भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · श्लोक 37-16.2

37

भगवान् आह ॥
विशेषं लक्षपुष्पाणां रोहणेन फलाफलम् ।
उच्चनीचादिकं सर्व ं प्रवक्ष्यामि समासतः

38

माघ्यपुष्पविशिष्टं वै धर्मधातो विशेषतः ।
{कृष्णापराजिता पश्चात्} सुवर्णयूथिकापुष्पं करवीरं तदन्ततः

39

दमनपुष्पाणि तत्पश्चात् यं च पुष्पाणि सर्वतः ।
विशिष्टं यं च बुद्धानां सततं जिनभाषितम्

40

चम्पकजातिपुष्पाणि पारिजातस् तथैव च ।
केतकीनवमाली च पद्मकुमुद-उत्पलम्

41

अशोक-अर्कपुष्पाणि कह्लारनागपुष्पम् ।
बिल्वपत्त्राणि धत्तूरं जवापुष्पनि तथैव च

42

भ्र्ङ्गराजानि पुष्पाणि लक्ष्मीपुष्पं ततः क्रमात् ।
तमारनिर्ग्रन्थीयूथी मल्लिकामाधवी तथा

43

वनमालाकुन्दबन्धूक न म्लानं कुवलकस् तथा ।
सैरेयक्रोरणश् चैव मधुरीकुसुमावती

44

एवं क्रम ं विशिष्टं च अन्येषां च पृथक् पृथक् ।
नानाविधानि पुष्पाणि अनेकजातैर् उद्भवम्

45

नान्योक्तं च मया के चित् सामान्यपुष्पकस्य च ।
कथितं जिननाथैश् च पुष्पाणां सर्वतः किल

46

सर्वपुष्पादिना चैत्ये रोहणात् फलम् उत्तमम् ।
पृथक् पृथक् फलं तस्मात् पुष्पाणां कथिता जिनाः

47

आनन्द उवाच ॥
चैत्यानां च श्रुतं नाथ लक्षपुष्पविशेषतः ।
तथागतानाम् अन्येषां वद मे वादिपुंगव

48

भगवान् आह ॥
पूर्वोक्तानि च पुष्पाणां चैत्यानाम् अभवत् तदा ।
प्रवक्ष्यामि यथानन्द सांनिध्यं शृणु सर्वतः

49

तथागतेषु अनेयेषु देवतायां विशेषतः ।
पूर्वोक्तानि च पुष्पाणां यथायोग्य ं यथेच्छया ।
देवता वर्णभेदेन पुष्पाणां च तथैव च

50

एवम् आनन्द ज्ञातव्य ं नरः पुष्पाणि रोहयेत् ।
पूर्वोक्तफलम् आप्नोति नित्यम् एव न संशयः

51

महानुशंसा पुष्पाणाम् आरोहणाद् धि फलं तथोक्तम् ।
बुद्धेषु बिम्बेषु तथा च स्तूपे अन्येषु देवेषु फलं तद् एव

52

पुनश्च ॥
शक्राधिकाः प्रवरभोगसमन्वितास् ते पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः । शक्रान् विजित्य रभसा सततं भवन्ति बुद्धस्य ये सुकुसुमैः प्रकिरन्ति पूजाम्

53

नीलोत्पलप्रचयतुल्यशरीरगन्धा विख्यातकीर्तिविमलायतचारुनेत्राः ।
रत्नोपमा भुवि चरन्ति मनुष्यभूता दत्त्वा जिने प्रवरधूपम् उदारगन्धम्

54

वैडूर्यमुक्तामणिभूषिताङ्गाः कौशेयवस्त्रावृतसर्वकायाः ।
नरोत्तमाः सर्वजनैर् उपेता भवन्ति बुद्धे सुरभिप्रदानात्

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc