द्वाविंशत्यवदानकथा · श्लोक 18.11-23.4
भिक्षव एवं शिक्षितव्यं लोके अनुशासनीयम् ॥
इति द्वाविंशत्यवदानकथायां दीपकथा अष्टादशः परिच्छेदः ॥
xइx. विहारकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ।
भगवञ् छ्रोतुम् इच्छामि विहारदानस्य यत् फलम् ।
कस्मै चिद् आर्यश्रेष्ठाय गृहादि सुगताय च
भगवान् आह ॥
शृणु मैत्रेय विहारप्रासादिकास् तथागतसंबुद्धवासाय कारयन्ति तत्फलानुशंसा ं दर्शयिष्यामि ॥
अथ तस्मिन् समये तथागतानुभावेन राजगृहनगरजनकायाः सर्वे भगवतो दर्शनकामा अभूवन् ॥ तत् तथा भूत्वा सर्वे मागधा जनकाया गृद्धकूटे समायन्ति । तस्मिन् पर्षदि ये च देवा नागा अ सुरा यक्षा गन्धर्वा ः किन्नरा महोरगा ः संनिपतिता अभूवन् सा च पर्षदा बुद्धवैनेय-उदारचित्ताः साञ्जलिं बुद्ध ं नमस्कुर्वन्ति ॥ अद्य भगवता कीदृशं प्रातिहार्यं दर्शयिष्यतीति विचिन्त्य स्थिताः ॥ ततो भगवत एतद् अभवत् ॥
इदानीं राज्ञाजातशत्रुणा देवदत्तविग्राहितेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः । स्वयम् एव च राज्यं प्रतिष्ठितः । तदा ये ऽश्रद्धास् ते बलवन्तो जाताः श्रद्धास् तु दुर्बलाः संवृत्ता ः ॥
यावद् अन्यतमो वृद्धामात्यो ऽ श्रद्धो भगवतः शासनविद्वेषी । स अजातशत्रुर् ब्राह्मणेभ्यो यज्ञम् आरब्धो यष्टुम् ॥ तत्रानेकानि ब्राह्मणशतसहस्राणि संनिपति तानि । तैः क्रियाकारः कृतः ॥ न कैश् चिच् छ्रमणगौतमं दर्शनायोपसंक्रमितव्यम् । यदीह गच्छतीति पूजासत्कार ं मा कुरुत । पिण्डपात्रं मा प्रयच्छत ॥
अथ ते ब्राह्मणा वृता वरेयुः समग्रा ः संमोदमाना वीथिमध्ये वेदोक्तेन विधिना शक्रम् आयाचितुं प्रवृत्ताः । एह्य् एहि देवेन्द्रेति ॥
अथानन्तरे नास्ति किं चित् बुद्धानां भगवताम् अविदितम् अदृष्टम् अविज्ञातम् । बुद्धचक्षुषा पश्यति भगवन् ॥ इमे ब्राह्मणाः पूर्वारोपितकुशल् अमूल् आ गृहीतमोक्षमार्गाश् चरितैषिणो ऽभिमुखा निर्वाणे बहिर्मुखाः संसाराद् अकल्याणमित्रसंसर्गात् । इदानीं मच्छासने विद्वेषन्ति । यन् न्व् अहम् एषां विनयहेतोर् औत्सुक्यम् आपद्ये य येनार्थं, यन् न्व् अहं शक्रं देवेन्द्र ं मरुद्गणपरिवृतम् आह्वानयेयम्, यद्दर्शनाद् एषां कुशलमूलवृद्धिः स्याद् इति ॥ बत भो शक्र देवेन्द्र मरुद्गणसहाय गोशीर्षचन्दनमयं स्तम्भम् आदाय गच्छेति ॥
सहचित्तोत्पादाच् छक्रो देवेन्द्रो मरुद्गणपरिवृत आगतो यत्र विश्वकर्मा चत्वारश् च महाराजा अनेकदेवनागयक्षकुम्भाण्डपरिवृता गोशीर्षचन्दनमयस्तम्भम् आदाय हाहाकारकिलकिलाप्रक्ष् व् एडोच्चैर् नादं कुर्वणाः । भगवतो ऽर्थे गोशीर्षचन्दनमयं विहारम् अभिसंस्कृतवन्तः । ततस् तस्मिन् विहारे शक्रेण देवेन्द्रेण भगवान् सश्रावकसंघो दिव्येनाहारेण शयनासनेन दिव्यगन्धमाल्यविलेपनपुष्पधूपैः सत्कृतो गुरुकृतो मानितः पूजितः ॥ अथ एष शब्दो राजगृहे नगरे समन्ततो विसृतः ॥ गृद्धकूटे शक्रो देवेन्द्रो मरुद्गणेन सह भगवतो विहारम् अभिसंस्कृत्य सर्वदेवगणैर् मानितः पूजित इति ॥ यं श्रुत्वानेकानि प्राणिसहस्राणि संनिपतितानि ॥ ततो भगवान् आवर्जिता ब्राह्मणा इति विदित्वा - - सर्वे क्रिया कार ं भित्त्वा येन गृद्धकूटपर्वते भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य, एकान्ते निषण्णाः ॥ अथ ते ब्राह्मणा भगवतस् तां दिव्यां विभूतिं दृष्ट्वा परं विस्मयम् आपन्ना इमां चिन्ताम् आपेदे ॥ नूनं बुद्धो भगवांल् लोके ऽग्र्यो यन् नु नाम सेन्द्रैर् देवैः पूज्यत इत्य् आवर्जितमना पुनर् भगवतः पुरतो निषण्णा अभूवन् ॥
ततो भगवन् तादृशी ं चतुरार्यसत्यसंप्रतिवेधिकी ं धर्मदेशनां कृतवान् । यां श्रुत्वा षष्ट्या च ब्राह्मणसहस्राणि विंशतिशिखरसमुद्गत ं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्त्वा श्रोतापत्तिफलं साक्षात्कृतम् । अनेकैश् च प्राणिशतसहस्रैर् भगवति श्रद्धा प्रति लब्धा ॥ ततो भिक्षवो ये च मनुष्या देवगणास् तस्मिन् विहारे ऽत्यर्थं प्रसादम् उत्पादितास् ते तं विहारं त्यक्त्वान्यत्राभिगमनमनो नोत्सहन्ते ॥
ततो भगवांस् तं प्रासादम् {अन्तर्धापितं} अन्तर्धाप्य अनित्यताप्रतिसंयुक्तां तादृशी ं धर्मदेशनां कृतवान् ॥ संसार एवम् अनित्यता तस्मात् संसार ः शून्यं पञ्चस्कन्धम् एव शून्यं सर्वम् अनित्यता ॥ यां श्रुत्वानेकैर् ब्राह्मणैर् भगवन्तंम् आर्यसत्यदर्शनं कृतम् ॥ अनेकैश् च प्राणिशतसहस्रैर् मनुष्यैः श्रोतापत्तिफलान्य् अनुप्राप्तानि । कैश् चित् सकृदागामिफलानि । कैश् चिद् अनागामिफलानि । कैश् चित् प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतं । कैश् चिच् छ्रावकबोधौ चित्तम् उत्पादितम् । कैश्चित् प्रत्येकबोधौ । कैश् चिद् अनुत्तरायां सम्यक्संबोधौ । सर्वा च सा पर्षद् बुद्धनिम्ना धर्मश्रवणा संघप्राग्भारा व्यवस्थिता ॥
ततस् ते भिक्षवो भगवते दिव्यपूजादर्शनाद् आवर्जितमनसो भगवन्तं पप्रच्छुः ॥ कुत्रेमानि भगवता कुशलमूलानि कृतानीति ॥ भगवन् आह ॥
तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्प्रत्युपस्थितान्य् अवश्यभावीनि येन तथागतस्यैव ं विधा पूजा ॥ इच्छथ भिक्षवः श्रोतुम् ॥ एवं भदन्तेति तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसिकुरुत भाषिष्ये ऽहम् ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि सुरेन्द्रदमनो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स जनपदचारिकां चरन्न् अन्यतमराजधानीम् अनुप्राप्तः ॥ सा राजधानी तीर्थिकावष्टब्धा ॥
अ श्रौषीद् अन्यतमो राजा क्षत्रियो मूर्ध्नाभिषिक्तः सुरेन्द्रदमनः सम्यक्संबुद्धो ऽस्माकं विजितम् अनुप्राप्त इति ॥ श्रुत्वा च पुनर् माहत्य राजर्द्ध्या महता राजानुभावेन समन्वागतो येन सुरेन्द्रदमन ः सम्यक्संबुद्धस् तेनोपसंक्रान्त उपसंक्रम्य भगवतः सुरेन्द्रदमनस्य सम्यक्संबुद्धस्य पादौ ( दक्: 199 ) शिरसा वन्दित्वैकान्ते निषण्ण ः । एकान्ते निषण्ण ं राजानं क्षत्रियं मूर्ध्नाभिषिक्तं सुरेन्द्रदमन ः सम्यक्संबुद्धो बोधिकरकैर् धर्मैः समादापयति ॥
अथ स राजा क्षत्रियो मूर्ध्नाभिषिक्त उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथ्व्यां प्रतिष्ठाप्य येन सुरेन्द्रदमनः सम्यक्संबुद्धस् तेनाञ्जलिं प्रणम्य सुरेन्द्रदमनसम्यक्संबुद्धम् इदम् अवोचत् ॥ अधिवासयतु मे भगवंस् त्रैमास्यवासाय । अ हं भगवन्तम् उपस्थास्यामि चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैर् इति ॥
भगवान् आह ॥ अस्ति ते महाराज विजिते कश्चिद् विहारो यत्रागन्तुका गमिकाश् च भिक्षवो वासं कल्पयिष्यन्तीति ॥ राजोवाच ॥ नास्ति भगवन् । किं तर्हि तिष्ठतु भगवन् । अहं विहारं करिष्यामि यत्रागन्तुका गमिकाश् च भिक्षवो
वासं कल्पयिष्यन्ति ॥ ततो राज्ञा तथागतस्यार्थे विहारः कारितो ऽभूत् ।
आविद्धप्राकारतोरणो गवाक्षनिर्यूहजालार्धचन्द्रवेदिकाप्रतिमण्डित आस्तरणोपेतो जलाधारसंपूर्णस् तरुगणपरिवृतो नानापुष्पफलोपेतः । तथा कृत्वा च भगवतः सश्रावकसंघस्य निर्यातितो ऽधीष्टश् च भगवान् महाप्रातिहार्यं प्रति ॥
ततो भगवता सुरेन्द्रदमनसम्यक्संबुद्धेन राज्ञो ऽध्येषणं विदर्शितं नानाप्रातिहार्यं कृतं बुद्धावतंसविक्रीडितम् । यद्दर्शनाद् राजा सामात्यनैगमजनपदः सर्वे च नागराः सुप्रसन्नाः शासने संरक्तपराः संवृत्ताः ॥ किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं सः । मयास्य सुरेन्द्रदमनस्य सम्यक्संबुद्धस्यैवंविधा पूजा कृता । तस्य मे कर्मणो विपाकेन संसारे ऽनन्तसुखम् अनुभूतम् । इदानीं मे तथागतस्य सत इयं शासनशोभा ॥ तस्मात् तर्हि भिक्षवः शिक्षितव्यम् ॥
तथागतं सत्करिष्यामः ॥
महानुशंसा तथागतस्य विहारप्रासादगृहाणि दानस्य महाफलानुशंसा ॥
पुनः शृणुत ॥
सर्वर्तुरम्यवरहर्म्यतले नरेन्द्राः संगीतिगर्भजयगीतिगिरा रमन्ते ।
शुद्धान्तपालवनिताभिर् अशीततायाश् चातुर्दिशार्ययतिसंघविहारदानात्
प्रज्ञावज्रप्रहारप्रविदलितकलिक्ष्माधरस्य प्रसादात्
संघस्योद्दिश्य सर्वोपकरणसुभगं यो विहारं करोति ।
प्रासादे वैजयन्ते प्रवरमणिमयस्तम्भभित्तौ प्रियाभिः
सार्धं सर्वर्तुरम्ये चिरम् अभिरमते देवलोके स एव
श्रीमद्वितानवरपङ्क ज चित्रवस्त्रं नीलादिसंस्थगितभित्तिगृह ं प्रधानम् । दत्त्वा गणाय गुणिने प्रवराय शाक्रं प्रासादरत्नम् अधिगच्छति वैजयन्तम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0