द्वाविंशत्यवदानकथा · श्लोक 16-36
रोहणाच् चम्पकं पुष्पं नरा ये श्रद्धया किल ।
कीर्तिशब्दश् च लोकेषु सर्वसंपद लभ्यते
दर्शनीयाभिरूपाश् च कन्दर्पसमताङ्गतः ।
सुगन्धदेहसंपन्ना राजलक्ष्मी च लभ्यते
जातिपुष्पं च रोहन्ते जातिश् च सुकुले गता ।
सुष्ठुसुगन्धदेहा वै धनेन धनदसमाः
पद्मपुष्प ं नरः कश् चित् प्रसन्नेन प्ररोहति ।
बुद्धज्ञान ं समाप्नोति जायते कमलासने
मधुदं मधुरीपुष्पैः कुसुमैर् वस्त्रदं तथा ।
कौशिकैर् वस्त्रदं चैव किंशुकै रक्तवस्त्रदम्
कुसुमं पारिजातं च यः प्ररोहति मानवः ।
अनन्तसुखम् आप्नोति सुगन्धदेहगो भवेत्
बन्धूकपुष्पसंरोहं सर्वपापापदक्षयम् ।
रोहनं केतकीपुष्पं कीर्तिवन्तो भवेन् नराः ।
सुगन्धसुखसम्पन्न ं मङ्गलं भवति सर्वतः
कुमुदपुष्प रोहन्ते चन्द्रवन्मुखमण्डलम् ।
चन्द्रकान्तिसमं सौम्यं जायन्ते त्रिदशालये
नीलोत्पलानि पुष्पाणि ये प्ररोहन्ति श्रद्धया । मुखे ऽ स्य चोत्पलोगन्धो महर्द्धिकनृपो भवेत् ॥
अशोकपुष्प रोहन्ते, असमंच कलेवरम् ।
सर्वरोगविनिर्मुक्तभूपतित्वं प्रजायते
कुसुमं भृङ्गराजं च रोहणं मानवाः पराः ।
रोगशोकमहाघोरसर्वव्याधिनिषूदनम्
जवाकुसुम रोहन्ते मानवा नरनायकाः ल्
मोहनं सर्वलोकानां लोकानां वश्यम् आगताः
रोहणम् अर्कपुष्पाणां मानवाः शुद्धमानसाः ।
सहस्ररश्मिसंयुक्तः जनवान् धनवान् भवेत्
कह्लारपुष्पम् आरोहात् सुप्रसन्नेन चेतसा ।
नाशनं सर्वरोगाणां लक्ष्मीर् वहति सर्वदा
नागपुष्पैर् इहाभ्यर्च्य परत्र सुखीभवेत् ।
तथा च मालतीपुष्पैर् महापातकनाशनम्
बिल्वपत्त्राणि श्रेष्ठानि रोहणाच् च अतन्द्रितः ।
शिवं सर्वत्र प्राप्नोति यज्जानां च सहस्रकम्
धूर्तपुष्पं रोहन्ते सुवर्णतुल्यनिर्मितम् ।
विभवसुखसंपन्नः स भोगफलम् आप्यते
रक्तपद्मैश् च संपूज्य ब्रह्महत्यादिनाशनम् ।
दूर्वकुन्दप्ररोहेण ये नरा भक्तिमानसाः ।
शतजन्मार्जितं पापं मुक्तो भवति तत्क्षणात्
तगरं पुष्प रोहन्ति परलोके सुखावहा ः ।
पितरः प्रीतिता ं यान्ति विशेषैः श्राद्धकर्मकैः
तत्कारीपुष्प रोहन्ते लक्ष्मीवन्तः सदा नराः ।
धनधान्यसमृद्धं च ईप्सितार्थफलं भवेत्
मल्लिकापुष्प रोहन्ते न मारो क्षोभयेत् पुनः ।
सुगन्धपुष्परोहेण सुगन्धगुणकीर्तनः
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0