द्वाविंशत्यवदानकथा · अध्याय 20
महानुशंसा विहारदानस्य महाफलानुशंसा । इत्य् एवं भिक्षवः शिक्षितव्यम् इति ॥
इति द्वाविंशत्यवदानकथायं विहारकथा ऊनविंशतितम ः परिच्छेदः ॥
xx. सुवर्णाभावदान
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥
भगवंश् चैत्यबिम्बस्य भजनोद्भव किं फलम् ।
तत् सर्वं ब्रूहि वादीन्द्र सर्वलोकाभिबोधने
भगवान् आह ॥ शृण्व् अजित साधु सुष्ठु मनसिकुरु भाषिष्ये ऽहं स्तूपसत्कारजं पुण्यं महत्तरम् ॥
तद्यथानुश्रूयते ॥
भूतपूर्वं मैत्रेयैकस्मिन् समये कपिलवस्तुनि महानगर्यां न्यग्रोधारामे महता संघेन सार्ध ं विहरति स्म । तस्मिन्न् अवसरे तत्र कपिलवस्तुन्य् अन्यतमः शाक्य आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम् । स तया सार्धं क्रीडति रमति परिचारयति । तस्य क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको ऽतिक्रान्तमानुष्यवर्णः संप्राप्तश् च दिव्यं सुवर्ण ं जाम्बूनदनिष्कसदृशः । सुवर्णवर्णया चानेन प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम् । तद्दर्शनान् ( दक्: 203 ) मातापितराव् अन्ये च कुतूहलाभ्यागताः सत्त्वा ः परं विस्मयम् आगताश् चिन्तयन्ति च कुतो ऽ यम् ईदृशः सत्त्वविशेष इति ॥ तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति ॥ ज्ञातय ऊचुः ॥ यस्माद् अनेन जातेन सुवर्णवर्णया प्रभया सर्वं कपिलवस्तु नगरम् अवभासितम्, तस्माद् भवतु दारकस्य सुवर्णाभ इति नाम ॥ ततः सुवर्णाभो दारक अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः । द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेनान्यैश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । स च पण्डितो व्यक्तो मेधावी श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः ॥ यावद् अपरेण समयेन रूपमदमत्तो बहिर् अधिष्ठानस्य क्रीडति । ततस् तस्यैव मार्गात् संबहुलाश् च शाक्या न्यग्रोधारामं गच्छन्ति । ततस् तेन सुवर्णाभेन दृष्टाः पृष्टाश् च क्व भवन्तो गच्छन्तीति । तैर् उक्तं न्यग्रोधारामं गच्छामो बुद्धं भगवन्तं द्रष्टुम् इति । सुवर्णाभस्य ( दक्: 204 ) बुद्ध इति श्रुत्वाश्रुतपूर्वं नाम श्रुत्वा सर्वरोमकूपान्य् आहृष्टानि परमं च कुतूहलम् उत्पन्नम् । तस्यैतद् अभवत् । यन् न्व् अहम् अपि भगवन्तं दर्शनायोपसंक्रमेयम् इति । सो ऽपि न्यग्रोधारामं गच्छति । ततः स ददर्श सुवर्णाभकुमारो बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम् । सहदर्शनाच् चास्य भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णो धर्मश्रवणाय । तस्य भगवता धर्मो देशितः । स तं धर्मं श्रुत्वा प्रव्रज्याभिलाषी संवृत्तः । यावन् मातापितराव् अनुज्ञाप्य भगवत्सकाशम् उपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा येन भगवांस् तेनाञ्जलिं प्रणंय भगवन्तम् इदम् अवोचत् । लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्यम् उपसंपदा ं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति ॥ ततो भगवान् गजभुजसदृशं सुवर्णवर्णबाहुं प्रसार्य सुवर्णाभदारकम् इदम् अवोचत् । एहि कुमार चर ब्रह्मचर्यम् इति ॥
एहीति चोक्तः स तथागतेन मुण्डश् च संघाटिपरीतदेहः ।
सद्यः प्रशान्तेन्द्रिय एव स्थाने यथा स्थितो बुद्धमनोरथेन
यावत् सप्ताहावरोपितकेशश्मश्रु र् द्वादशवर्षोपसंपन्नेर्यापथः पात्रकरव्यग्रहस्तो भगवतः पुरस्तात् स्थितः । तस्य भगवता मनसिकारो दत्तः । तेन युज्यमानेन व्यायच्छमानेन घटमानेन इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतिं शतनपतनविकरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् । अर्हन् संवृत्तस् तेजोधातुवीतरागः समलोष्टकाञ्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखस् सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः ।
कानि भदन्त सुवर्णाभेन पुण्यानि कृतानि येनैवंविधं महोत्तमफलं प्राप्तम् इति ॥ भगवान् आह ।
सुवर्णाभेनैव कर्माणि कृतानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यंभावीनि । सुवर्णाभेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्यधातौ
पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0