भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · अध्याय 16

16.1

एवं भिक्षवो ऽपि ईदृशफलं सा चेतिका प्राप्ता ॥
तस्माद् भिक्षवस् तथागतेषु स्तूपबिम्बेषु पुष्पैः प्रतिपूजनीयाः ॥ एवं शिक्षितव्यं भिक्षव इति ॥
इति द्वाविंशत्यवदानकथायां पुष्पकथा पञ्चदशः परिच्छेदः ॥
xवि. प्रणामकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तं प्रणम्यैतद् अवोचत् ॥
श्रोतुम् इच्छामि हे नाथ भगवन् भवमोचक ।
ताथागते प्रणामस्य फलं तेषां वद प्रभो

16.2

भगवान् आह ॥
साधु साधु त्व मैत्रेय पृच्छितं यन् मयि त्वया ।
बुद्धस्य च प्रणामस्य फलं वक्ष्याम्य् अहं नु भो

16.3

बुद्धप्रणामस्य महानुशंसा सुरूपभूपं सुखम् आप्नुवन्ति ।
ये चैकचित्तैः प्रणमन्ति भक्त्या भवार्णवस्योत्तरणाय हेतुम्

16.4

भूतपूर्व ं मैत्रेयातीते ऽध्वन्य् असंख् य् ए य कल्पे दीपंकरेण सह पूर्वं पद्मोत्तरो नाम सम्यक्संबुद्धो जनपदचारिका ं चरन् न् अन्यतममहाजनपद ं प्राप्तः ॥
तत्र महाजनपदे वीथि स्थित्वा लोकानां धर्म ं देशितवान् ॥ तस्मिन् समये दक्षिणापथो द्विजोत्तमः पुष्करशाली नाम द्वात्रिंशता शिष्यगणैः सार्धं परिवृतो बुद्धगुणवर्णनां श्रुत्वा ( दक्: 161 ) गृद्धकूटे पर्वते धर्मश्रवणार्थं समागच्छति ॥ अथ ते ददृशुर् बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा च पुनः प्रसादजातया भगवन्तं त्रिप्रदक्षिणीकृत्य भगवतः पादाव् अभिवन्दित्वा एकान्ते निषण्णाः । अन्यैकेन भगवन्तं मनसापि न प्रणामितः । भगवति बुद्धे न मनःप्रसन्नताभूत् । किंचित्पापशेषैर् बुद्धकुलेषु प्रवेशेषु आविलचित्तकुटिलचित्त ः स तूष्णीस्थितः ॥ अन्ये बुद्धे भगवति प्रसन्नचित्ता ः स्थिताः ॥ प्रव्रज्याग्रहणतत्परचित्तान् भगवान् विदित्वैवम् आह ॥ भो ब्राह्मण द्विजोत्तम केनार्थेनागतो ऽ सि सहायैर् मयि उच्यताम् ॥
ब्राह्मण उवाच ॥
भगवञ् श्रोतुम् इच्छामि बुद्धानां धर्मम् उत्तमम् ।
अवितथवादी बुद्धो हि सत्यवादी तथागतः

16.5

न रागलिप्तो न च द्वेषलिप्तो न मोहलिप्तो यथ शुद्धनिष्कः ।
सर्वेषु तीर्थेष्व् अथ गाङ्गवारि पवित्रभूतः कलुषैर् विहीनः

16.6

धर्मावकाशं ^ _ ददस्व मह्यं वयं हि मूढापरिमुक्तज्ञानाः ।
संबोधिज्ञानं जिन देहि मे मुने तेनैव सत्त्वान् परिमोचयेयम्

16.7

भगवान् आह ।
साधु साधु द्विजश्रेष्ठ साधु साधु सुभाषितः ।
नयानयज्ञ धर्मज्ञ शीलं धरतु तावतम्

16.8

दिव्यं प्रयाति शीलेन सुष्ठु लाभं प्रवर्तते ।
यशोमित्र ससंपत्ति शीलं धर द्विजोत्तम

16.9

शीलं किं तु ॥
अद्रोहः सर्वजन्तूनां कर्मणा मनसा गिरा ।
अनुग्रहश् च ज्ञानं च, शीलम् एतत् द्विजोत्तम

16.10

न च द्वेषसमं पापंन च क्षान्तिसमं तपः ।
तस्मात् क्षान्तिं प्रयत्नेन भावयेद् विविधैर् नयैः

16.11

क्षमया स्वर्गसंवासः स्वर्गगामी स नित्यशः ।
महालक्ष्मीं समासाद्य स भवेद् मोक्षगामिकः

16.12

हृदा संभावनाध्यानं परमात्मानं द्विजोत्तम ।
ये ध्यायन्ति प्रयत्नेन ते यान्ति परमां गतिम्

16.13

मोहान्धकारं संहार्य बुद्धिसूर्यप्रकाशकः ।
बुद्धत्वपदम् आप्नोति सततं मोक्षगो भवेत्

16.14

प्रज्ञया पुण्यम् आप्नोति प्रज्ञया धर्मसंयुतः ।
अनन्तज्ञानं संप्राप्य बुद्धज्ञानं प्रवर्तते

16.15

परोपकारं कुर्वन्ति ये नराः शुद्धमानसाः ।
सुखदुःखं परे ज्ञात्वा सुखम् आप्नोति सर्वदा

16.16

स्वदुःखं परदुःखं वा स्वकं तुल्यं च कारयेत् । स्वदुःखलघुतां प्राप्य परदुःखं गरीयसम् ॥
चकम्पे परदुःखेन महीकम्पाद्रिराड् इव

16.17

धमकार्यं सुकार्यं वा सुचित्तैर् उपदेशयेत् ।
कापथेषु गते काले यस्य चित्तं निवर्तयेत्

16.18

के चिद् ये मानवाः प्राणी पक्षी वा कीटकादयः ।
स्वदुःखसुखयोस् तुल्यं रक्षयेद् दुःखच्छेदनात्

16.19

परोपकारकं ज्ञेयं तत्परः पुण्यभाग् भवेत् ।
तेन परोपकारेण धर्मेण सुखम् आप्यते ।
सुखेन धर्मं साध्यन्ते धर्मेण मोक्षं साध्यते

16.20

यद् यत् कार्यं समुत्पन्ने तत् तत् कार्यं समारभेत् ।
परोपकारकं ज्ञेयं बोधिज्ञानपरायणाः

16.21

एतच् छ्रुत्वा ब्राह्मणो भगवन्तम् एवम् आह ॥
के चिद् ये मानवाः प्राणी पक्षी वा कीटकादयः ।
स्वदुःखं स्वसुखं तुल्यं केन संचरते भुवि

16.23

( दक्: 164 ) भगवान् आह ॥
भूतपूर्वं ब्राह्मण कस्मिं श् चिच् छालवती नाम जनपद ः परमविस्तारी मनोहरा सर्वलोकाभिपूर्णा ऋद्धा स्फीता सुभिक्षा च दर्शनीया व्यपगत ड मरा तस्कररोगापगता । शालीक्षुगोमहिषीसस्यसंपन्नायां जनपदे सर्वंददो नाम भूपतिर् आसीत् ॥ स च भूपतिः करुणाशयः सर्वप्रदो निःसङ्गत्यागप्रकृतिर् मेधावी साधु ः सुशीइअ अशठो ऽकुटिलो व्यपगतरागद्वेषमोहो ऽनुन्नतः कोमलमधुरस्निग्धवाचा अतिथिवनीपकप्रीति ः सर्वलोकप्रियदर्शनः ॥ तस्मात् तस्य राज्ञो यशस सर्वलोकेषु विख्यातः । वनीपकानाम् आशापरिपूरितचिन्तामणिसादृशः ॥ स सर्वराज्यं विषयोपभोगं संसारम् असारं दृष्ट्वात्र स्थातुं मनो न रमते ॥
स सर्वराज्यलक्ष्मीं पर्युषितोप भो गमलिनम्लानकुसुमबन्धनाम् इव स्रजं परित्यज्यान्यतमविविक्तम् आश्रमपदम् अलंचकार ॥
आहूयमान इव पल्लविनां द्रुमाणां शाखाकरैः
स्वकुसुमाभरणाभिरामाइः ।
शान्तं वनान्तम् उपगम्य स भूपतीन्द्रः प्राप्तो ऽमृतं नृपसुखैर्
अनवाप्तपूर्वम् ॥ 22 ॥
साक्षाद् ऋषिर् इव ध्यानं प्रविश्य सुखेन तिष्ठति ॥
अथ तस्य प्रभावातिशयं दृष्ट्वा सुरेश्वरो देवेन्द्रस् तस्य तपःप्रभावप्रहाणान् मनसि त्रासभयाकुलात् सुरलोकाद् अवतीर्णः शकुनिनिर्माणरूपं कृत्वा शरधनू धृत्वा शरेण तं प्रहारार्थं कपोतम् एकं वेगतरेणापहान्तः । तपोवनस्थनृपतेर् अङ्के पतितः ॥ अथ स राजा करुणाशयस् तं दृष्ट्वा, स भूपतिः परमप्रीत्या स्वाङ्के दधानः ॥ स कपोत अमित्रभयाकुलः प्राणान्तम् इव हृत्कम्पेन स्थितः ॥ अथानन्तरं शक्रो देवेन्द्रो नैषादरूपम् अभिनिर्माय तत्समीपम् उपधावितः परमपरिश्रमम् इव महाश्वासं प्रवर्तयन् एनं पृच्छितवान् ॥
देहि त्व मे कपोतं महाजवेनागतो ऽहम् आहारम् ।
अद्यान्नं न प्राप्तं कथम् अनन्नेन जीवामि

16.24

तपस्विन् ॥
राजोवाच ॥
कथं त्यजामि ते भद्र मयि शरणम् आगतम् ।
सुखदुःखं च सर्वेषां कथं न ज्ञायसे भवान्

16.25

मयि शरणागतकपोतं कथं तुभ्यं भक्षाय ददाम्य् अहम्, अनीत्ययोग्यम् एतत् ॥
नैषाद उवाच ॥ यदीमं कपोतं न त्यजसे, ममाहारामिषं दद । न चेद् अहम् एव मरिष्यामि शापं दत्त्वेति ॥
एवम् उक्ते स राजा नैषादम् उवाच ॥ शरणम् अभिगतं गुप्त्यर्थं तवाभिप्रायं यथा भवति तथा पूरयामि ॥
नैषाद उवाच ॥ साधु भूपेन्द्र, एवम् एव स एष कपोतं तुलया तुलयित्वा यत्य् अस्ति कपोतस्यामिषम्, अन्यस्यामिषं मे देहीति ॥
राजोवाच ॥
कथं हिंस्य परात्मानं दास्याम्य् अस्मै कथं नु भो ।
स्वात्मानं च परात्मानं सुखदुःखं च तुल्यकम्

16.26

विहिंस्य परजीवं च किं धर्मं च तपोव्रतम् ।
परोपकार ः कथं स्याच् च विहिंस्य पर आत्मनि

16.27

अत एवम् अहं दास्ये स्वदेहस्यामिषं ध्रुवम् ।
एकलोपैकपोष्येण, उपकारः कथं भवेत्

16.28

अथ नैषादस् तस्य शुद्धाशयदृढम् अभिसमीक्ष्य तुलानिर्माणम् आदाय पुरतो निषद्य, एनम् उवाच ॥
क्षुत्क्षामतृषार्तो ऽहं बहुविलंबितेन किं विभो ।
तस्मात् तूर्णम् इमं देहि न ददासि व्रजाम्य् अहम्

16.29

इति निशम्य ततो भूपः कपोत ं एके स्थाप्य स्वदेहमांस ं विकर्त्य तुलायां प्रक्षिपति ॥ ततो नैषादरूपः शक्र ऋद्ध्या कपोत ं गुरुतर ं कृत अभूत् ॥
ततः क्षेपक्षेपेण पूरितकपोतो गुरुतरः स्यात् । तथाप्य् अस्य नृपतेः प्रियपक्षीरक्षणसत्याधिष्ठानेनास्खलितचित्तप्रेमय् अस्थ्यवशेषं कृत्वा तुलायाम् अवधारितः ॥ ततो नैषादरूप ः शक्रस् तं दृष्ट्वा, आवर्जितमनाः स कथयति ॥ साधु साधु महात्मन् साधुस्वभाव एष परस्य कारणात् स्वजीवम् अपि अगणयित्वा परार्थकृतस् त्वं, किम् अभिलाषितेनेदृशं दुष्करं कृतम् ॥
सो ऽवोचत् ॥
नैवास्ति काङ्क्षा मे किं चिद् अनुत्तरसंबोधिं प्राप्य सत्त्वान् उद्धारयामि ॥
इति श्रुत्वा स नैषादः स्वयं वपुः संपश्य तम् उवाच ॥
राजंस् तव चित्तमीमांसार्थम् अहं विचरामि । भद्र यथा तवाभिप्रायं तथास्तु, यथा पौराणं तथा शरीरम् अस्तु ॥ इत्य् उक्त्वा शक्रवेषेण आशिषं दत्त्वा एवम् अस्तु स्वभवनं प्रक्रान्तः ॥
तेन समयेन राजा बभूवाहं स नान्यो द्रष्टय्यः । प्राणिपक्षिषु सत्त्वेषु समचित्तेन चरित ः । इदानीं संसारे महत् सुखं भुक्त्वा तथागतभूतेन सत्त्वेषु धर्मो देशितः ॥
अथ पुष्करशालिप्रमुखास् ते ब्राह्मणशिस्यका द्वात्रिंशत् तथागतवचनम् आकर्ण् य प्रीतिसौमनस्यजाता भगवन्तम् ऊचुः ॥ भगवंस् तव शासने प्रवर्जिष्यामः प्रसन्नं कुरु ॥
अथ भगवां स् तेषाम् आशयधातुं प्रकृतिं च ज्ञत्व तेषाम् एवम् आह ॥
सचेद् आकाङ्क्षसि निषीदेति ॥ तेषां च । एहि भिक्षव इत्य् उक्ते यत् किं चित् तीर्थिकलिङ्गं सर्वम् एव तत्क्षणम् एवान्तरधात् ॥ त्रिचीवरं पात्रं च प्रादुरभूत् ॥ अथोच्छिन्नो केशस् तद् यथापि नामासंख्येयवर्षशतोपसंपन्नस्य भिक्षोर् ईर्यपथः सुसंवृतो ऽभूत्, सैव तेषां प्रवर्ज्याभूत् सोपसंपत् सभिक्षुभावेण ॥
एकस्य तथागतेषु मात्सर्यचित्तस्य भिक्षोश् चीवरं न प्रादुर्भूतं पात्रं च ॥
अथ खलु भिक्षवस् तस्यां वेलायां तथागतस्य चरणयोर् निपत्य विज्ञापयन्ति स्म ॥ तथागतस्यान्तिके शास्त्ट्संज्ञाप्रेम च प्रसादगौरवं चोत्पादयति स्म ॥
अथ स एकश् चीवरनप्रादुर्भूतेन पुनर् अपि तया व्रीडया तथागतस्य चरणयोर् प्रणिपत्य विज्ञापयाम् आस ॥ कथम् एतद् भगवन् ममैकस्य चीवरं नोत्पादितम् ॥
( दक्: 169 ) भगवान् आह ॥
भूतपूर्वं तथागतेषु प्रणामकाले मात्सर्यदोषाद् इति ॥ एवम् उक्ते निश्वस्य क्षमार्थनां कृत्वा तथागतं प्रणामितः ॥ तदा भगवतो ऽनुभावेन चीवरं प्रादुर्भूतम् ॥ तत्क्षणम् एव मलिनीभूतम् ॥ तं दृष्ट्वा व्रीडावर्जितमना भिक्षुर् भगवन्तम् एवम् आह ॥ भगवन् केन कर्मणा ममैकस्य चीवरं न प्रादुर्भूतं, प्रादुर्भूते पुनर् मलिनीभूतम् । को हेतुः कः प्रत्ययः ॥
भगवान् आह ॥
भूतपूर्वं भिक्षव अतीते ऽध्वन्य् असंख्येयकल्पे दीपंकरेण पूर्वं पद्मोत्तरो नाम सम्यक्संबुद्धः स संघेन सह जनपदचारिकां चरन्न् अन्यतममहाजनपदं प्राप्तः ॥ तत्र महाजनपदे वीथिमध्ये स्थित्वा धर्मं देशितवान् ॥ तदा सर्वनागरास् तत्रोपसंक्रान्ता धर्मकथां श्रुतवन्तः ॥ अथ सोमकौमुदिर् नाम ब्राह्मणो महाविद्वाञ् शिष्यगनैः सार्धं तां वार्त्तां श्रुत्वा येन पद्मोत्तरः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य भगवन्त ं प्रणम्य पुरतः स्थित्वा धर्मं शृण्वन्ति ॥ तदा प्रसादजाताः सर्वे ते तथागतशासने प्रव्रज्याग्रहणं चकारयाम् आसुः ॥ ते
तथागतस्यान्तिके शास्तृसंज्ञाप्रेमगौरवजातेन भगवतश् चरणयोर् निपतयन्ति स्म ।
तेन समयेन सोमकौमुदिब्राह्मणस्य शिष्य स् त्वम् असि । त्वयैकेन तथागतप्रणामकाले मात्सर्यचित्तेन इति भावितः । श्रमणवन्दनम् अकृते किं भविष्यति इति ॥
तेन मात्सर्यकृतेन, अनेकवर्षशतसहस्रलोकैर् निन्दनीयजन्म भूत्वा, महान् आशीविष उपपन्नः । अद्यापि तवाशीविषकङ्कालम् अस्तीति कालञ्जरपर्वतस्य कन्दरायां महोच्छ्रयप्रमाणं पर्वत इव तिष्ठति ॥ ततः शतवर्षात्ययाद् दरिद्रकुले जातस् तत्पश्चात् तीर्थिको जटाधारी भिक्षुको ऽभूत् ॥ तदा पाटलिपुत्रनगरे केन चिद् गृहस्तेन तीर्थिकान् भोजनार्थं रसरसाग्रोपेतैर् आहारं सज्जीकृत्य तीर्थिकान् आहूय स्वाभिप्रायं तीर्थिकान् भोजितः । त्वया द्वादश प्रस्थानि क्षीरोदनं भुक्तम् । तथापि पूर्णोदरो नाभूत् ॥ तदा सर्वे जना ः प्रेतभैक्षुकं मन्यन्ते ॥ तदनन्तरं त्वया व्रीडया निश्वस्य चिन्तयति ॥ धिक् जीवितम् इति मत्वा तस्मात् स्थानात् प्रक्रान्तः । तत इहैव जन्मनि च्युत्वा मानुष्यं जन्म प्राप्तवान् ॥ तदासौ ब्राह्मण ः शिष्यगणैः सार्धम् आगच्छन्तं पश्यन् ते मिलित्वा इहागताः ॥
तथागतप्रणाममात्सर्यकृतपापेन तादृशं दुःखं अनुभूय अद्यापि तत्पापशेषेण प्रणामो न कृतस् तेनैव हेतुना चीवरादिकं न प्रादुर्भूतं मलिनीभूतं च ॥
तदा स भिक्षुर् एवम् एव भगवन् ममापराधम् अत्ययं प्रतिगृह्नातु इत्य् उक्त्वा गौतमस्य पादयोः प्रणिपत्य तिष्ठति ॥ तदा भगवतो ऽनुभावेन तस्य पापात् परिमुक्तो ऽभूत् । चीवरं च मलिनं त्यज्य यथापूर्ववद् भवति ॥ एवं भिक्षव मा यूयं तथागतम् आयुष्मन्तं मानसा च वादेन समुदाचरिष्ठव्यम् ॥ हे भिक्षव इदानीं ममान्तिके चित्तप्रसादजात अनेन कुशलमूलेन चार्हत्त्वं प्राप्त इति ॥
पुनर् अपि भिक्षून् आमन्त्र्यैवम् आह ॥
किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन सोमकौमुदिब्राह्मणस्य शिष्यत्वभूतेन पद्मोत्तरतथागतप्रणामकाले मात्सर्यदोसेण ईदृशं दुःखम् अनुभूतम् ॥ सो ऽहं सोमकौमुदिब्राह्मणो यूयं मम शिष्याः ॥ इदानीम् अपि यूयं मम शिष्या अभूवन् ॥ मया चानेकतथागतेषूपासितेन कुशलेन संसारे ऽनन्तसुखम् अनुभूय तथागतपदं प्राप्तम् ॥ तस्माद् भिक्षवस् तथागते अनुमोदयितव्या ः सेवयितव्यास् तथागतस्य गुणानुशंसा देशितव्या, तथागत ं प्रणामयितव्याः ॥
तथागतानां प्रणामस्य महाफलानुशंसा तच् छृणुत ॥
यच् चक्रवर्ती क्षितिपप्रधानैः कृताञ्जलि ः कुण्डालचारुगण्डैः । भक्त्या सुमूर्ध्ना बहु वन्द्यते तद् बुद्धप्रणामात् कथयन्ति तज्ज्ञाः

16.30

ये जातमात्राः प्रभुतां प्रयान्ति श्रेष्ठे कुले जन्म सदैव येषाम् ।
हस्त्यश्वयानैश् च परिभ्रमन्ति कृत्वा तु ते श्रेष्ठतरे प्रणामम्

16.31

प्रथयति यशो धत्ते श्रेयो विवर्धयति द्युतिं
हरति दुरितं सर्वं सर्वं ह्य् अरातिम् अपोहति ।
सुगतिनियतां लोके नृणां करोति च संततिं
फलति च शिवायान्ते ऽवश्यं मुनीन्द्रनमस्क्रिया

16.32

चक्री नृपो यद् बलकीर्तियुक्तो द्वात्रिंशता लक्षणभूषिताङ्गः ।
संजायते वै क्षितिपप्रधानो बुद्धप्रणामाद् धि फलं तद् उक्तम्

16.33

एवं बहुगुणं मत्वा मत्वा कायं च भङ्गुरम् ।
बुद्धप्रणामात् को विद्वान् कायकर्मान्यद् आचरेत्

16.34

कस् तं न नमः कुर्याद् दृष्ट्वा दूरात् पुनर्भवाद् भीतः ।
कृत्वैकनमस्कारं भवपारम् अवाप यद्धेतोः

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc