द्वाविंशत्यवदानकथा · अध्याय 4
इति द्वाविंशत्यवदानकथायां मनुष्यदुर्लभकथा तृतीयः परिच्छेदः ॥
इव्. दानकथा
अन्नपानशयनासनसंपद् रत्नमाल्यवसनाभरणानि ।
कीर्तिर् उत्तमगुणाश् च युवत्यो दानतः कथितम् एतद् अशेषम्
आज्ञादीप्तिर् भोगसंपत् प्रकृष्टा रूपौदार्यं वर्णमाधुर्यम् ओजः ।
वाक्षौभाग्यं कान्तिर् आरोग्यम् आयुर् एतद् दानाद् इष्टम् इष्टण् फलं च
अश्वा ः क्षौमाणि नागा बहुकुसुमसितं चामरं चातपत्रं
सौधं संगीतिगर्भं मधुपटहरवाः पुष्पमाला युवत्यः ।
भोज्यं रत्नादिहारा ः पुरनगरमही चेशिता देवलोकं
संबुद्धत्वं च बुद्धैः कथितम् इह फलं दानकल्पद्रुमस्य
यन् नीलोत्पलकोमलामलदलप्रस्पर्धिनेत्राः स्त्रियश्
चञ्चन्मेखलचुम्बितोरुजघना विस्रस्तरक्तांशुकाः ।
दास्यं यान्ति विकम्पितस्तनतटा व्यावल्गितभ्रूलतास्
तन् मात्सर्यकपाटपाटनपटोर् दानस्य विस्फूर्जितम्
अश्वैश् चामरभारनामितशिरोरूपैः खलीनोन्मुखैर्
नागैर् भिन्नमदैश् च यन् नरवरा गच्छन्ति छत्त्रोच्छ्रयैः ।
भृत्यैः साभरणैः कृताञ्जलिपुटैर् अभ्यर्च्यमाना ः
सदा तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम्
हारैर् वज्रविचित्रहेमवलयैर् यत् पार्थिवा भूषिताः
केयूरैर् मुकुटैश् च रत्नखचितैः सिंहासनस्थाः सदा ।
मध्ये ऽन्तःपुरिकाजनस्य विविधैः क्रीडन्ति विक्रीडितैस्
तद् दानस्य फलम् वदन्ति मुनयः शार्दूलविक्रीडितम्
प्रासादे मणिरत्नहेमखचिते छत्त्रध्वजालंकृते
वीनावल्लरिवेणुगीतमुदिते रत्नप्रभोद्भासिते ।
यच् छक्रो रमते शचीसहचरो योषित्सहस्राकुले
तद् दानस्य फलं वदन्ति मुनयः पूर्वार्जितस्येदृशम्
दाता प्रियत्वम् उपयाति जनस्य शश्वत् संसेव्यते च बहुभिः समुपेत्य सद्भिः ।
कीर्तिश् च दिक्षु विसरत्य् अमलं यशो ऽस्य तत् तत् पदं समुपयाति विशारदो ऽसौ
भेदात् कायस्य देवेष्व् अविकलविविधोत्तप्तभोगास्पदेषु
प्राप्योत्पत्तिं विचित्रस्तबककुसुमितस्फीतकल्पद्रुमेषु ।
उद्यानेषु प्रकामं सुचिरम् अतिसुखं नन्दनादिष्व् अखिन्नः
प्राप्नोत्य् उत्कृष्टरूपामरयुवतिजनैः सेव्यमानः प्रदानात्
दानं नाम महानिधानम् अनुगं चौराद्यसाधारणं
दानं मत्सरलोभदोषरजसः प्रक्षालनं चेतसः ।
संसाराध्वपरिश्रमापनयनं दानं सुखं वाहनं
दानम् नैकसुखोपभोगसुमुखं सन्मित्रम् आत्यन्तिकम्
श्रोणीसंगतमेखलाः कलगिरो लीलाचलैकभ्रुवः
कर्णासन्नविशालचारुनयाः केशान्तसक्तस्रजः ।
यद् दास्यं स्वयम् अङ्गनाः सुकृतिनाम् आयान्ति पीनोरवस्
तन् माहात्म्यम् उवाच संभृतफलं दानस्य शौद्धोदनिः
पर्यस्यत्सहकारभङ्गसुरभि प्रे ङ् खन्निमग्नोत्पलं
श्रीमत्काञ्चनभाजने विनिहितं भन्धूकताम्रं मधु ।
कामिन्या शपथोपनीतम् असकृद् यत् पीयते कामिना
हेतुं तत्र वदन्ति शुद्धमतयो दानं परं श्रेयसः
इति दानगुणान् निशम्य सौम्य प्रयतात्मा कुरु दान एव यत्नम् ।
त्रिभवाग्रमहाभये नराणां न हि दानात् परम् अस्ति बन्धुर् अन्यः
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0