द्वाविंशत्यवदानकथा · अध्याय 9
इति श्रीद्वाविंशत्यवदानकथायां कुङ्कुमादिदानकथापरिवर्तो नामाष्टमः परिच्छेदः ॥
इx. छत्त्रदानकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एवम् आह ॥ भगवन्
बुद्धेषु स्तूपबिम्बेषु छत्त्रम् उदारं प्रदिशन्ति ये ।
तेषां फलं कीदृशं स्याद् भाषस्व सुगत प्रभो
एवम् उक्ते ऽथ भगवान् क्षणम् एव तूष्णीम् आस्थाय, इदं महानिमित्तं प्रादुर्भावम् अकरोत् स्वं प्रभावसंदर्शनार्थं बुद्धपूजासंवर्तनार्थं बुद्धे ऽप्रसन्नानां चित्तानां मनःप्रसन्नसंजननार्थम् ॥
अथानन्तरं महापृथिवी षड्विकार ं प्रकम्पिता, आ रसातलं यावत् सुमेरुम् अपि । एवंरूपाण्य् अद्भुतानि भवन्त्य् अन्यानि च ॥ तद्यथा ॥ संक्षिप्तानि विशालीभव न् ति । हस्तिनः क्रोशन्ति । अश्वा ह्रेषन्ते । गृहगतानि विविधवाद्यभाण्डानि स्वयं नदन्ति । अन्धाश् चक्षुः प्रतिलभन्ते । बधिराः
श्रोत्रं लभन्ते । मूकः प्रव्याहारसमर्थो भवति । इन्द्रियविकला इन्द्रियाणि पूर्णानि लभन्ते । उन्मत्ता विगतमदा भवन्ति, विषपीडिता निर्विषा भवन्ति ।
अन्योन्यवैरिणो मैत्रीं प्रतिलभन्ते । गुर्विण्यः स्वस्तिना प्रजायन्ते ।
बन्धनबद्धा बन्धनाद् विमुच्यन्ते । अधना धनानि प्रतिलभन्ते ।
बुभुक्षिताः पूर्णोदरा भवन्ति । रोगार्त्ता रोगैर् विमुक्ता भवन्ति । अन्तरिक्षाश् च देवा दिव्यपुष्पवर्षम् उत्सृजन्ति ॥
अथ शक्रो देवानाम् इन्द्र अधस्ताज् ज्ञानदर्शनं प्रवर्त्य तत्क्षनम् एव स्वर्गलोकात् प्रसरति । भगवतः पूजार्थं स्वयम् एव महाप्रमाणदिव्यसुवर्णरत्नमयच्छत्त्रं धृत्वा देवगणैः सार्धं तत्र गृद्धकूटपर्वते समायाति कोटिप्रमाणदुन्दुभयः प्रनादयन् ॥
अथ शक्रो देवानाम् इन्द्रो भगवन्तं ददर्श । द्वात्रिंशता महापुरुषलक्षणैः समन्वागतं काञ्चनपर्वतम् इव श्रिया ज्वलन्तं भगवन्तं सुवर्णरत्नमयैश् छत्त्रैः संछादित अभूत् । त्रिप्रदक्षिणीकृत्य भगवतः पादौ शिरसाभिवन्द्य भगवतः पुरस्तान् निषण्णः ॥
अथ भगवान् धर्मं कथया संदर्श्य समुत्तेजयति संहर्षयति ॥
⟨अनित्य संसारम् अनित्य कोषम् अनित्य सौहृदि सपुत्रदारा । अनित्य राजो विविधोपभोग्य ं संसारके सर्वम् अनित्यम् एव ॥
दानं विभूषणं लोके दानं दुर्गतिनिवारणम् । दानं स्वर्गस्य सोपाणं दानं शान्तिकर ं शुभम् ॥⟩
अथ शक्रो देवानाम् इन्द्रः सपरिवारो धर्मं श्रुत्वा पुनर् अपि दिवं जग्मुः ॥
तदनन्तरं पर्षज्जनास् तद्धेतुकं चावेदितमनसः, तेषाम् आशयं ज्ञात्वा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः ॥
कुत्रेमानि भगवन् कुशलमूलानि कृतानि यतो भगवत एवंविधा पूजा भिक्षुसंघस्य चेति ॥ भगवान् आह ॥ तथागतेनैव तानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि । मयैतानि कर्माणि कृतान्य् उपचितानि, को ऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतानि पृथिवीधातौ नापवाय्वग्निषु विपच्यन्ते शुभान्य् अशुभानि च ॥
भूतपूर्वं भिक्षवो ऽतीते ऽ ध्वनि क्षमावत्यां महानगर्याम् उत्पादितः क्षेमंकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसरथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् एतर्हि तिष्ठति सशिष्यः ॥ तेन खलु पुनः समयेन अन्यतमजनपदे राजधानी आसीत् । मनोरमा ऋद्धिस्फीता सुभिक्षा चाकीर्णबहुजनपरिवृता विद्वज्जनसम्पन्ना । तस्यां राजधान्यां महाक्षत्रियमूर्ध्नाभिषिक्तो ( दक्: 89 ) महावीर्यवान् परमधार्मिको धर्मराजो धर्मेण राज्यं कारयति स्म ॥ अथ स महाक्षत्रियो मूर्ध्नाभिषिक्तः क्षेमंकरस्य तथागतस्य महाशंसावर्णनं भाषितं श्रुत्वा परम ं प्रसादयाम् आस ॥ अथ तत्क्षणम् एव विविधपूजोपकरणं सज्जीकृत्य निमन्त्रणार्थं दूतं प्रेषयति । अश्ववेगेन हस्तिवेगेन रथवेगेन । ततः क्रमतस् तत्रानुप्राप्तस् तथागतं प्रार्थयाम् आस ॥ हे भगवन् क्षेमंकर सम्यक्संबुद्ध महाक्षत्रियो मूर्ध्नाभिषिक्तो त्वयि निमन्त्रणं प्रेषित अद्य चतुर्थदिने सशिष्य ः पर्षद्गणैः सह समायान्तु महामुने ॥ इत्य् उक्त्वा क्षेमंकरं सम्यक्संबुद्धं प्रणिपत्य स्वविषयं प्रत्यागतः ॥
अथ स महाक्षत्रियो मूर्ध्नाभिषिक्तश् चतुर्थदिने पुष्पधूपगन्धच्छत्त्रध्वजपटाकाः सज्जीकृत्य, पुष्पाञ्जलिं प्रक्षिप्तवान् ॥
ततो बुद्धानुभावेन तानि पुष्पाणि क्षेमंकरस्य तथागतस्य शिरसि प्रतिच्छन्नानि बभूवुः ॥
अथ भिक्षवः क्षेमंकरं सम्यक्संबुद्धं पप्रच्छुः । कुत इदं भदन्त भगवन् निमन्त्रणम् आयातम् इति ॥
( दक्: 90 ) क्षेमंकरः सम्यक्संबुद्धः प्रोवाच ॥
महाक्षत्रियो मूर्ध्नाभिषिक्तो निमन्त्रणं कृतम् ।
तत्रास्माभिर् गन्तव्यं सज्जीकुर्वन्तु भिक्षव ः
इति ॥
अथ क्षेमंकरस् तथागतो ऽर्हन् सम्यक्संबुद्धश् चतुर्थदिने भिक्षुगणैः परिवृतः क्षेमंकरो भगवान् दान्तो दान्तपरिवारः शान्तः शान्तपरिवारः ।
मुक्तो मुक्तपरिवारः आश्चर्य आश्चर्यपरिवारः । विनीतो विनीतपरिवारो ऽर्हन्न् अर्हत्परिवारः । वीतरागो वीतरागपरिवारः प्रासादिकः प्रासादिकपरिवारो वृषभ इव गोगणपरिवृतः । गज इव कलभगणपरिवृतः । सिंह इव दंष्ट्रिगणपरिवृतः । राजहंस इव हंसगणपरिवृतः । सुपर्णीव पक्षिगणपरिवृतः । विप्र इव शिष्यगणपरिवृतः । बालाहाश्व इव तुरगगणपरिवृतः । देशिक इवाध्व ग गणपरिवृतः । सूर इव योधगणपरिवृतः । सार्थवाह इव वणिग्गणपरिवृतः । श्रेष्ठीव पौरजनपरिवृतः । ( दक्: 91 ) कोट्टराज इव मन्त्रिगणपरिवृतः । चक्रवर्तीव पुत्रसहस्रपरिवृतः । चन्द्र इव नक्षत्रगणपरिवृतः । सूर्य इव रश्मिसहस्रपरिवृतः । धृतराष्ट्र इव गन्धर्वगणपरिवृतः । विरूढक इव कुम्भाण्डगणपरिवृतः । विरूपाक्ष इव नागगणपरिवृतः । धनद इव यक्षगणपरिवृतः । वेमचित्रीवासुरगणपरिवृतः । शक्र इव त्रिदशगणपरिवृतः । ब्रह्मा इव ब्रह्मकायिकपरिवृतः । स्तिमित इव जलनिधिः सजल इव जलधरो विमद इव गजपतिः । सुदान्तैर् इन्द्रियैर् असंक्षोभितेर्यापथेन प्रचचार ॥ अनेकैर् देवगणानुचरैर् बुद्धधर्मैर् नानादेवपुत्रैः संवर्णितैः संगीतैर् वाद्यप्रणादैः क्षेमंकरो भगवां स् तां राजधानीम् अनुप्राप्तः ॥
अश्रौषीद् राजा महाक्षत्रियो मूर्ध्नाभिषिक्तः क्षेमंकरसम्यक्संबुद्धश् चास्माकं राजधानीम् अनुप्राप्त इति श्रुत्वा च महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन भगवान् क्षेमंकरः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य क्षेमंकरस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः ॥
अथ राजानं क्षत्रियं मूर्ध्नाभिषिक्तं क्षेमंकरः सम्यक्संबुद्धो बोधिकरैर् धर्मैः समादापयति ॥ अथा स राजा लब्धप्रसादजातः क्षेमंकरं सम्यक्संबुद्धं राजकुले निमन्त्र्य शतरसेन भोजनेन प्रतिपादितः ॥
शतसहस्रमूल्येन सुवर्णच्छत्त्रेण संछादयाम् आस ॥
अथ स भगवान् क्षेमंकरः सम्यक्संबुद्धो धर्मवर्सं प्रवर्षितुम् आरब्धः ॥
साधु साधु महाराज महापुण्यव्रतोत्तमम् ।
छत्त्रावरोहणं येन, ईदृशं फलम् आप्यते
गजतुरगपदातिस्यन्दनैः सप्तरत्नैर् व्रजति सुतसहस्रैर् व्योम्नि यच् चक्रवर्ती ।
शशधरपरिवेषच्छत्त्ररुद्धार्कपादस्
तद् अपि फलम् उदारं छत्त्रदानात् प्रसूतम्
हेमच्छत्त्रतिरस्कृतार्ककिरणा ः श्रीमद्विनीतद्विप-
स्कन्धस्था बहुरत्नभूषणवराः शक्रर्द्धिविस्पर्धिनः ।
चातुर्द्वीपकचक्रवर्त्यवनिपा यद् यान्ति खे लीलया
तत् ताथागतधातुचैत्यकुसुमच्छत्त्रप्रदानात् फलम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0