक्मांगदो भीमस्तन्माता चारुहासिनी
सर्वे लोका ययुस्तत्र यत्र देवो विनायकः ।
एवं तन्नगरं सर्वमाबालश्वपचावधि
पुण्याद् गणेशतीर्थस्य स्नानजात् स्वर्गतिं गतम् ।
क उवाच।
इति ते कथितं सर्वं यद्यत् पृष्टं त्वया मुने
चिन्तामणि क्षेत्रगतं माहात्म्यं तीर्थसम्भवम् ।
यः शृणोति नरो भक्त्या सोऽपि तद् गतिमाप्नुयात्
इति श्रीगणेशपुराण उपासना खंडे कादम्बपुरगतवर्णनं नाम पंचत्रिंशत्तमोऽध्यायः ( १३२०)
मूल पाठ: gaṇeśapurāṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0