भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · अध्याय 7

7.1

इति द्वाविंशत्यवदानकथायां जीर्णोद्धारणबिम्बकथा षष्टमः परिच्छेदः ॥
विइ. स्नानकथा
अथानन्तर मैत्रेयो भगवन्तम् उवाच सः ।
चैत्यानां बुद्धबिम्बानां स्नानानां कथ्यतां फलम्

7.2

भगवान् आह ॥
अजित शृणु मैत्रेय स्नानस्य फलम् उत्तमम् ।
चैत्याञां बुद्धबिम्बानां वक्ष्ये लोकार्थहेतवे

7.3

नानागन्धैः सुगन्धैः स्नपयति सुगतं पुष्पधूपाङ्गरागैर्
यो वा पूजं करोति प्रमुदितमनसा श्रव्यवादित्रशब्दैः ।
मन्दाकिन्यां विजृम्भत्कनकमयसरोजस्य किञ्जल्करेणु-
व्याप्तायां स्नाति सो ऽन्ते सकलकलिमलक्षालितो यान्ति मोक्षम्

7.4

दिव्यस्त्रीपीनतुङ्गस्तनजघनघनाघातविक्षोभितायां
जृम्भज्जाम्बूनदाब्जच्युतसुरभिरसोद्गारगन्धं क्षिपत्याम् ।
मन्दाकिन्यां सुरौघाः प्रतिदिनम् उदकक्रीडया यद् रमन्ते
नानागन्धोदकेन स्नपनफलम् इदं बुद्धभट्टारकस्य

7.5

एवं मैत्रेय महानुशंसा तथागतेषु कृतपुण्यानि स्वल्पम् अपि बहु फलम् ॥
अथ तस्मिन् समये भगवान् सर्वसभाश्रितलोकानां काङ्क्षाच्छेदनार्थम् ऊर्णाकोशाद् भ्रूविवरान्तराद् दिव्यां प्रभाम् उत्ससर्ज । तया प्रभया त्रिसाहस्रलोकधातुम् अवभास्य यावद् भवाग्रपर्यन्तम् अवभासयति स्म ॥
तत्रैकप्रदेशे धर्मकोशवतीमहानगर्यां धर्ममतिर् नाम श्रेष्ठी प्रतिवसति स्म ॥ स च महाधनो महाभोगो विस्तीर्णपरिवारो धनधान्यसंपन्नो गृहक्षेत्र-उद्यानदासदासीप्रेषकजनसंपन्नः । ततस् तया प्रभया सर्वावन्तं गृहं बाह्याभ्यन्तरम् अवभासितम् । ततस् तया प्रभया तस्य शरीरं स्पृष्ट्वा, प्रह्लादितमना ः कथयति ॥
अहो कस्य प्रभाव एष न भूतो न भविष्यति, हेतुभूतं कं पृच्छेयम् ॥ इत्य् उक्त्वा तूष्णीम् अभूत् ॥
ततो भगवतो रश्मिजालप्रभया गाथाम् अभाषत ॥
प्रभावविषये ह्य् एष बुद्धस्य च जगद्गुरोः ।
तस्मात् सर्वप्रयत्नेन बुद्धे भक्तिक्रियां कुरु

7.6

बुद्धं तेन विजानाहि सत्त्वानां मोक्षदायकम् ।
भवाम्भोधिनिमग्नानां क्लेशजालविमोचकम्

7.7

शरणम् अनाथबूतानां रोगशोकविनाशनम् ।
तारणं सर्वसत्त्वानां संसारदुःखसागरात्

7.8

इत्य् उक्त्वान्तर्हितो ऽभूत् ॥ अथ स धर्ममतिः श्रेष्ठी बुद्धे भगवति प्रसन्नप्रमोद्यजातेन पूजापुरःसरेण पुष्पधूपादिना पूजार्घं दत्त्वा पुष्पाञ्जलिं भगवते प्रक्षिप्तवान् ॥ ततो बुद्धानुभावेन सर्वपुष्पाणि पुष्पमण्डप इव तस्थुः । धूपो ऽभ्रकूटवत् संस्थितः सितनीलपीतहरितारुणचित्र इव शिरसि समलंकृतो ऽभूत् ॥
अथ स श्रेष्ठी बुद्धे भगवति चित्तं प्रसाद्य नमस्कारं कृत्वा बुद्धम् अनुस्मरन् सुखेन तिष्ठति ॥ ततस् तस्य श्रेष्ठिन अल्पायुत्वात् कालं गत्वा तस्य पुण्यप्रभावेन त्रायत्रिंशेषु देवेषूपपन्नः ॥ ततो दिव्यस्त्रीभिः सह मन्दाकिन्यां स्नात्वा सुखलीलया तिष्ठति ॥ ततः स्वपुण्यविपाकेन रत्नकूटागारे निषद्य स्वर्गं स्वर्गाद् भ्रमति रमित्वा क्रीडित्वा क्रमतश् च स रत्नमतीति ख्यातवान् ॥ ततश् च शक्रो देवानाम् इन्द्रः सुधर्मायां देवसभायां बुद्धस्य वर्णं भासन्तं तं ददर्श ॥
अथ शक्रो देवेन्द्रस् तं देवपुत्रं कूटागार _ _ ं सुतप्तं कुशलमूलं दृष्ट्वा च गाथया प्रत्यभाषत् ॥
गात्रं केन विमृष्टकाञ्चननिभं पद्मोत्पलाभं तव
गात्रश्रीर् अतुला कृतेयम् इह ते देहात् प्रभा निःसृता ।
वक्त्रं केन विबुद्धपद्मसदृशं चामीकराभं तव
ब्रूहि त्वं मम देवते फलम् इदं यत् कर्मजं भुज्यते

7.9

रत्नमतिदेवपुत्र उवाच ॥
सश्रावको नरादित्य आकीर्णो वरलक्षणैः ।
तत् कर्म कुशलं कृत्वा राजते ऽभ्यधिकं मम ।
जलजेन्दुविशुद्धाभ ं वदन ं कान्तदर्शनम्

7.10

शक्रः प्राह ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
यत्र न्यस्तं त्वया बीजम् इष्टं स्वर्गोपपत्तये

7.11

को नार्चयेत् प्रवरकाञ्चनराशिगौरं
बुद्धं विशुद्धकमलायतचारुनेत्रम् ।
यत्राधिकारजनितान्य् अमरेषु तस्य
रेजुः सुखानि गगणेष्व् इव पूर्णचन्द्रम्

7.12

धर्मता खलु देवपुत्रस्य अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते ॥ कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति ॥ स पश्यति मनुष्येभ्यश् च्युतः प्रणीतेषु देवेषु त्रायत्रिंसेषूपपन्नः भगवतो ऽन्तिके चित्तं प्रसाद्येति ॥
अथ तस्य देवपुत्रस्य चेतस्य् एतद् अभवत् ॥ न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रामयेयम् । इति स देवपुत्र ः सर्वाङ्गविराजितगात्रो रत्नचूडसुगन्धादिसंसृष्टदेह अनेकदेवपुत्रसहस्रपरिवृतस् तेनैव रत्नकूटागारेण सह भगवतः सकाशम् उपसंक्रान्तः । ततो भगवन्तं दिव्यपुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय ॥
अथ खलु भगवान् स देवपुत्रस्याशयानुशय ं धातु ं प्रकृतिं च ज्ञात्वा चतुरार्यसत्यप्रतिवेधिकी ं धर्मदेशना ं कृतवान् ॥ यां श्रुत्वा तस्य देवपुत्रस्य विंशतिशिखरसमुद्गत ं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम्, स दृष्टसत्यस् त्रिर् उदानम् उदानयति ॥
इदम् अस्माकं भदन्त न मात्रा न देवताभिर् न राज्ञा नेष्टजनबन्धुवर्गेण कृतम् । यद् भगवता उच्छोषिता रुधिराश्रुसमुद्रा लङ्घिता अस्थिपर्वता ः पिहिता न्य् अपायद्वाराणि विवृतानि स्वर्गद्वाराणि प्रतिस्थापिता ः स्मो देवमानुष्येष्व् इति आह च ॥
तवानुभावात् पिहितः सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः ।
अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्दः

7.13

त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः ।
प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि

7.14

नरवरेन्द्र नरामरपूजित विगतजन्मजरामरणामय ।
भवसहस्रसुदुर्लभदर्शन स फलम् अद्य मुने तव दर्शनम्

7.15

अथ स देवपुत्रो भगवतश् चरणयोः प्रणिपत्य संजातहर्सः सुरलोकाभिमुखं दिवं जगाम ॥
अथ स देवपुत्रो वणिग् इव लब्धलाभः सस्यसंपन्न इव कर्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतस् तयैव विभूत्या स्वभवनं गतः ॥
यं दृष्ट्वा संदिग्धमनसो भिक्षवो भगवन्तं पप्रच्छुः । कानि कर्माणि कृतान्य् उपचितानि सा देवपुत्रस्येदृशी विभूतिर् आसित् ॥ अवरकेण कुशलमूलेन समन्वागतः स देवपुत्र इति ॥
अथ भगवान् क्षणं तूष्णीम् आस्थाय सर्वावन्तं भिक्षुगणम् आमन्त्र्यैवम् आह ॥ भिक्षवो वः किम् आश्चर्यभूतं तद्धेतुं प्रवक्ष्यामि शृणुत ॥
उप्ते बीज्[ए] अङ्कुरः स्यात् पृथिव्यां तस्माद् वल्ली सुप्रजाता सुपुष्पा ।
बह्वी शाखा बहुपत्त्रा फलाद्या लोके तद्वज् ज्ञेयम् एवं प्रकाराः

7.16

बीज उप्ते हि वरो बीजाङ्कुरो हि महान्, यथा बीजाङ्कुरो पृथिव्याः, धरणीतलाल् लटा प्रजातान्यशेषान् महाप्रजातानां, बहुशाखापत्त्रा सपुष्पजातात्रान्तरे फलप्रसिद्धा सुबहुप्रकारात् ॥
तथा मनुष्या वरश्रेष्ठबीजं सुपात्रक्षेत्रे प्रतिरोपयन्ति ।
तदुभवो वृक्ष न नीच कश् चित् क्षयं न यान्ति सततं फलन्ति

7.17

तस्मात् कस्य चिद् भिक्षो बीजाङ्कुरं महत्तरम् ।
सर्वेषां चैव बीजानां पुण्यबीजं सुबीजकम्

7.18

तत् कस्य हेतोः ॥
भूतपूर्वं भिक्षवो ऽतीते ऽ ध्वन्य् असंख्येय कल्पैर् मल्ला नाम जनपदे कुशिनगरपत्तनवने भगवतः प्रभूतरत्नस्य तथागतस्य धातुस्तूपम् एकम् अस्ति । तस्मिन् नगरे विभवविहीनमहादीनपरमदरिद्रः शान्तमतिर् नाम श्रेष्ठी प्रतिवसति स्म ॥ तस्यानुजो विगतमतिर् नाम, तयोर् मिलित्वा ताभ्याम् अनेकयत्नेन धनार्जनं कृतं तथापि न सफलम् अभूत् । तत् कस्माद् धेतोः पूर्वकुशलदानहीनत्वात् ॥
ततः प्रभूतरत्नतथागतस्य शासने समुत्पन्नः प्रकृतिपरिशुद्धिर् नामोपासकः प्रतिवस्ति स्म ॥ स धर्मचित्तकः करुणाचित्तम् उपस्थाप्य सर्वसत्त्वेभ्यो नित्यं धर्मं देशयति ॥
तद्यथा ॥
ये के चित् पश्चिमे काले सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्य न् ति । तथागतधातुस्तूपं पूजयिष्य न् ति । तेषां सर्वकर्मभयो ऽन्तशः पैशुन्यपापका अकुशलान् दुःखधर्मान् न क्रमिष्य न् ति ॥ ये ये मानवास् तथागतधातुस्तूपं प्रदक्षिणं कुर्वन्ति पूजयन्ति स्वदोषपरिहारार्थम्, ते प्रमादाद् गम्यागम्य प्राणिवधादिदोषविलयं भवेयुः ॥
शुभानि धर्मः परिशुद्धधर्मः पूर्वाणि पापानि विशुद्धधर्मः ।
अहो हि धर्मः परमार्यधर्मः पवित्रधर्मः शुभकारिधर्मः

7.19

अथ स दरिद्रपुरुषो बुद्धस्य धर्मं श्रुत्वा प्रसादजातो नित्यम् एव धर्म ं श्रोतुं गच्छतीति ॥ तदानुजो विगतमैत्र् भ्रातरं उवाच । भ्रात आ किं तव मर्यादं व्यपहाय कार्यं धर्मश्रुतेन किम्, त्वया सह वर्तनं न सुकरं कर्तुम् , परप्रेषको भूत्वा वर्तयामीत्य् उक्त्वा स्वगृहान् निष्क्रम्य स्वच्छन्देन, अन्यस्य प्रेषको ऽभूत् ॥ अथ स दरिद्रो भ्राता वियोगे सति चित्तव्याकुलीभूत्वा तथापि स्वयम् एव मन ः प्रशान्त्य धर्मेषु चिन्तापरो व्यवस्थितः ॥ अथैकस्मिन् दिने रक्तकाषायवस्त्रपात्रधारी भिक्षुर् एको द्वारमूलेष्व् अथिष्ठत् पिण्डपात्रं याचितुम् ॥ तं दृष्ट्वा शीघ्रम् एव गृहं प्रविश्याद्राक्षीत् किं चिन् न विद्यते । आत्मनाहाराय परित् त् आनि तण्डुलान्य् एव सन्ति, स सहसा गृहीत्वा तस्मै प्रायच्छत् ॥
भिक्षुर् अपि तेन यथा दत्त ं तथा गृहीत्वा तम् उवाच ॥
दरिद्रे ऽपि च पुण्यात्मा दरिद्रे त्यागदुर्लभः ।
तस्मात् पुण्यानुभावेन दारिद्र् य् अं ते प्रणश्यतु

7.20

भद्रं भवतु ते भद्र नाशयतु अभद्रकम् ।
बुद्धे भक्तिप्रसादो ऽस्तु तेन स्वर्गोपपत्तये

7.21

इत्य् उक्त्वान्तर्हितो ऽभूत् ॥ अथ तस्य दरिद्रस्यैतद् अभवत् ।
किं कर्तव्यम् इदानीं मे हा धिग् जन्म च जीवितम् ।
विभवस्य विहीनेन मरणं शोभनं भवेत्

7.22

पुनर् अपि तस्यैतद् अभवत् ॥ प्रकृतिपरिशुद्धिनामोपासकसकाशाद् धर्म श्रुतं मे । ये के चित् पश्चिमे काले सर्षपफलमात्रं तथागतस्य शरीरधातुं पूजयिष्यन्ति, तथागतस्य धातुस्तूपं पूजयिष्यन्ति, तेषां पूर्वकर्मावरणानि क्षयो भविष्यतीति । पापक्षयत्वाच् चित्त ं परिशुध्यते, चित्तपरिशुद्धत्वाद् धर्म परिशुध्यते, धर्मपरिशुद्धत्वात् तेनैव फलं लभ्यते ॥ तथा श्रुतं मे परिशुद्धधर्मेति ॥
अथ तस्यैतद् अभवत् । तथा तथागतं पूजयेयम् इति सो ऽ पि निर्वाणं गतः । तथाप्य् अस्य धातुस्तूपम् अस्ति तम् अहं पूजयेयम् इति ॥ पुनस् तस्यैतद् अभवत् ॥
सामग्र्याच विहीनेन किंविधैर् अपि पूजयेत् ।
पुष्पं धूपस् तथा गन्धं दीपनैवेद्यम् एव च ।
एतैर् विधिं विना पूजा किं पूजाफलम् आप्यते

7.23

इति दरिद्रः समनुशोच्य तिष्ठति दीनमानसः ॥
अथ तस्य धर्मश्रुतस्य पुण्यानुकूल प्रतोदेनेव प्रचोदयति स्म ॥ तस्य मनसि एतद् अभवत् ॥ न मम प्रतिरूपं स्याद् यद् अहं तथागतधातुस्तूप उपासितव्य ः पानीयमात्रेण स्नानं कर्तव्यम् । इति मत्वा मृन्मयघतं गृहीत्वा नद्यां तीरे स्नात्वा परिशुद्धमानसो जलम् आदाय तस्मिन् स्तूपे स्नापयति स्म ॥ ततो दिनमासात्यायाद् एकस्मिन् दिने चैत्यबिम्बस्नानाय जलम् आदातुं गच्छति ॥
जलम् आदाय तदा गत्वा स्नानं चापि प्रकल्पितम् ।
तदा घटात् पतितानि रत्नानि विविधानि च

7.24

ततः स शान्तमतिस् तानि दृष्ट्वा प्रसादजातो मनसीत्य् अभूत् ॥
नमस्करोमि स्तूपाय चैत्याय धर्मधातवे ।
निर्यातयामि रत्नानि चैत्याय शुद्धचेतसा

7.25

ततः स प्रतिनिवृत्य नद्यास् तीरे प्रगच्छति ।
ददर्श स दरिद्रेण रत्नानि च समाकुला

7.26

वज्रवैडूर्यमसारमुक्तामणिक्यबाहुलम् ।
कर्केतनेन्द्रनीलादि पुष्परागादिना तथा ।
नद्याः प्रवाहं क्षोभित्वा ससार सिकतास्थले

7.27

बुद्धपुण्यानुभावेन दरिद्रेणाचिरेण च ।
प्राप्यते रत्नलाभानि स्वप्नोपमेव ईदृशा

7.28

ततः स दरिद्रस् तानि स्वेच्छया गृह्य पुनर् अपि । स्वं भवनं प्रतिनिवृत्य चिन्तयन्न् उवाच ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
सेवया स्वल्पमात्रेण प्राप्तो ऽहं सफलं पदम्

7.29

ततः स महाधनो ऽभूत् सुष्कह्रदो नीरगासरित्समूहैर् इतस् ततः प्रवेशित इव पूर्णो ऽभूत् ॥ ततः प्रभृति राज्ञा राजामात्यैर् ब्राह्मणैः संमानितः साधुभिर् लोकसंमतो ऽभूत् ॥ साधु सत्पुरुष एष लोके प्रख्यातः ॥
अथ स श्रेष्ठी उल्लासितमना हर्षसौमनस्यजातो बुद्धे चित्तं प्रसादयाम् आस ॥
ततो दिनमासात्ययात् तस्यैतद् अभवत् ॥
अहो बुद्धप्रभावो हि अचिन्त्यसंपदप्रदः ।
भिक्षा राशिषः संप्राप्ता दारिद्र्यं दुःखितं गतम्

7.30

अथ स श्रेष्ठी महता सत्कारेण स्तूपेषु रत्नमय कूटागार ं कृतम् अभूत् । नानागन्धोदकेन स्नापनं कृतं त्रिधा प्रदक्षिणीकृत्य मूर्ध्ना प्रणिपत्य साञ्जलिं च प्रणिधानं चकार । भगवन् मे जन्मान्तरे तथाविधेन तथागतेषु मनःप्रसादः सन् रत्नमयकूटागारेण सह स्वर्गे त्रायत्रिंशेष्व् उपपत्तिर् भवेयम् ॥ इत्य् उक्त्वा नित्यम् एव तस्मिन् स्तूपे पर्युपासितः ॥
अथ स श्रेष्ठी संसारिके कृतकरणीयो बुद्धे भगवति चित्तं प्रसाद्य कालगतः ॥ कालं गत्वा धर्मकोशवतिनगरे धर्ममतिश्रेष्ठिजन्म बभूव ।
महाधनो महाभोगो विस्तीर्णधनधान्यसंपन्न इहैव जन्मनि मयि प्रसाद्य भक्तितः पूजां कृतवान् । तत् सर्वं ममाग्रे वहन्ति ।
प्रादुर्भूतं जलान्य् अग्रे मुक्तावलीव शोभिता ।
पुष्पं च पुष्पकूटेव धूपो ऽभ्रकूटवत् स्थितः

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc