द्वाविंशत्यवदानकथा · अध्याय 8
ततस् तस्य श्रेष्ठिन अल्पायुत्वाद् बौद्धे प्रसाद्य कालगतः प्रणीतेषु त्रायत्रिंशेषु देवेषूपपन्नः स्वपुण्यफलविपाकेन रत्नकूटागारे निषद्याद्यरात्रौ तत्रागच्छति । मया धर्मो देशितः ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन सनयेन स दारिद्रो ऽयं रत्नमतिर् नाम देवपुत्रो मयि धर्मं श्रुत्वा स्वभवनं गतः ॥ भुतपूर्वं प्रभूतरत्नस्य तथागतस्य धातुस्तूपे स्नानकृतमात्रेण महद्थ्नो ऽभूत् । तेन पश्चाद् रत्नमय कूटागरं क् र्तं तेनैव प्रणिधानवशास् रत्नकूटागारेण सह स्वर्गेषूपपन्नः ॥
इति द्वाविंशत्यवदानकथायां स्नानकथापरिवर्तो नाम सप्तमः परिच्छेदः ॥
विइइ. कुङ्कुमादिदानकथा
अथ कदा चिद् बुद्धो भगवान् सत्कृतो गुरुकृतो मानितः पूजितो राजभी राजामात्यैर् धनिभिः सार्थवाहैर् देवैर् नागैर् यक्षासुरगरुडकिन्नरमहोरगैर् अभ्यर्चितो बुद्धो भगवान् ज्ञातो महापुण्यलाभी चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्काराणां सश्रावकसंघो महता सत्कारेण पूजितो धर्मश्रवनार्थम् । तदा बुद्धो भगवान् स्वं प्रभावं प्रदर्शयन् येषाम् उन्नतचित्तानां मानमददर्पप्रहाणार्थं पर्षद्भ्यो धर्मं देशितवान् । तच् छ्रुत्वा सभाश्रितजनाः संमोदवन्तः ॥
तस्मिन्न् अवसरे तदा तत्र राजगृहे ऽन्यतमः सौतीर्णो नाम वणिग् आसीत् ।
महाधनो महाभोगो विस्तीर्णपरिवारप्राप्तः । तदात्मसदृशात् कुलात् कलत्रम् आनीतम् । तया सह सुखेन तिष्ठति ॥ स चिन्तयति । तथा न युक्तम्, किं तु पिता चास्माकं किंकर्मफलोपजीवी आसीत् । अहम् अपि तथा करिष्यामीति ॥ यद्य् ओक्करिक आसीद् ओक्करिक त्वा ं करिष्यामि । महासमुद्रवणिग् आसीत् तत् तथा करिष्यामीति ॥
तदा केनापि कथ्यमानेन श्रुतम् । जानामि पिता चास्माकं समुद्रवणिग् आसीत् । इति चिन्तयित्वा स्वपत्नीम् उवाच ॥ कान्ते मत्कर्मणा एव वणिक्कुले जातस् तेनाहं रत्नाकर ं महासमुद्रं गन्तुम् इच्छामि । त्वया गृहाचारं कृत्वा तिष्ठ म भीतासि । अचिरेणागमिष्यामि ममार्थे देवतां स्मृत्वा धैर्यम् आलम्ब्य मा साहसं कुरु ॥
तच् छ्रुत्वा पत्न्य् उवाच ॥
मा ब्रूहि नाथ भर्तस् त्वं कथं तिष्ठाम्य् अहं ननु ।
विशेषैर् अबलाजातिः को रक्षति गृहे तव
कस्मै साधयते द्रव्यं पुत्रो वा ते न विद्यते ।
यद् अस्ति पूर्वद्रव्यं ते तेन शान्तो भव प्रभो
किम् एव बहुभिर् द्रव्यैः क्लेश एव यद् उद्भवेत् ।
क्लेशिनां हि सदा दुःखं संसारे सुखता कुतः
बहुद्रव्यवतां नित्यं क्लेशदुःखं महद् भयम् ।
तन् निरर्थं बहुद्रव्यं साधने मा कुरूद्यमम्
भर्ता उवाच ॥
इत्थं मा वदसि कान्ते कुलधर्मैष मे यतः ।
नीचेन महता चापि कुलधर्मं न वर्जयेत्
विशेषेण गृहस्थानां धन ं मूलं तु देहिनाम् ।
धनेनापि विहीनस्य कुतो मित्रं कुतः सुखम्
द्रव्येनैव वशाः सर्वे पुमान् अपि धनेन च ।
धनेन लोकसत्कारं यात्य् अतः साधयेद् धनम्
पत्न्य् उवाच ॥
स्वामिन् विना कथं नाथं तिष्ठामि चाहम् एकिका ।
चन्द्रेण रहिता रात्रिर् अन्धकार ं गृहे यथा
पुनश् च ॥
यस्मात् स्त्रियो विना भर्त्रा तर्कयन्ते परैर् अपि ।
भूमौ पतितमांसानि पिण्डानि शकुनैर् इव
भवेषु लोभवस्तूनि नारीपुष्पफलानि च ।
कस्यास्ति नागमे चित्तं दृष्ट्वा स्त्रीषु विमोहिता म्
अदान्तश् चित्तमातङ्गः सत्पथेन कथं व्रजेत् ।
कुपथेन यदा गच्छेत् प्रपतेन् नारके हि स ः
विशेषेण स्त्रिया धर्म ः प्राप्यते यस् सुदुर्लभः ।
तस्मात् संत्रसितां स्वामिन् मा मां त्यज्य व्रज स्वयम्
तत् कस्य हेतोः ॥
शृणुष्वैककथां भर्तः श्रुतं मे मातरि क्व चित् ।
मनसा चिन्तितात् पापाद् वेश्या भवति ब्राह्मणी
भर्ता उवाच ॥
कथं वेश्या भवेत् कान्ते ब्राह्मणी सुकुलोद्भवा ।
मनसा चिन्तितामात्रैर् इदम् आश्चर्यम् अद्भुतम्
पत्न्य् उवाच ॥
कोशला नगरी चासीद् विशालपरिशोभिता ।
विद्वज्जनसमाकीर्णा सुजनैः परिशोभिता
तस्मिन् पुरे महा-आढ्यो ब्राह्मणो वेदपारगः ।
स पत्नीसहितश् चासौ वसते सुखलीलया
ततो दशाविभागेण मृतो ऽसौ द्विजसत्तमः ।
विहाय प्रियसौहार्दं विवशात् सर्ववैभवात्
तत्पत्नी ब्राह्मणी सा वै अप्रसूता सयौवनी ।
भर्तु र् गुणान् अनुस्मृत्य अभूद् अस्वस्थचेतना
दिनेषु गच्छत्सु नितान्त-आतुरा भर्तुर् वियोगाद् विरहाच् च प्रेम्णः ।
शीतोपचारैश् च कृते ऽपि गात्रे दाहेव यस्या ज्वलितोग्रवह्निना
का मलकर्पटी शय्ये मर्कटीशयनोपमा ।
तस्यास् तथाविधैर् अन्यैर् उपचारैश् च को विधिः
उपचारिणी ततस् तस्या वैद्यम् आहूय दर्शिता ।
वैद्येन हस्तं संगृह्य धमनी वीक्ष्यते पुनः
दृष्ट्वा उक्तं तदा तेन, प्रश्रब्धा न चिकित्सया ।
यस्या विरहरोगे न वैद्यौषधिर् लगिष्यति
इति विचार्य वैद्यो ऽसौ प्रत्यागतः स्वकं गृहम् ।
धमनीदृष्टम् अन्यं च गृहीत्वा हि यथा मतम्
यतः, अचेतनी ग्लानी पुंसस्य पाणिनास्पृशत् ।
स्पर्शमात्रेण तस्या वै हृदये शीतलं त्व् अभूत्
हृदये स्वस्थभूतेन परिवृतोपचारिका ।
पश्यन्ती चक्षुषा सर्वा ः सा बभाषे शनैः शनैः
केन पृष्टाद्य मे हस्ते केन स्पृष्टा च मे तनौ ।
कीदृशी सुखस्वस्थानि उच्यतां मयि हे सखि
उपचारिका ऊचुः ॥
स्वामिनि ते विना स्वस्थैः वैद्यः प्रज्ञप्त ः काम्यया ।
ग्लानानाम् अक्षणा किं च दृष्ट्वा औषधम् आचरेत्
ब्राह्मणी उवाच ॥
स्त्रियो वा पुरुषो वापि, स्वस्थो जातश् च मे हृदि ।
ईदृशः सुखजातो मे ग्लानं शान्तम् अभूत् क्षणात्
उपचारिका ऊचुः ॥
न स्त्रियः स्वामिनि वैद्यः पुमांल् लोकचिकित्सकः ।
धमनीमात्रम् आलक्ष्य गतवान् स्वगृहे स च
ब्राह्मणी उवाच ॥
अहह पुरुषोहस्तपृष्टमात्रेण मे हृदि ।
उपजातम् ईदृशं सौख्यं क्रीडाकृते कथं सुखम्
इति चिन्तितमात्रेण, अघीभवति सा व्रती ।
इहजन्म ततस् त्यक्त्वा कर्मवायुभिर् ईरिता
पातरिनगरे रम्ये वेश्याजन्म बभूव सा ।
कामरतीति नाम्ना सा रूपलावण्यशोभिता
क्रमतो यौवनी चाभूत् कन्दर्पमदगर्विता ।
तस्या माता रतीलोला पुत्रीं वदति तत्र च
अस्माकं कुलधर्मेषु वेश्यावृत्तिं कुरुष्व तत् ।
विशेषै रूपलावण्य ं महांश् च जन रोचते ।
क्रीडं कुरुष्व पुत्रि त्वं बहुशो धनदैः सह
ततः प्रभृति सा कामरती असकृत् स्वकुलव्यवहारं कृतवती ॥ ततः कामरती पञ्चत्वम् उपगता नरके पतिता ॥
स्वामिन्न् अहम् अपि तथा भविष्यतीति त्वाम् अहं वक्ष्यामि ॥
मा भैषी हे प्रिये कान्ते साधु साधु सुभाषितम् ।
न भविष्येत् तथा त्वं हि संतिष्ठ दृढचेतसा
अथ सतीर्णवणिजः पत्नीवचनम् अकृत्वा पण्यम् आदाय बहुभिर् वाणिजैर् महासमुद्रम् अवतीर्णः ॥ तस्य पत्नी नातियौवनवती मध्यवयसी अप्रसूता । ततः कश्चिद्वर्षान्तरे गते सा पुत्रार्थे च स्वामिनो ऽर्थे उत्कण्ठिता परितस्य ति न चास्या भर्ता आगच्छति ॥ ॥ सा उवाच ॥
भर्ता नैवागतः कस्मात् दीर्घकालं गतो वणिक् ।
तदा विना च सङ्गेन कुतः पुत्रोदयं मम ।
वयसि गते विशेषैस् तु वंशच्छेदो न संशयः
तस्या भर्ता सौतीर्णो ऽसौ नागतः सुचिरेण च ।
हृदये शोकशल्येन तिष्ठति दीनमानसा
अथ सौतीर्णवणिजो महता सत्कारेण , के चित् प्रत्यागता वणिजाः , सुगन्धद्रव्याणि तथागताय निर्यातये त्यक्त्वा पत्त्रलेखं चान्यवणिजस्य हस्ते दत्त्वा प्रेषयति ॥
ततः स वणिजस् तस्य पत्न्यै हस्ते पत्त्रं समर्पयति ॥
तदा तस्य पत्न्य् आगृहीत्वा लेखम्, कुशलवार्त्तां पप्रच्छ ॥
कुशली भद्र मे भर्ता कुशलं सर्ववस्तुकम् ।
सिद्धानि सर्वकार्याणि मा कश् चिद् रुजया वपुः
सो ऽवोचत् सर्वं कुशलं मा भैषीत्य् उक्त्वा स्वगृहं गतः ॥ अथ सा तस्य पत्नी भर्ता आगमिष्यतीति चिन्त्याशया उत्कण्ठितमनास् तिष्ठति ॥
प्रत्यागते ततश् चास्मिं स् तस्य दुर्दैवयोगतः ।
तदा च तरणे नौका बभूव प्रलयाम्बुधौ
तदा तेन अनुस्मृत्य बुद्धनाम उदीरितम् ।
क्षणात् प्राणं ययौ तत्र तेनासौ सुगतिं गतः
नश्यन्ति सर्ववस्तूनि जीवश् चापि प्रणश्यति । वार्त्तापि नागतस् तस्य मृतो ऽपि जीवितो ऽथ वा ॥
अगमन् विंशत्य् अब्दानि कालं गत अभूद् असौ
दिनेषु गच्छत्सु क्रमतश् च वृद्धा धम्मिल्लशुक्ला कुब्जा च साभूत् ।
तथापि तस्याः स्नेहो न नश्यति चानेकदेवस्मरणेन तिष्ठति
अथ सा चिन्तयाम् आस स्वामिना प्रहितानि च ।
सुगन्धगन्धद्रव्याणि बुद्धाय सुगताय च
पूजयामि कथं चात्र शाक्यसिंहं गुणोदधिम् ।
अजातशत्रुणा राज्ञा बुद्धपूजानिवारिते
अथ सा चिन्तयाम् आस पूजयामि तथागतम् ।
प्रासादशिखरे स्थित्वा चन्दनेन विलेपनैः
ततस् तया प्रमोदेन भक्तिपूर्वेण चेतसा ।
अर्चितं चन्दनेनैव कुसुमैः सह मण्डलम्
ततः सा प्राञ्जलिं कृत्वा नत्वाह सादरैः पुनः ।
भर्ता मे ऽपि मृतो वापि जीवितो वाथ वा पुनः
वार्त्तापि नागता तस्य कथं हे भगवन् मुने ।
सर्वज्ञः सर्वदर्शी त्वं नास्ति किं चिद् अवेदितम्
स्वप्नं दास्यसि मे नाथ, अस्ति नास्त्य् अथ वा मुने ।
दर्शनम् औत्सुकं जातं भर्तुर् वदनपङ्कजम्
इति सा याचनं कृत्वा तद् दिनानि निनाय च ।
संवेशाय निशायां वै स्वागारनिलयं ययौ
अथ भगवान् सर्वज्ञस् तस्या आशयं ज्ञात्वा स्वं प्रभावं प्रदर्शयन् न् ऋद्ध्या ब्रह्मस्वरेण सौतीर्णं प्रावदत् ॥
सौतीर्ण तव पत्न्या त्वाम् एव कालगतं न जानाति । तस्माद् दिव्यरूपं धृत्वा स्वर्गाद् अवतीर्य दिव्यदेहं स्वप्नं दर्शयतु ॥ इति सहचित्तोत्पादाद् भगवतः सौतीर्णवणिजो दिव्यशरीरम् अभिवीक्ष्य,
धर्मता खलु अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते ॥ कुतश् च्युत्वा, इहोपपन्नः, केन कर्मणेति । स पश्यति मनुष्येभश् च्युतस् त्रायत्रिंशेषूपपन्नो भगवतः कुङ्कुमादिदानाद् इति ॥
ततस् सुगन्धमुखो देवपुत्रश् चलविमलकुण्डलहारार्धहारविभूषितगात्रो रत्नचूडः कुङ्कुमतमालपत्त्राद्यलंकृतगात्रस् ताम् एव रात्रिं सुगन्धगन्धेन चतुःक्रोशं स्फुरित्वा यत्र यत्र गतः स्वर्गलोकाद् अवतीर्य भार्यायाः कोष्ठागारे प्रत्यस्थात् ॥ ततः सा इमं स्वप्नम् अपश्यत् ॥ भर्ता उवाच ॥
कान्ते जानीहि त्वद्भर्ता ममैव मरणं ध्रुवम् ।
त्वं न जानीषि मा भीता स्वर्गलोकाद् इहागतः
बुद्धप्रभावान् नान्येन कुङ्कुमादिप्रदानतः ।
दिव्यलोकसुखं भुक्त्वा तिष्ठामि सुखलीलया
काश्मीर गो शीर्षकचन्दनानि ददन्ति तस्मै सुगतोत्तमाय ।
ते प्राप्नुवन्ति ह्य् अमरालयेषु सुगन्धदेहाः खलु ये मनुष्याः
बुद्धेषु धर्मेषु तथा च संघे प्रसन्नचित्ता भव चाप्रमत्ता ।
तथा भवेथा स् त्वम् अतो यथाहं कल्याणमार्गं न् अचिरेण प्राप्तुम्
इति जिनानुभावेन स्वपत्नीं धर्मम् उपदेश्य स्वभवनं गतः ॥ ततः सा तथाविधं स्वप्नं दृष्ट्वा प्रबुध्यति महाद्भूतं च संप्राप्ता शोकाकुलितमानसा ॥
ततोत्थायासनात् सा च विमृश्य मनसा पुनः ।
सत्यस्वप्नम् इमं ज्ञात्वा दुःखो त् फुल्लतनूरुहा ।
वेपथुस् तस्या स् तनुर् नूनम् अश्रु स्रवति लोचनात्
ततः कृत्वा समाधानं ननाम सुगताय वै ।
रक्ष मां भगवञ् छास्तः कुरु नाथ अनुग्रहम्
इत्य् उक्त्वा सुप्रसन्नेन भगवान् सुगतोत्तमः ।
पूर्ववद् मण्डलं कृत्वा अष्टौ दिनानि पूजितः
ततः कालवशात् सापि पञ्चत्वम् उपसंगता ।
प्रणीतत्रायत्रिंशेषूपपन्ना देवकन्यका
सुगन्धगन्धिनी नाम देवकन्याभवत् तदा ।
भर्त्रा सह सुखेनैव स्वर्गे तिष्ठति सा चिरम्
ततस् तौ संभाषितौ भगवतः कुङ्कुमादिदानाद् देवलोकेषूपपन्नौ ॥ तस्माद् भगवतः सकाशं गच्छावः पर्युपासनाय वदनायेति ॥
तदा सुगन्धमुखदेवपुत्रस्त्रीपुरुषौ सुगन्धगन्धेन चतुःक्रोशं स्फुरित्वा ताम् एव रात्रिं सर्वं जेतवनमहाविहारम् उदारेणावभास्य भगवन्तं चन्दनादिसुगन्धवर्षैः पूरयित्वा भगवतः पुरस्तान् निषण्णौ धर्मश्रवणाय ॥
अथ भगवान् सुगन्धमुखदेवपुत्रयोर् आशयं प्रकृतिं च ज्ञात्वा तादृशी ं चतुरार्यसंप्रतिवेधिकी ं धर्मदेशनां कृतवान् । यां श्रुत्वा तयो ः स्त्रीपुरुषयो र् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् ॥ स दृष्टसत्यस् त्रिर् उदानम् उदानयति स्म ॥
इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं न राज्ञा न देवताभिर् नेष्टस्वजनबन्धुवर्गेण न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् यद् भगवतास्माकं कृतम् । अपायद्वाराणि पिहितानि स्वर्गद्वाराणि प्रतिष्ठापितानि ॥
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः
त्वदाश्रयाच् चाप्तम् अपेतदोषं नाव् अद्य लब्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णं च दुःखार्णवपारम् अस्मिन्
नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय ।
भवशहस्रसुदुर्लभदर्शन सफलम् अद्य मुने तव दर्शनम्
अवनम्य भगवतश् चरणौ द्वाव् अभिवन्द्य जातसंहर्षौ गमिष्याव इत्य् आरोच्य सुरलोकाभिमुखं दिवं जगतुः ॥
अथेह भिक्षवः पूर्वरात्रिं जागरिकायोगम् अनुयुक्ता विहरन्ति । तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः । यं दृष्ट्वा संदिग्धा भगवन्तं पप्रच्छुः ॥ किं भगवन्न् अस्यां रात्रौ भगवन्तं दर्शनाय ब्रह्मा सहापतिः शक्रो देवेन्द्र उत चत्वारो लोकपाला उपसंक्रान्ताः ॥
भगवान् आह ॥ न भिक्षवो ब्रह्मा सहापतिर् न शक्रो देवेन्द्रो नापि चत्वारो लोकपाला मां दर्शनायोपसंक्रान्ताः ।
असौ सौतीर्णवणिजो महासमुद्रम् अवतीर्णः । ततो ऽसौ सौतीर्णवणिजो मह्यं कुङ्कुमादिसुगन्धद्रव्याणि दत्त्वान्य ं प्रेषितः । ततः प्रत्यागते दुर्दैवयोगान् महाम्बुधौ समुद्रमध्ये नावं भग्नीभूत्वा समुद्रे पतित्वा कालं गतः ॥ तस्य पत्नी सुगन्धगन्धिनी देवकन्या, तया मयि प्रसन्नीभूय प्रासादशिखरे स्थित्वा कुङ्कुमादिसुगन्धैर् अष्टौ दिनानि पूजितः, तया प्रणिधानं कृतम् ॥ यत्रे मे स्वामिन ः स्थाने प्रेष्यतां सुगत । इति तत्पुण्यप्रणिधानवशात् त्रायत्रिंशेषु देवेषूपपन्ना ॥ ताव् इमां रात्रिं मत्सकाशम् उपसंक्रान्तौ, तयोर् मया धर्म देशितम्, दृष्टसत्यौ च स्वभवनं गतौ ॥
तस्मात् तर्हि भिक्षवः शिक्षितव्यम् । यत् त्रिरत्नेष्व् उपकारं कुर्यान् नापकारम् इत्य् एवं भिक्षवः शिक्षितव्यं ममान्तरे मम निर्वृते ॥
ततो भिक्षवः संशयजाता भगवन्तं पप्रच्छुः ॥ भगवन् को हेतुः कः प्रत्यय असौ सौतीर्णः कुङ्कुमादिगान्धिकवस्तूनि प्रहितानि, त्वद्दर्शनम् अप्राप्य समुद्रमध्ये कालगत इति ॥
( दक्: 79 ) भगवान् आह ॥ भिक्षवः शृणुध्वम् ॥
भूतपूर्वं भिक्षवः प्रदेशिकमण्डलिनो राजैक अस्ति ।
तत्राजिरवतीनामनदीपारे नातिदूरे नानापादपद्रुमोपशोभिते मनोरमविस्तारे सरित्प्रवाहिते धर्मरुचिर् नाम ऋषिः प्रतिवसति स्म । स नित्यं धर्म श्रोतुं गच्छतीति ॥
अथ कदा चिद् ऋष्याश्रममार्गान्तरे दुष्टजन्तोर् भयम् उत्पादित इति लोकोपवाद ं श्रुत्वा स राजा सहायैर् इषुधनु सज्जीकृत्य ऋष्याश्रमं गतवान् ॥ तत ऋष्याश्रमं प्राप्य गुरुप्रणामं कृत्वा नानाविनोदकथालापेन सुखेन तिष्ठति ॥ ततः स मुनिर् धनुर्बाणं दृष्ट्वा राजानम् उवाच ॥ अलम् अनेन राजन् धनुर्बाणं सज्जीकृत्य , आगतस् त्वम् । अहं दुष्टो न, मे दृष्ट्वा राजन् भीतो ऽसि वा पुनः ॥
अथ स राजा कर्ण ं मृष्ट्वा प्रणामं कृत्वाह । म एवं ब्रूहि गुरो त्वद्भयविषादान् न, किं तु मार्गान्ते दुष्टजन्तोर् भयम् उत्पादित इति लोकोपवादं श्रुत्वागतो ऽहम् इति ॥
अथ ऋषिर् अब्रवीत् ।
मा खेदं कुरु हे राजन् संसारेषु असारके ।
हेलया चापराधि स्यात् कथितं त्वयि भूपते
सङ्कटप्राप्तकालेषु पश्यन्न् अपि न पश्यते ।
श्रुतम् अपि न भाव्यं ते तस्माच् चोक्तो महीधर
शस्त्रे भृते प्रहारेयुः कस्मिं श् चित् प्राणिषु स्वयम् ।
समाधानं ततो भूत्वा क्रीयसे दृढचेतसा
कस्माच् छासितम् इत्थं ते शृणु त्वं भूपते पुनः ।
अकारणे गते प्राणे शस्त्रेण विध्यते यदि
व्यथया प्राणिना तेन प्रलापैः कन्दनेन तु ।
पुनः शापयते नूनं दोषशल्यो हि जायते
अहिंसा परमो धर्म अहिंसा परमं तपः ।
अहिंसा परमं ज्ञानम् अहिंसा परमं पदम्
अथ स राजा तथेति सत्यम् एव इत्य् उक्त्वा गुरुचरणौ प्रणामं कृत्वा प्रतिनिवृत्तयति सहायैः सह पथि नानाकथाविनोदैः ॥
ततो नदीं निष्क्रम्य, उपा र् धं प्राप्तवान् दृष्टः । मध्याह्ने रविकिरणैर् आतप्तैः पानीयं पीत्वा तरुच्छायायाम् आशृतां मृगपत्नीं ददर्श ॥
अथ सहसैव स राजा गुरोर् वचनं विस्मारितस् तां मृगपत्नीं शरेण भिन्नः । उदरे शरं भिद्यति ॥ ततो मृगपत्नी मानुष्यगिरा राजानम् एवम् आह ॥
साधु साधु महाराज कृतस् त्वम् उत्तमं व्रतम् ।
त्वं च राजर्षभ ः श्रेष्ठदेवजाति ः सुधार्मिकः
न मानुषा चास्मि मनुष्यवर्य मृग्य् अप्य् अहं त्वद्विषयान्तवासा ।
वृद्धा त्वदीयेन तृणोदकेन कथं हि राजन् त्वयि खेदयत्नः
लक्ष्मीनिकेतं यदुपाश्रयेण प्राप्तो ऽसि लोकाभिमतं नृपत्वम् ।
त्रातासि लोके व्यसने भयेषु कथं नु राजन् शरेण भिन्नो मे
अहं हि पशुजातिः स्याम् अज्ञानदीनदुर्बला ।
आहारो मैथुनं निद्रा पशुवृत्तिस् तथा नृप
नैकधर्माधिकारस् त्वं धर्माधर्मविचारकृत् ।
भूपाल इति विख्यातः सर्वलोकैः प्रशंसितः
सुबलो बलहीनानां दीनानां शरणं प्रभुः ।
ईदृशस् त्वं महाराज कथं मे जीव हारितः
विशेषैर् गुर्विणी चाहम् उदरस्थस्य का गतिः ।
अस्य मुखं न पश्येयं तेनास्यं पश्यते न मे
पुनश् च ॥
न सिंहजातिर् न च व्याघ्रजातिर् न ऋक्षजातिर् न च सूकरी ह्य् अहम् ।
वृका न जातिर् न च क्रूरजातिस् त्वया किमर्थं स्वशरेण भिन्ना
व्याधानां चण्डक्रूराणम् अलज्जानां तथैव च ।
असत्यानां च दुष्टानाम् एवाचारविधो नृप
ततो राजा इदं वचनं श्रुत्वा शल्यम् इव गद्गदकण्ठेन प्रत्युत्तरं दातुं न शक्नोति ॥ तत्र क्षणं तूष्णीम् आस्थाय स राजा मृगपत्नीम् उवाच ॥
किं मन्य् अस् ए मृगीदानीं मृगयाना[ं]गते ऽपि च ।
अपराधेन लिप्तो ऽहं गुरोर् वचनं नान्यथा
काकतालीव यत् प्राप्य प्रमोदेनाभिनिर्मिते ।
न किं चित् क्रूरचित्तेन न च ते द्वेषभावतः
मृगपत्न्य् उवाच ॥
किं मन्यसे महाराज प्रसादेन परात्मनि ।
स्वकानां च पराणां च शरीरं तुल्यम् एव च
सुखदुःखं च सर्वेषां कथं न ज्ञायसे नृप ।
मम प्राणहरस् त्वं हि किं वक्तव्यम् अतः परम्
इत्य् उक्त्वा सा मृगी कालगता ॥
ततस् तस्य भर्ता मृगः समायातः घ्राणो नोच्छ्वासम् आघ्राय पश्यति तां मृतशरीरां दृष्ट्वा उच्छेदकरीरम् इव सहसा भूमौ पपात । क्रमेण स्मृतिम् उपस्थाप्य करुणकरुणैर् नानाविलापं चकार ॥
हा प्राणानन्दनस्नेहे व्रजसे कथम् एकिका ।
मां विहायाधुना तत्र कथं केन प्रहारिता
समार्जवं समं ज्ञानं मम तुल्यपराक्रमा ।
त्वद्गुणं कथं विस्मृत्य मन्ये कान्तारभीषणम्
सुहृदन्ये न विद्यन्ते तवैकवल्लभः खलु ।
इदानीं स्नेहम् उत्सृज्य कथं ते जीव हारितः
ततः स राजानम् उवाच ॥
मम प्राणसमेयं स्त्री पत्नी मे जीवहारिता ।
अतिस्नेहतरा स्त्री मे कथं ते प्राणहारिता
अथ स मृगस् तस्मै शापितः ॥ यथा मे पत्नी नदीमध्ये स्थित्वा प्रहारितेन व्यापादिता । तथा त्वं समुद्रमध्ये पञ्चत्वम् उपगच्छतु ॥ चतुर्वर्णानां हीनवर्णो भवत्व् इति शनैः स्वम् आश्रमं गतो मृगः ॥
किं मन्यध्वे भिक्षवस् तेन कालेन तेन समयेन ऋषिर् आसीद् अहं सः । यो ऽसौ सौतीर्णः स राजाभूत् ॥ मृगशापेन श्रेष्ठी भूत्वा समुद्रमध्ये कालगतः । किं तु बौद्धनामानुस्मृत्य प्रमोद्य कुङ्कुमादिदानतो देवेषूपपन्नः ॥
महानुशंसा भिक्षवः कुङ्कुमादिगन्धदानस्य तथागतेषु महानुशंसा ॥
पुनश् च शृणु ॥
मज्जद्वारविलासिनीकरकुचश्रोण्यूरुविस्फारितां
यत् स्फीतस्फुटपङ्कजां सुरपतिर् मन्दाकिनीं गाहते ।
कान्ताभिः स्मरविह्वलाभिर् असकृल् लोकोत्तमायादरात्
तद् गन्धोदकपाद्यधूपकुसुमस्रग्गन्धदानात् फलम्
यद् राजा चक्रवर्ती वियति गतघनैः कुङ्कुमाम्भःप्रवाहैः
कर्पूरामोदवद्भिर् मलयजसुरभिश्लेषशीतैर् युतायाम् ।
गङ्गायाम् अङ्गसौख्यं परमम् अनुभवन् मोदते सुन्दरीभिस्
तत् त्यागात् कुङ्कुमादेर् गुणगणनिधये बुद्धभट्टारकाय
मृदङ्गवीणापटहप्रणादैः कृत्वा तु पूजां सुगतोत्तमानाम् ।
शृणोति शब्दान् सुरमानुषाणां श्रोत्रं च दिव्वं लभते विशिष्टम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0