द्वाविंशत्यवदानकथा · अध्याय 5
इति द्वाविंशत्यवदानकथायां दानकथा चतुर्थः परिच्छेदः ॥
व्. पुण्यकामकथा
यद् दृश्यते जगति चारुतरं प्रियं वा रूपं कुलं प्रियजनो विभवाः सुखं वा ।
तत् पुण्यशिल्पिकृतम् एव वदन्ति सन्तः कल्याणकारिपुरुषस्य तु पुण्यम् एतत्
अत्युच्छ्रितोन्नतसितध्वजप ङ् क्तिचित्रैर् नागाश्वपत्तिरथसंकुषुभितैर् बलौघैः ।
उद्धूतचामरविराजितगात्रशोभाः पुण्याधिकाः क्षितिभुजो भुवि संचरन्ति
कौशेयकाशिकदुकूलविचित्रवस्त्रा मुक्तावलीकनकरत्नविभूषिताङ्गाः ।
यत् के चिद् एव पुरुषाः श्रियम् उद्वहन्ति पुण्यस्य पूर्वचरितस्य कृतप्रशंसा
आयुः सुदीर्घं सुकुले च जन्म कान्तं वपुर् व्याधिभयं न चास्ति ।
धनं प्रभूतं परिवारसंपद् भवन्ति पुण्यस्य महाविपाकात्
यच् चक्रवर्ती प्रवरैस् तु रत्नैः सहस्रपुत्रैश् च समन्वितो ऽपि
समुद्रसीमां बुभुजे धरित्रीं तत् पुण्यरत्नस्य फलं विशालम्
विचित्रपद्मोत्तममध्यसंस्थितः सुरासुरेन्द्रादिसदानमस्कृतः ।
यद् ब्रह्मलोकं त्व् अभिभूय तेजसा ब्रह्मा सदा भाति तद् एव पुण्यतः
यद् देवनागासुरसिद्धसंघैर् गन्धर्वयक्षोत्तमकिन्नरैश् च ।
संपूज्यते देवगुरुः सदैव तत् पुण्यरत्नस्य फलं विशालम्
रूपं वीर्यं च शिल्पं च विहाय विवशा नराः ।
परलोकम् इतो यान्ति कर्मवायुभिर् ईरिताः
पुण्यं त्व् एकम् इहात्यन्तम् अनुगामि सुखोदयम् ।
पुण्यम् अन्यैर् अहार्यत्वाद् धनानां परमं धनम्
ये मेरुम् अपि वेगेन विकिरन्ति दिशो दश ।
ते ऽपि पुण्यस्य भङ्गाय नालं प्रलयवायवः
संवर्तसलिलोद्वृत्तनिरङ्कुशविसर्पिणा ।
पुण्यं न क्लेदम् आयाति चतुःसागरवारिणा
प्रदीप्तकिरणाङ्गारैः सप्तभिर् भास्करानलैः ।
क्षितौ वा दह्यमानायां पुण्यम् एकं न दह्यते
इति श्रुत्वाथ मैत्रेयः सत्यम् एव मुनेर् वचः ।
भीतिसंसारदुर्वार ः संहर्षिततनुरुहः
ततः स मैत्रेयो हर्षैः श्रुत्वाथ वचनं मुनेः ।
जिनपादाम्बुज ं नत्वा इदम् आह तथागतम्
स्थापनं बुद्धबिम्बानां जीर्णोद्धारादिकं पुनः ।
कीदृशं स्यात् फलं तेषां चैत्यानां जिनधातुकाम्
भगवान् आह ॥
जीर्णोद्धारक स्तूपानां बिम्बानां सुगतस्य च ।
ऋद्धिबलसमायुक्तश् चक्रवर्तिसमो भवेत्
पुण्यवान् बलवान् भूत्वा न तस्य विकलेन्द्रियः ।
ततश् चान्ते सुखं भुक्त्वा संबुद्धत्वं प्रजायते
मैत्रेय आह ॥
भगवञ् जिनशार्दूल साधु श्लाघ्यो ऽसि यद् विभो ।
केन चित् कृतम् अस्तीति वद मे ज्ञानसागर
एवम् उक्ते ऽथ भगवा ं ल् लोकानां विस्मयाय च ।
निमित्तम् एकम् अकरोत् तूष्णी ं भूत्वात्र तिष्ठति
तदा विद्युद् इवाकाशाद् आगतः किरणोज्ज्वलः ।
अवभास्य सभां सर्वांस् तेषां कौतूहलम् अभूत्
मैत्रेय आह ॥
भगवन्न् इदम् आश्चर्य ं को हेतुर् इदम् अद्भुतम् ।
कस्यैष विषयाभास आगतः किरणोज्ज्वलः
भगवान् आह ॥
मैत्रेय रत्नव्यूहस्य विमानस्य नृपस्य च ।
प्रभा आगत्य सर्वत्र भासयन्ति समन्ततः
मैत्रेय आह ॥
भगवन् नूनम् अस्येयं प्रभयागतम् ईदृशम् ।
केनेदृशप्रभां प्राप्तो हेतुभूतं च मे हृदि
भगवान् आह ॥
अत्रेदानीन् तु मैत्रेय दर्शयिष्याम्य् अमुं नृपम् ।
पूर्वस्य कुशलेनापि प्रभावो ऽस्य महर्द्धिकः
अथ स राजा रत्नव्यूहो रत्नविमानम् आरुह्य गगनदेशाद् ऋद्ध्या येन भगवांस् तेनोपसंक्रान्त उपसंक्रम्य सहसा तत्रानुप्राप्तो ऽभूत् ॥
अथ स राजा भगवन्तं द्वात्रिंशता लक्षणैः समन्वागतं सुवर्णवर्णं सूर्यसहस्रातिरेकप्रभाविराजितगात्रं भगवन्तं दृष्ट्वा प्रसादजातो विमानाद् अवतीर्य त्रिप्रदक्षिणीकृत्य भगवतः पादयोः प्रणिपत्यैकान्ते स्थितवान् ॥
अथ पप्रच्छ भगवाञ् जानन्न् एव नृपागमम् ।
कुशलं तव राजेन्द्र बाह्याभ्यन्तरम् एव च
वदेति त्वं महाभाग संगतं धर्मवत्सलः ।
मोक्षदं नृपशार्दूल हितैषी सत्त्ववल्लभः
अथ सो ऽञ्जलिम् आबध्य कृत्वा प्रदक्षिणत्रयम् ।
निवेद्य चोपहाराणि प्रणम्योवाच तं गुरुम्
एवं विचिन्त्यमानस्य भगवन् कुशलं त्वया ।
श्रेयो ऽर्थिना मे सर्वत्र गुरुणैवान्त्यवासिनः
नान्यकार्यं मे भगवन् तत् तव दर्शनेच्छया ।
श्रवणाय सदा धर्मं तेनाहम् इह आगतः
भगवान् आह ॥
देशयिष्यामि ते सम्यक् त्वम् असि नृपसत्तम ।
धर्माणां नीतिभूतानां भाजनत्वं महीभुज
शृणु राजन् महाबाहो राज्ञां धर्मवरोत्तमम् ।
राजधर्मबलं रक्ष नीतिमार्गं समाचर
तद्यथा ॥
यथैव वृक्षं फलिनं सपुष्पं सण्रक्षयेत् पौरजनान् अजस्रम् ।
आधारभूतान् नृपतेश् च नित्यं भूपाल इत्थं कुरु सर्वतः स्यात्
फलोदयं पाकवशाद् यथैव गुणो ऽस्ति स्वादं च रसं तथैव ।
बलो जयश्री न भवेन् नरेश इत्थं पि ते च प्रबलो जनानाम्
पुनश् च शृणु महाराज[न्] ॥
पापे प्रवर्तते बालो जन ः शून्यं विलोकयन् ।
रात्रौ घनान्धकारायां कालो ऽयं पापकर्मणः
कृतात्मानो ऽभिसन्त्य् एव मुनयो दिव्यचक्षुषः ।
क्व चित् किं चन शून्यं वा दिक्षु पूर्णास् तपोधनैः
ततस् त् x x निरतात्मा भव भूमिपसत्तम ।
वरं कपालम् आदाय द्विषद्वेश्मनिवेशन
पापकारी सुखेच्छश् च यत्र यत्राभिगच्छति ।
तत्र तत्रैव तत्पापैर् दुःखशस्त्रैर् विहन्यते
मनोरथः शुभकृतां यत्र यत्रैव गच्छति ।
तत्र तरापि तत्पुण्यैः फलार्घेणाभिपूज्यते
तस्मात् सर्वं प्रयत्नेन त्यक्तव्यं पापसंचयम् ।
निर्जित्य द्वेषसंरम्भं शुभे कर्म समाचर
न च द्वेषसमं पापं न च क्षान्तिसमं तपः ।
तस्मात् क्षान्तिं प्रयत्नेन भावये द् विविधैर् नयैः
मनः शमं न गृह्णाति न प्रीतिसुखम् अश्नुते ।
न निद्रां न धृतिं याति द्वेषशल्ये हृदि स्थिते
न द्विषन्तः क्षयं यान्ति दुर्जना गगनोपमाः ।
मारिते क्रोधचित्ते तु नश्य न् ते सर्वशत्रवः
विकल्पेन्धनदीप्तेन जन्तुः क्रोधहविर्भुजा ।
दहत्य् आत्मानम् एवादौ परं धक्ष्यति वा न वा
जरा रूपवतां क्रोधः तमश् चक्षुष्मताम् अपि ।
वधो धर्मार्थकामानां तस्मात् क्रोधं निवारयेत्
अनिष्टकरणाज् जातम् इष्टस्य च विघातनात् ।
क्रोधं यो हन्ति निर्बन्धात् स सुखीह परत्र च
तस्माद् द्वेषं विनिर्जित्य चित्तं रक्ष प्रयत्नतः ।
न शिक्षा रक्षितुं शक्या चलं चित्तम् अरक्षता
अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम् ।
करोति याम् अवीच्यादौ मुक्त श् चित्तमतङ्गजः
बद्धश् चेच् चित्तमातङ्गः स्मृतिरज्ज्वा समन्ततः ।
भयम् अस्तंगतं सर्वं सर्वकल्याणम् आगतम्
तस्माच् चित्तं समाधाय स्मृत्वा रक्ष प्रयत्नतः ।
चित्ताद् एव हि सर्वत्र भयं भद्रं च जायते
चित्तरक्षाव्रतं त्यक्त्वा किम् अन्यैर् बहुभिर् व्रतैः ।
एवं बुद्ध्वा सदा राजन् धर्मेण पालय प्रजाः
पुनश् च महाराज ॥
यो ऽसौ द्रुमो दामफलं चिनोति न विन्दति स्वादु च हन्ति बीजम् ।
क्षिणोति देशं करदुर्वहत्वात् धर्मं नृपो वै न च नन्दतीति
तस्माद् अनीत्या न दण्डयेत् प्रजा न्यायेन राज्यं प्रतिपालयस्व ।
नृपाश् च येषां गुणम् आवहन्ति तेषां प्रजानां प्रवहन्ति दुःखम्
पुनश् च महाराज ॥
स्वदुःखदुःखी परदुःखतो ऽपि सुखी स्वसौख्यैश् च परैः समान म् ।
इत्थं नृपा ये सततं भवन्ति राज्ञां सदा सर्वगुणा भवन्ति
धर्मेण राज्यं परिपूरयन्ति धर्मेण लक्ष्मीः सततं वहन्ति ।
धर्मेण लोकान् परितर्पयन्ति धर्मेण कामान् सहसा लभन्ते
पुनश् च ॥
दानेन भोगा न परोपतापान् नाज्ञानमोहात् परलोकवन्तः ।
परप्रतापाद् यद् इहैव भोगास् ते प्राप्नुवन्ते परलोकदुःखाः
आत्मा नदी भारत पुण्यतीर्था सत्योदका शीलतटा दयोर्मिः ।
अत्राभिषेकं कुरुते प्रवीण न वारिणा शुध्यति चान्तरात्मा
सत्येन शौच्यं न जलप्रवेशाद् देहस्य बाह्यमलम् एव नाशम् ।
सत्येन तिष्ठन्ति सदैव देवाः स्थितिः पृथिव्याः खलु एव सत्यैः
शीलेन स्वर्गा न गिरिप्रपातात् शीलेन तुल्या न भवन्ति रक्षाः ।
दुःशीलशैलात् स्खलिता मनुष्याः पतन्ति दुःखेषु महार्णवेषु
ज्ञानेन मोक्षं न शरीरशोषात् वर्षेण आर्द्रं न परं निदाघैः ।
ज्ञानैर् विहीनः पुरुषः स एव यथैव पङ्कस्य सरस्सु स्नातः
इति श्रुत्वाथ राजेन्द्रः संहर्षिततनूरुहः ।
संसारे च महाघोरे कथम् उत्तारयाम्य् अहम्
अथासौ भूपतीन्द्रेशः संसारभयभीतया ।
प्रसन्नो भगवति बुद्धे चकार शरणं पुनः
भगवन् बुद्ध वीरेश श्रुत्वा मे रोचते मनः ।
संबोधौ व्याकरोषि त्वं याचयामीत्य् अहं प्रभो
अथ श्रीभगवाञ् छास्ता ज्ञात्वा तस्याशयं शुभम् ।
व्याकार्षीद् अचिरेणैव तथागतो भविष्यसि
अर्हन् रत्नाकरो नाम संबुद्धो लोकनायकः ।
धर्मराजो जगन्नाथः सर्वज्ञो ऽर्हन् मुनीश्वरः
सर्वविद्याधिपः शास्ता गुणाकरो भविष्यसि ।
बुद्धकार्यं ततः कृत्वा दीर्घकालं च स्थास्यति
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0