द्वाविंशत्यवदानकथा · अध्याय 21
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि एकनवते कल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुसदम्यसारथिः शास्ता देवानां च मानुष्याणां च बुद्धो भगवान् । स बन्धुमतीराजधानीम् उपनिश्रित्य विहरति । यावद् विपश्वी सम्यक्संबुद्धो बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिवृतः । ततो राज्ञा बन्धुमता भगवतः शरीरे शरीरपूजां कृत्वा समन्तयोजन ः स्तूपश् चतूरत्नमयः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । स्तूपमहश् च प्रज्ञप्तः ।
यावद् अन्यतमो गृहपतिस् तस्मिन् स्तूपमहे वर्तमाने निर्गतः । तेन तस्मात् स्तूपात् सौवर्ण आदर्शः पतितो दृष्टः । स तेनावतंसकं कारयित्वा तत्र स्तूपे आरोपितः । गन्धधूपपुष्पार्चनं कृत्वा पादयोर् निपत्य प्रणिधान ं कृतम् । अहम् अप्य् एवंविधानां गुणनां लाभी भविष्यामि । एवंविधम् एव शास्तारम् आरागयेयम् इति ॥
भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो ऽ सौ तेन कालेन तेन समयेन गृहपतिर् आसीद् अयं स सुवर्णाभः । यत् तेन विपश्विनः सम्यक्संबुद्धस्य स्तूपे काराः कृतास् तेनास्यैवंविधो रूपविशेषः संवृत्तो यत् प्रणिधानं कृतं तद् इहैव जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति ॥
भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाक एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रस् तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्म स्व् आभोगः करणीय इत्य् एवं वो भिक्षवः शिक्षितव्यम् ॥
इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्न् इति ॥
इति द्वाविंशत्यवदानकथायां सुवर्णाभावदान विंशतितमः परिच्छेदः ॥
xxइ. वपुष्मानवदान
अथावोचन् मुनीन्द्रो ऽसौ सक्यसिंहो गुणाकरः ।
भिक्षुगणं समालोक्य वपुष्मानवदानकम्
भिक्षव ऊचुः ॥
भगवन् सर्वविच् छास्त श्रुत्वास्माकं शुभां गिरम् ।
यद् बुद्धे कृतपुण्यानां पुनर् वक्तुं त्वम् अर्हसि
भगवान् आह ॥ शृणुत भिक्षवः पुनर् अप्य् एकस्मिन् समये तत्र कपिलवस्तुनि महानगरे ऽन्यतमः शाक्यः प्रतिवसति । स आढ्यो महाधनो महापरिवारो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्धी । तेन सदृशात् कुलात् कलत्रम् आनीतम् । स तया सार्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्त्वा पुत्रो जातो ऽभिरूपो दर्शनीयः प्रासादिको गौर अतिक्रान्तो मानुष्यवर्णम् असंप्राप्तश् च दिव्यवर्णं चास्यवपुः शूक्ष्मत्वङ् महेशाख्यः प्राप्तोच्छुद्धकायश् च । तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं किं भवतु दारकस्य नामेति ॥
ज्ञातय ऊचुः । यस्माद् अस्य दिव्यवपुस् तस्माद् भवतु दारकस्य वपुष्मान् इति नामेति ॥
वपुष्मान् दारक अष्टाभ्यो धात्रीभ्यो दत्तो द्वाभ्याम् अंसधात्री भ्यां द्वाभ्यां क्षीरधात्री भ्यां द्वाभ्यां मलधात्री भ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्री भ्याम् । सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध् य् अते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्ड् एनान्य् ऐश् चोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम् । स च श्राद्धो भद्रः कल्याणाशय आत्महितपरहितप्रतिपन्न ः कारुणिको महात्मा धर्मकामः सर्वलोकैश् च पूज्यो मान्यो ऽ भिवाद्यश् च । ततो वपुष्माण् यान् यान् अपि स प्रदेशान् गत्वा क्रामति ते ते ऽस्य मेध्या भव न् त्य् एवंविधः पुण्यमहेशाख्यः ॥ यावद् अपरेण समयेन न्यग्रोधारामं गतः ॥ अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं सहदर्शनाच् चानेन भगवतो ऽन्तिके चित्तप्रसादितः प्रसादजातश् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषन्णो धर्मश्रवणाय ॥ तस्य भगवता आशयानुशय ं धातु ं प्रकृतिं च ज्ञात्वा तादृशी चतूरार्यसत्यसंप्रतिवेधिकी ( दक्: 210 ) धर्मदेशना कृता । यां श्रुत्वा वपुष्मता विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् । स दृष्टसत्यो मातापितराव् अनुज्ञाप्य भगवच्छासने प्रवजितः । तेन युज्यमानेन घटमानेन सर्वसंसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् । अ र् हन् संवृत्तस् त्रैधातुकवीतरागः समलोष्टकान्चन आकाशपाणितलसमचित्तो वासीचन्दनकल्पो विद्याविदारिताण्डकोशो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः ॥
अथ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । कानि भदन्त वपुष्मता कर्माणि कृतानि येनास्यैवंविध आश्रयो ऽर्हत्त्वं च प्राप्तम् इति ॥
भगवान् आह । वपुष्मता भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य्
अवश्यभावीनि । वपुष्मता कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति ।
न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते
नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपत्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च ।
न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि ।
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्
भूतपूर्वं भिक्षवो ऽतीते ऽ ध्वनि एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स बन्धुमतीराजधानीम् उपनिश्रित्य विहरति । यावद् विपश्यी सम्यक्संबुद्धः सकलबुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः । ततो राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमय ः स्तूपः प्रतिष्ठापितः क्रोशम् उच्चत्वेन । तत्र च राज्ञा बन्धुमता सपुत्रवर्गेण सामात्यगणपरिवृतेन स्तूपमहः कृतः । यावद् अन्यतमस्मिन् दिवसे ऽन्यतमो दरिद्रपुरुषः स्तूपाङ्गणं प्रविष्टस् तत्र तेन पुष्पाणि म्लानानि दृष्टानि रजसा वर्णश् च मलिनीकृतः । ततस् तेन बुद्धगुणा न् अ नुस्मृत्य प्रसादजातेन संमार्जनीं गृहीत्वा ( दक्: 212 ) स्तूपः संमृष्टो निर्माल्यं चापनीतम् । ततो ऽ पगतरज ं स्तूप ं निर्मलं दृष्ट्वा प्रसादजातः पादयोर् निपत्य प्रणिधानं कृतवान् ॥ अनेनाहं कुशलेन चित्तोत्पादेन एवंविधानां गुणानां लाभी भविस्या मि । एवंविधम् एव शास्तारम् आरागयेयम् मा विराग् अय् एयम् इति ॥
भगवान् आह ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन दरिद्रः पुरुष आसीद् अयं स वपुष्मान् । यतस् तेन स्तूपः संमृष्टः तेनाभिरूपः संवृत्तो यत् प्रणिधानं कृतं तेनेह जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति ॥ भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः । एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः । तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्म स्व् आभोगः करणीय इत्य् एवं वो भिक्षवः शिक्षितव्यम् ॥
॥ भिक्षवः पुनश् च शृणु त ॥
ये च निर्माल्यम् आकृष्य शोधयित्वात्र सर्वतः ।
समुपाश्रित्य सेवन्ते संबुद्धभक्तिमानसाः
निर्मुक्तक्लेशशोकास् ते दर्शनीयाः शुभेन्द्रियाः ।
श्रीमन्तः पुण्डरीकास्या भवेयुर् बोधिचारिण इति
तच् छ्रुत्वा भिक्षवः सर्वे तथागतेति संप्रमोदिताः ।
बभूवुस् ते ऽपि चात्यर्थं स्तूपभक्तिपरायणाः
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0