द्वाविंशत्यवदानकथा · अध्याय 6
अथ स भूपतीन्द्रेश स् तस्य सत्याशिषं प्रतिग्राह्यादौ प्रणम्य प्रमोदाद् गमिस्यामीत्य् आरोच्य विमानम् आरुह्य ऋद्ध्या लब्धलाभ इव वणिक् स्वगृहं प्राक्रमत् श्रीस्वम् एव राज्यम् ॥
इति द्वाविंशत्यवदानकथायां पुण्यकाम कथा पञ्चम ः परिच्छेदः ॥
वि. जीर्णोद्धारणबिम्बकथा
ततः कौतूहलजाता भिक्षवो भगवन्तम् एतद् अवोचत् ॥
भगवन् केन पुण्येन कुशलेन च कर्मणा ।
स राजात्यभिरूपो ऽयं दर्शनीयमनोहरः
कस्या नगर्याः सरूपो मानुजस्येदृशं वरम् ।
लावण्यर्द्धिसमापन्नो देवस्यापि सुदुर्लभः
भगवन् आह ॥
भिक्षवो ऽसौ महीपालो महापुण्यप्रभोज्ज्वलः ।
वैशाल्याश् च नगर्याश् च रत्नव्यूहो नृपोत्तमः
नगरी कीदृशी स्याच् च ऋद्धा स्फीतमनोरमा ।
सुभिक्षा रमणीया च सुजनैः कोविदैर् वृता
षोडशयोजनायामव्यायामं च तथैव च ।
नानोत्सवसमायुक्ता दूराद् दूरगदुर्जना
यथा पौरजनचित्तं तथा राज्ञः समं मनः ।
विशालोद्यानसंपन्ना पुष्करिणीसुशोभिता ॥
पार्श्वे तु वादिता एव पक्षिणो भृङ्गनिस्वनैः
महिषी तस्य संपन्ना शुभव्यूह ः स तत्सुतः ।
दर्शनीयो ऽभिरूपश् च पुष्पधन्वेव रूपवान्
सक्रोपचारकं सर्वं राजलक्ष्मीं च प्राप्तवान् ।
धनुर्विद्यासमायुक्तः शास्त्रविद्यासुपारगः
महर्द्धिबलसंपन्नश् चक्रवर्तिसमप्रभः ।
शास्त्रागमविधिज्ञश् च कृतकृत्यः स विज्ञवान्
ईदृशो राजरत्नेशः सर्वलोके प्रतापवान् ।
पूर्वकुशलकर्मणा प्राप्तवान् ईदृशं फलम्
मैत्रेय उवाच ॥ भगवन्न् अपरं केन कुशलमूलेन समन्वागतः स राजा ईदृशो विभूतिर् आसीत् केन कर्मणेति ॥
भगवान् आह ॥ मैत्रेय शृणु ।
भूतपूर्वं स मैत्रेय पूर्वजन्म नि नाविकः ।
नित्यं समुद्रतीरेषु वसति नाविकः स च
नागता वणिजः के चित् तस्य दुर्दैवयोगतः ।
तस्माद् दुःखी महाकष्टी तरपण्यं ग्रहणं न हि
अथ स चिन्तयाम् आस हा हा कर्म ममाधुना ।
किं कर्तव्यम् इदानीं मे न प्राप्तम् अन्नम् आदिकम्
कस्यापि ईदृशं दुःखं मा भवतु कदा चन ।
इत्य् एवं मनसा चिन्त्य जिनं स्मरन् स तिष्ठति
ततः स नाविकस् तत्र स्थातुं न रमते मनः ।
तस्मात् समुद्रतीराद् अनुचङ्क्रम्यमाने कस्मिंश् चित् स्थाने
तथागतधातुस्तूपजीर्णनातिविस्तरं चैत्यम् एकं ददर्श ॥
तं चैत्यं गोपालकाः क्रीडया पाषाणेष्टकाचर्चितभग्निता श् चैत्योदरं दृष्ट्वा विमृश्येत्य् उवाच ॥
केन पापात्मना येन चैत्यभङ्गं च यत् कृतम् ।
अशोभनम् इदं चैत्यं संस्कारं क्रियते मया
तत् संस्कारं कृतं तेन यत्र भग्नादि तत्र च ।
शीर्णचर्चितस्थानेषु शिलयेष्टाकयापि च ॥
नाविक इति कृत्वा च पूर्ववच् छोभनं कृतम्
अथ बुद्धप्रभावेन तस्मिन् काले च तत्र ये ।
त्रयःशतवणिक्पण्याश् चायान्ति तस्य संसदि
सार्थवाहसमायुक्ता नदीशोत्तरणाय च ।
वणिजस् ते तम् आहूय चैनम् ऊचुर् वणिग्जनाः
भो नाविक वयं रत्नद्वीपं गच्छामः सर्वथा ।
भवान् नेतात्र संवीक्ष्य समुद्रात् पालयत्व् अतः
इत्य् आकर्ण्य स धीवरो धीर आयव्ययं चाभिवीक्ष्य वहनं तेषां पुरतः समारोप्याह ॥
भवन्तो ऽत्र वहनेषु स्थातुम् अर्हथ संप्रति ।
स्वदेवतां स्मृत्वा धैर्यम् आलम्ब्य दृधं निवासत
ते तथेति कृत्वा त्रयःशत वाणिजा वहनं प्रणम्य च समुद्रं संप्रार्थ्य वहनम् आरुह्य क्रमेण संतर्तुम् आरब्धाः ॥
तदा प्रमुदितमानसाः सर्वे च ते वणिजो महोत्साहं प्रमोदवन्त ः ।
नियतम् अस्माकम् उत्तमयात्रासिद्धिर् इति बभूवुः ॥
ततः क्रमेण चाव ज गाहिरे विविधमीनकुलविचरिततरङ्गफेनावलीअगाढतरं समुद्रं नीलं विमलखड्गाभिनीलम् इव विगतमेघं सूर्यांशुतापाद् इव खं विलीनं समन्ततो ऽन्तर्हिततीरलेखम् अगाधम् अम्भोनिधिमध्यं क्रमेण प्राप्ताः ॥ तदा सायाह्नसमयम् अभूत्, तीरं प्राप्तुं सुदुर्लभम् ।
मृदुकिरणसवितरि काले, महोत्पातं परमभीषणं गरुत्मदाशीविषभीमम् उल्लोलम् अभूत् ॥
वि भिद्यमानोर्मिविकीर्णफेनश् चण्डानिलास्फालनभीमनादः ।
उत्पातवाताकलितैर् महद्भिर् युगान्तकालम् इव संकटो ऽभूत्
विद्युल्लतोद्भासुरलोलजिह्वा नीला भुजंगा इव नैकशीर्षा ः
आवव्रुर् आदित्यपथं पयोदाः प्रसक्तभीमस्तनितानुनादाः
ततः स नाविकः ते वाणिजा न् स्वजीवे निराशिनो भयविह्वलांश् चाभिवीक्ष्य धैर्यम् अवलम्ब्य तान् उवाच ॥ अवधीर् अ यथ मा साहसं मा भैषी मा भैषी बुद्धं स्मरथ बुद्धं स्मरथ, इति वाणिजाग्रे निवेदयति ॥ तच् छ्रुत्वा ते वाणिजा बौद्धेति नामस्मरणं नमस्कारं कृतवन्तः ॥
इत्य् उक्ते सति बुद्धानुभावेन महोत्पातः क्षणाद् विलयं गतो ऽभूत् ॥ तद् दृष्ट्वा तान् सानन्देन तीरं तारयति स्म ॥
अथ ते वाणिजास् तम् आहुः ॥ भो नाविक साधु तव प्रसादात् तीरम् अनुप्राप्तम् ॥ इत्य् उक्त्वा महता सत्कारेण बहुमानपुरःसरम् अतिशयेन तरपण्यं दत्त्वा, गच्छामेत्य् आरोच्य ततः संक्रामन्ति स्म ॥ नाविकस् तान् समादाय ( दक्: 34 ) वहनम् आरोप्य प्रतिनिवृत्य स्थितः ॥ तदा नाविकस् तरपण्यकार्षापणं संप्राप्य वस्त्रान्नपानसुसमृद्धः सुखेन तिष्ठति ॥
भूतपूर्वं भिक्षवः स रत्नव्यूहो नाविकजन्मनि तथागतधातुस्तूपजीर्णोद्धारणकुशलमूलेन तस्य राज्ञ ईदृशं रूपम् मनुष्यातिक्रान्तम् ऋद्धिप्रतिभानं प्राप्तम् ॥
अथ भिक्षव ऊचुः ॥ भगवन् साधु सुगत प्रबोधा वयं स राजा श्लाघनीयः, पुनस् तस्य कीदृशं प्रतिभानं वद ॥
भगवान् आह ॥ भिक्षवः स राजा धर्मेण राज्यं कारयति । सर्वपौरान् परिपालयति पितेव पुत्रं सर्वलोकाः कीर्तियशःशब्दं शृण्वन्ति ॥ यथान्यायं कृतं कार्यं दानं अर्थिभ्यो दत्तवान् अन्नम् अन्नार्थिकेभ्यः पानं पानार्थिकेभ्यो वस्त्रं वस्त्रार्थिकेभ्य इत्थं भिक्षवः स राजा स्वराज्यविषये सहस्राक्ष इव स्वस्त्ययनं कृतवान् ॥
ततः स राजा एकस्मिन् समये सर्वं संनिपात्य सभां कारितवान् ॥
सदसि तस्य नृपतेर् भिक्षुर् एकः समागतः ।
दुःशीलदुष्कृतेनैव कुष्ठाविष्टेन खञ्जकः
बीभत्सरूपदुर्गन्धमलिनवस्त्रप्रावृतः ।
निन्दायाः सर्वलोकेषु वाक्सिद्धिश् च न विद्यते
तं दृष्ट्वाथ स राजापि विचार्यैनं प्रपृच्छति ।
कस्माद् अत्रागतो भिक्षो कथं ते पादखञ्जकः
भिक्षुर् उवाच ॥
अनेन किं महाराज मम दुष्कृतकर्मणा ।
बाल्ये सपादखञ्जो मे कुष्ठाविष्टशरीरकः
राजोवाच ॥
प्रव्रज्याग्रहणेनापि कथम् इत्थं शरीरकः ।
न दण्डपात्रं न च चीवरं ते
नाम्नैव _ भिक्षुर् इहागतस् त्वम्
भिक्षुर् उवाच ॥
कथं हि वेद्मि नरराजराज न दण्डपात्रं न च चीवरं मे ।
अभाग्य एवं कुशलैर् विहीनः कृपां कुरु त्वं नरदेवदेव
राजोवाच ॥ भिक्षो दक्षिणीयो यशसा सुशीलो भव शीलयुक्तेनानुचर । इत्य् उक्त्वा स राजा दण्डपात्रचीवरादिकं दत्त्वा महता सत्कारेण भोजयति स्म ॥ ततो भिक्षो राजसंदर्शनमात्रेण खञ्जपादस्नायु नः कोमलाङ्गो जातो ऽभूत् ॥
क्रमतः कुष्ठादि विलयं गतम् । किंचिच्छेषमात्रो ना स्ति ॥ ततः स भिक्षुस् तस्मात् स्थानाद् अन्यप्रदेशं गतवान् ॥
ततः सर्वे जनाश् चाश्चर्यप्राप्ता एवम् आहुः ॥ अहो महाराजः पुण्यवान् धर्मनिधानभूतः, तेन दर्शनमात्रेण तस्य भिक्षोः कुष्ठादिपादखञ्जप्रश्रब्धो ऽभूत् ॥ तदा राजानुविचिन्तयति ॥ किंहेतुर् माया भूतो वा तस्य भिक्षोः, मम विस्मयः प्राप्तवान् ॥
मैत्रेय उवाच ॥ भगवन् कथं हेतुभूतः स भिक्षुस् तस्मिन् माययावागताः ॥
भगवान् आह ॥
शृणु मैत्रेय तस्येदृग् निमित्तं कथयामि ते ।
न मायया स्वभाविकैः स भिक्षुर् याचितुं गतः
किं तु भिक्षव एतेन भिक्षुर् दर्शनमात्रकैः ।
पादखञ्जविनिर्मुक्त इत्थं धर्मतनुर् नृपः
ततो हि भिक्षवो ऽवोचन् परमाश्चर्यम् अद्भुतम् ।
भिक्षुभावे स्थितो वापि पादखञ्जम् अभूत् कथम्
राजापि न देवभूतो न च ऋषिसिद्धराक्षसः ।
मनुष्यभूतो राजापि कथं प्रतिभानाम् ईदृशम्
भगवान् उवाच ॥
मात्रपकारिः स भिक्षुः श्रोतुम् इच्छसि तत्कथाम् ।
कथयाम्य् अस्य वृत्तान्तं शृणुथ भिक्षुपुङ्गवाः
ये मानवाः प्रमादेन मात्रपकारम् आचरन् ।
ब्रह्मभूतो हि पितरौ देवदेवस् तथा पुनः ॥
तस्मात् कारणान् मा खेदं कारायेत् पितराव् अपि
ये कुलेषु मातापितरौ सम्यक् मान्यते सम्यक् पूज्यते सम्यक् सुखेन परिह्रियते ॥ अथवान्नेन पानेन वस्त्रशय्यासनेन च तया सपरिचर्यया मातापित्रोश् चानिन्दितेन सत्कारं कर्तव्यम् ॥ तत् कस्य हेतोः ॥
चन्द्रानना ः प्रवरदेहविशालनेत्रा बालार्कतुल्यवपुषः शुभकीर्तियुक्ताः ।
राज्यं नरा विगतशत्रुभयं लभन्ते सर्वं हि तत् स्वगुरुमातृजनेषु दानात्
भिक्षोस् तस्य पूर्वचरितानि श्रूयतां कथ् अय् आम् इ ॥
भूतपूर्वं भिक्षवः कावेरी नाम नगरम् आसीत् । तस्मिन् नगरे स पूर्वकुशलदानहीनात् परमदारिद्र ः कुशीदो नाम श्रेष्ठी प्रतिवसति स्म ॥
तस्य द्वौ पुत्राव् अस्ति । एको बालश् चैको दहरः । तदा पितरि कालगते, दहरपुत्रेण मातरं विद्वेषितः । नित्यं क्रोधेन परुषवचनेन वाचयति ॥
चान्नपान ं परीतमात्रं दत्त्वात्मना भक्षितं सदा ॥ तदा माता मनसि व्यथया तया पुत्रम् उवाच ॥ पुत्र ते किं कृतं तवानुजबालो ऽजानकः स्तन्यं पिबत्य् अल्पान्नेन कथं वर्तयिष्ये ॥ तच् छ्रुत्वा तेन मातुर् ईर्ष्यया क्रोधेन मातरं पादेन पृष्ट्वा निर्गत ं वचन म् आः किम् ॥ तथापि मातुर् हृदये दुःखशल्यो ऽपि स्वयं प्रशान्त्य चोक्ता । मा मे पुत्रकास्य कर्मणो विपाकम् अनुभवेथा इति चिन्त्य स्थिता ॥
अथ स श्रेष्ठिपुत्रो रोषणप्रश्रब्धाभूतत्वात् सरोषेण तां मातरम् उवाच ॥ रे रे मात मा तिष्ठ अत्र मे गृहे, यत्रेप्सितं तत्र गच्छेति ॥ माता उवाच ॥
कुत्र गन्तव्य मे पुत्र को ऽपराधो ऽस्ति मे सुत ।
मा वदसीदृशं वाचं मा क्रोधं सहसा व्रज
ततः स दहरपुत्रेण मातुर् वचनम् अवचनं कृत्वा स्वाधीनेनावस्थितः ॥ अथ स तस्य माता कनिष्ठपुत्रं प्रतिपाल्य तिष्ठति ॥
तदनन्तरं तस्य दहरपुत्रस्य गृहाचारकाविप्रहीनभूतत्वात् महत् कष्टतरं दुःखम् अभूत् ॥ तस्य पादे विकारो भूत्वा कुष्ठाविष्टखञ्जपादो भवति ॥ किं चित् कार्यकर्माणि न सुकरा णि कर्तुम् ॥ अशक्तत्वात् क्रमेण स्वदुष्कृतानि कर्माणि परिवेष्ट्य दरिद्रो भवति ॥
ततो विषयहीनत्वात् सन्मतिहीनम् एव च ।
आस्वस्थ्यम् अग्निदाहेनेव दुःखम् एव प्राप्तवान्
अथ स चिन्तयाम् आस, हा हा कष्टतरं मम ।
अधुना किं करिष्यामि कुत्र गच्छाम्य् अहं नु भो
किं चिद् अपि भिक्षुर् अहं भवेयम् इति वक्ष्यामि, इत्य् उक्त्वा व्रीडया तेन मातरं न संभाष्य स्वगृहात् प्रक्रान्तः ॥ ततो पक्षत्रयात्ययेन स कालगतो ऽभूत् ॥
ततो मातर्य् अपकारकृतेन कर्मणो विपाकेन नरकेषूपपन्नः ॥ ततो यमदूताः परिगृह्यान्यनरकेषु क्षिपन्ति ॥ तस्माद् उत्क्षिप्य अयोगृहसमीपे नीयन्ते परमविस्तरमहोच्छ्रय स मातुर् अपकारी द्वारात् प्रेष्यते ॥
ततो ऽभ्यन्तरं प्रविष्टः । तत्रास्य द्वारं पिहितम् । ततो ऽभ्यन्तरं प्रविष्टः प्रविष्टमात्रेण तस्य मस्तके ऽयोमयम् चक्रं महाप्रमाणं तस्य मूर्ध्नि प्रादुर्भूतम् ॥ द्वारकपाट ं पिहितम् । तस्मात् पापाद् आदीप्तं चक्रं भ्रमति संप्रज्वलितम् एकज्वालीभूतम् । तस्य शिरसि यत् पूयशोणितं प्रसरति, सो ऽस्याहारः ॥ ततः स कथयति ॥
अहो हि वेदना कष्टं केनैव दुष्कृतेन च ।
मे रक्षकजन ः कश् चिद् आगच्छति त्व् उदीरितः
दूरं हि कर्षते कर्म दूरात् कर्म प्रवर्तते ।
तत्र प्रकर्षते कर्म यत्र कर्म विपच्यते
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्
तेन कर्मविपाकेन चक्रं वहति मस्तके ।
आदीप्तं संप्रज्वलितं मम प्राणोपरोधकम्
इति ॥
अथ तस्मिन् गृहे आकाशाच् छब्दो निर्गतः ॥
कस् त्वां रक्षति दुष्टत्वं पापिनं मातृदूषिणम् ।
त्वद्विध आगते चात्र तस्माद् दुःखात् प्रमुच्यते
तदनन्तरं शतवर्षपर्यन्ते तथाविधपुरुषस् तस्मिन्न् अयोमयगृहं समागतः, प्रविष्टमात्रेण तस्माच् च्युत्वा तस्य नवागतपुरुषस्य मूर्ध्नि चक्रं प्रादुर्भूतम् ॥
स कुशीदस्य पुत्रस् तस्मान् नरकान् मुक्त्वा पुनर् एव दरिद्रकुले जातः । तत्रैव मातापितरौ कालगतौ, कालगते सति एकाकीभूतः पुनर् एव पापशेषं न नश्यति पादखञ्जकुष्ठाविष्टो भवति ॥ इहैव जन्मनि याचको भूत्वा भिक्षुर् अहम् इति वक्ष्यामीति चिन्तयित्वा स्वगृहात् प्रक्रान्तः ॥
एवं भिक्षवः स दुःशीलभिक्षुस् तेन मातृदोषेण पातकेन कुष्ठाविष्टपादखञ्जो भवति । मायया नैव तस्य कर्मविपाकेन भवति ॥
अथ तस्य भ्राता दहरानुजो भूत्वा मातरं सम्यग् मानितः पूजितः सम्यक् परिह्रियते स्म ॥ तेन पिण्डप्रदानकृतेन पितृलोकान् संतर्पितः ॥ तस्य पुण्यानुभावेन महति राजवंशे रत्नव्यूहस्य नृपतेः पुत्रो भूत्वा स शुभव्यूहराजकुमार आसीत् ॥ तस्मात् तर्हि भिक्षवो येषां मातापितृष्व् अपकारं मनसापि मा चिन्तयेद् इति ॥ एवम् उक्ते स मैत्रेयः संहर्षितरोमकूपजातो भगवन्तम् एतद् अवोचत् ॥ प्रब् धो ऽहं भगवन् प्रबोधो ऽहं सुगत । ईदृक्पापरतेन, इत्थम् अनुभूतम् । केनोपायेन यत्नेन तस्य भिक्षोः पातकक्षयो भवति ॥
भगवान् आह ॥ येषां मनुष्याणाम् इहैव संसारे यतश् च्युत्वा मातुः कुक्षाव् उपपन्न ः सा माता दशमासपर्यन्तं धृत्वा कष्टेन प्रसूता स्तन्यपानेन प्रतिपालयति । ईदृशीमातरि अपकारकृते दुष्करकृतैर् न च मुच्यते ॥
अथ पुनर् अपि भगवान् आह ॥ मैत्रेय रत्नव्यूहो नाम भूपाल ः परमपुण्यवान् स पुनर् अपि कस्मिंश् चिद् दिने चिन्तयाम् आस ॥
अहं वृद्धो ऽतिजीर्णाङ्गः स्थास्याम्य् एव कियच् चिरम् ।
अवश्यं दैवयोगेन यास्यामि मरणं ध्रुवम्
सर्वम् अनर्थं राज्यं विषयोपभोग्यं महाघोरभयकरं मृत्युसर्पभयाकुलम् अनित्यम् असारकम् इति विचिन्त्यागार अध्यावसितुं मनो न रमते ॥ तदा स राजपुत्रं शुभव्यूहं च मन्त्रिणं समामन्त्र्यैवम् आह ॥
पुत्र शुभव्यूह
अत्राहं जरसाक्रान्तो नूनं स्याज् जीर्णितेन्द्रियः ।
तदा रोगाभिभूतो ऽपि व्रजेयं मरणं ध्रुवम्
तत् प्रव्रजितुम् इच्छामि श्रेयः श्लाघ्येन वर्त्मना ।
पुरा मृत्यू रिपुं हन्ति गृहसंरक्तम् एव वा
तस्मात् संसारभीतान् मे बहुधा भयशङ्कया ।
नात्र स्थातुं मनो रम्य गच्छामि बुद्धम् आश्रयम्
भो पुत्र शुभव्यूह मम पूर्वपुण्यानुभावेन गौतमेन शौद्धोदनेन मह्यं व्याकरोति । अचिरेण तथागतो भविष्यसि तेन प्रबोधितः । अहम् एव बुद्धो भवेयम्म्, पश्चिमायां चम्पकवर्णायां लोकधातौ बुद्धक्षेत्रम् एकम् अस्ति , तत्र गच्छामीति ॥
तस्मान् मया यथा प्रोक्तं तथा चरितुम् अर्हसि ।
प्रजानां पालनं कृत्वा धर्मनीत्या ं समाचर
लोकान् मा खेदयेत् तापैः कुलधर्मे समाचर ।
परेष्व् अपि दयायुक्तैर् दानं हि श्रद्धया कुरु
प्राणातिपातादत्तादानकाममिथ्यादि मा कुरु ।
मा मृषावादपैशुन्यं पारुष्यं भिन्नम् एव च
माभिध्याव्यापाददोषैर् मिथ्यादृष्ट्यादि संत्यज ।
एतानि तानि सर्वानि धारय दृढचेतसा
पापानां मूल एषो हि सुगतेनेति देशितः ।
इत्थं कृते ऽपि नृपतेर् ईतिर् न च भविष्यति
अद्यारभ्यासि सर्वेषां लोकानाम् अधिपः प्रभुः ।
सर्वधर्मानुशास्ता च सर्वसत्त्वहितार्थभृत्
तत् कस्माद् धेतोः ॥
धर्मेण वर्धते राज् य् अं धर्मेण वर्धते धनम् ।
धर्मेण धन साध्यन्ते धर्मेण कामसिद्धयः ।
कामसिद्धेन मोक्षं च प्राप्यते नात्र संशयः
अनेन ज्ञानमार्गेण शशास नृपतिः सुतम् ।
ज्ञानाङ्कुशभयेनैव कुञ्चितः स गजो यथा
ननाम पितरं तेन श्रुत्वा वाक्यं वचोऽमृतम् ।
धृत्वाज्ञाते यथा तात प्रजानां प्रतिपालने
इति प्रशास्य ततो भूपो रत्नव्यूहो महामतिः ।
प्रबोध्य पुत्रपत्न्यादीन् बुद्धक्षेत्रं ययौ मुदा
शृणु मैत्रेय पुनर् भूपमार्गाणां गमनकथाम् ।
ददर्श भूपतिर् जीर्णप्रणाली ं मार्गको ऽथ सः
प्रवाहितं न पानीयं तद्दर्शनेन वाहितम् ।
प्राक् न प्रवाहितं केन, इदानीं तु प्रवाहितम्
आश्चर्येति स्थिते भूप आकाशाद् एनम् ऊचिवान् ।
पुण्यवांस् त्वं महाराज त्वत्प्रभावात् प्रवाहितम्
भग्नभूता प्रणालीयं नूनम् अभ्यन्तरे यतः ।
त्वं तु धर्मतनुर् एवं जानीहि किल भूपते
राजोवाच ॥ न ज्ञातो ऽहम् एव च ॥
तस्मात् प्रचरितो राजा वनखण्डं महत्तरम् ।
तत्रानुप्राप्तवान् दृष्टं फलपुष्पमहिरुहान्
तदन्यवृक्ष एक स् तु मूलोत्पात्यैव स्थितो यदा ।
भूपतिदृष्टमात्रेण पूर्ववद् उत्थितागतः
तदाकाशाद् उवाचैनं श्लाघनीयो हि भूपते ।
पादपो ऽयम् अचैतन्य उत्थितः सन् हि चागतः
राजोवाच ॥ न ज्ञातो ऽहम् एव तु ॥
तदनन्तरमार्गेषु ब्राह्मणास् त्रय आगताः ।
कुष्ठाविष्टविहीनाक्षी, आस्वास्थ्यवपुषुः सदा
तान् दृष्ट्वा स च भूपालो विचार्यैनान् अपृच्छत ।
ब्राह्मणाः कुत्र गन्तारः कतमभूम्या इहागताः
ब्राह्मणा ऊचुः ॥
कुशलं ते महाराजरत्नव्यूहेति विश्रुतः ।
नान्यत् तु कार्यम् अस्माकं गच्छामस् तत्र राजनि
स राजदृष्टमात्रेण हीनाक्षिः प्राप्तचक्षुषः ।
शुभाङ्गा भवन्ति पुष्टाङ्गा मुञ्चन्ति पापराशयः
ततः सखा ब्राह्मण उवाच ॥
अहो ऽत्याश्चर्यप्राप्तो ऽहं सखे किं केन हेतुना ।
चक्षुर्विहीनेन पुनश् चक्षुः प्राप्तं त्वयाधुना
प्रत्यङ्गकुष्ठसङ्गस् त्वं शुभाङ्गो भवते पुनः ।
अनेन पुरुषेनैव दृष्टमात्रेण मुञ्चति ।
सखे तथा विकाराङ्गः शुभाङ्गो भूयते ऽद्य हि
सांनिध्यं कुरुतेदानीं पृच्छामैनं वयं सखे ।
हेतुभूतम् अयं स त्वं न च प्रादेशिकः पुमान्
कस्माद् आगतस् त्वं भो भवन् किं पुरुषर्षभः ।
पुण्येनोपचितात्मा ते श्रियाभिः प्रभवोज्ज्वलः
राजोवाच ॥
ब्राह्मणा ः किं न जानीथ रत्नव्यूहेति विश्रुतः ।
कथम् इत्थाम् अहं भद्र तत्र गच्छामि सांप्रतम्
तदा ब्राह्मणाः प्रीतिप्रमोद्यसौमनस्यजातास् तस्मै राज्ञे आशीर्वाणीम् अब्रुवन् ॥
जयो भवतु भूपेन्द्र त्वया यन् मनसेप्सितम् ।
तत् सर्वं प्राप्तम् अस्त्व् ईति पुण्यश्रियासुशोभन
ब्राह्मणास् तथास्तु मे, इत्य् उक्त्वा स सत्कारविशेषैः पूजयित्वा विसर्जयति स्म ॥ ततो ब्राह्मणाः प्रसादप्रतिलब्धाः स्वम् आश्रमं प्रक्रान्ता अभूवन् ॥ मैत्रेय आह ॥
केन पापैर् भवेत् काणः कुष्ठाविष्टः कथं भवेत् ।
इत्थंभूतद्विजाप्यैव, अहो कष्टं नरस्य च
मैत्रेयेण तथा पृष्टो भगवान् आह तं पुनः ॥
दृष्टम् अदृष्टम् उक्तं ते मिथ्यया शपथं कृतम् ।
चक्षुहीनो ऽभवत् तेन स्वार्थी न परकार्यकृत्
राजकार्ये धनं हृत्वा भाण्डागारीकृतो द्विजः ।
किं चिद् दत्त्वा परस्यैव स्वगृहे नीयते पुनः
तेन कर्मविपाकेन कुष्ठाविष्टतनुर् द्विजः ।
यत् कृतं कर्म पाकेन तत्फलम् अश्नुते तथा
मैत्रेय उवाच ॥ प्रबुद्धो ऽहं भगवन् प्रबुद्धो ऽहं सुगत ॥
अथ स राजा चम्पकवर्णायां लोकधातौ बुद्धक्षेत्रं प्राप्तवान् । तत्र बुद्धक्षेत्रे विमलप्रभा नाम चैत्य ं मनोरमदर्शनीयप्रासादिकं दृष्ट्वा परमप्रीतमनास् तस्याश्रमम् उपाश्रितवान् ॥ पर्यङ्कम् आभु ज् य, ऋजुकायं प्रणिधाय ध्यानारामे स्थितः । ततस् तत्क्षणं पञ्चाभिज्ञत्वं प्राप्तह्, क्रमेण रत्नाकरो नाम तथागतो ऽर्हन् प्राप्तो ऽभूत् ॥
मैत्रेय उवाच ॥ भगवम्ष् तथागतधातुस्तूपजीर्णोद्धारणानां कीदृशं फलम् ॥
तथागतस्तूपबिंबानां स्थापनानां यतः कथम् ।
कीदृशं स्यात् फलं तेषां तत् सर्वं देशय प्रभो
भगवान् आह ॥
आढ्यो निर्नष्टशोकः क्षतसकलकलि र् लोचनानन्दपात्रं
सौभाग्यश्रीनिधानं समुपचितबलो कान्तगात्रो यशस्वी ।
तेजस्वी कान्तरूपः प्रवचनचतुरो दान्तसर्वेन्द्रियाङ्गो
ऽव्यग्रो धीमान् प्रदाता भवति भगवतो बुद्धबिम्बं विधाय
यावन्तः परमाणवो भगवतः स्तूपेषु बिम्बेषु वा
तत्कर्तुर् दिवि भूतले च नियतं तावन्ति राज्यान्य् अपि ।
रूपारूप्यसमाधिसंपद् अखिलं भुक्त्वा च सर्वं सुखम्
अन्ते जन्मजराविपत्तिरहितं प्राप्नोति बौद्धं पदम्
द्वात्रिंशता भूषितचारुगात्रः सल्लक्षणैर् लक्षितचक्रवर्ती ।
भवेज् जिनो ऽ न्ते जितदोषशत्रुस् ताथागतीं यः प्रतिमां विधत्ते
इन्द्रियाणाम् अवैकल्यं स्त्रीत्वदुर्गतिदूरता ।
जन्म मानुष्यकं वंश उच्चैर् आदेयवाक्यता
जाति ः श्रुतिः स्मृतिर् धैर्यम् अभिवाञ्चितसंपदः ।
स्थानेष्व् अभिनिवेशश् च रागादिभिर् अबाधना
संबोधिर् इति जायन्ते विशेषाः साधुसंमताः ।
विधाय बुद्धप्रतिमां स्तूपं वा प्राणिनां मुदा
न याति दास्यं न दरिद्रभावं न प्रेष्यतां नापि च हीनजन्म ।
न चापि वैकल्यम् इहेन्द्रियाणां यो लोकनाथप्रतिमां करोति
एतत् संक्षेपतः पुण्यं ज्ञातव्यं चैत्यकर्मसु ।
न शक्यते जिनैः सर्वैर् वक्तुं सर्वं मया कथम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0