भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · अध्याय 18

18.1

इति द्वाविंशत्यवदानकथायाम् उज्ज्वालिकादानकथा सप्तदशमः परिच्छेदः ॥
xविइइ. दीपकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥
भगवञ् छ्रोतुम् इच्छामि, दीपदानस्य यत् फलम् ।
स्तूपे वा बुद्धबिम्बे वा वद लोकार्थहेतवे

18.2

भगवान् क्षणं तूष्णीम् आस्थाय पर्षदं समालोक्य च मैत्रेयम् आमन्त्र्यैवम् आह ॥
शृणु मैत्रेय वक्ष्यामि लोकानां हितहेतवे ।
यच् छ्रुतं तत्कथां भव्यां श्रुत्वा प्रामोद्य जायते

18.3

भूतपूर्वं भिक्षवो ऽतीते ऽ ध्वानि एकनवतिकल्पे विपश्वी नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरनसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्यानां च बुद्धो भगवान् ॥ स बन्धुमतीं राजधानीम् उपनिश्रित्य विहरति स्म ॥ यावद् विपश्वी सम्यक्संबुद्धः सकलबुद्धकार्यं कृत्वेन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतस् तस्य राज्ञा बन्धुमता शरीरे शरीरपूजां कृत्वा समन्तयोजनश् चतूरत्नमयः स्तूपः प्रतिष्ठापितो ऽभूत् क्रोशम् उच्चत्वेन ॥
यत्रानेकानि प्राणिशतसहस्राणि कालं कृत्वा स्वर्गमोक्षपरायणानि भवन्ति ॥
तत्र स्तूपे महोत्साहो वर्तते । श्रद्धा ब्राह्मणगृहपतयो विचित्रैर् गन्धमाल्यविलेपनैश् छत्त्रध्वजपताकाभिः पूजाभिः कुर्वन्ति स्म ॥
अथापरेण समयेनास्यां नगर्याम् अन्यतमः पुरुषः करचरणयिहीनः कुष्ठशरीरः कुत्रापि गमनम् असमर्थः । ताम् एव वार्त्तां प्रतिश्रुत्य तस्यैतद् अभवत् ॥
अहो ब्राह्मणगृहपतय इमं स्तूपं प्रतिपूजयन्ति । तथाहम् एवं पूजयेयं पादपाणिविहीनो गमनासमर्थः कथं गच्छेयम् ॥ इत्य् उक्त्वा तस्य बुद्धिर् उत्पन्ना ॥ अद्य रात्रौ स्वकायविभवबलस्थाम संजनय्य गृहान् निष्क्रमयेयं निष्क्रम्य च यदि समर्थम् अस्ति तावत् प्रदक्षिणीक्रीयते ॥
इत्य् उक्त्वा रात्रौ चन्द्रचन्द्रिकाविराजमाने प्रभास्वरे कायस्थामबलं संजनय्य स्तूपस्य समीपं बलाधानेनानुप्राप्तः ॥ स स्त्यानमिद्धव्यथया परिपीडितगात्रो निश्वस्य भूमौ निपातितः ॥ अथ स पुरुष इमं स्तूपं नमस्कृत्य स्वयम् एवम् अङ्गपरिवर्तनेन प्रदक्षिणीकर्तुम् आरब्धः । ततस् ताम् एव रात्रिं सम्पूर्णम् अष्टोत्तरशतप्रदक्षिणं चकार ॥ अथास्य पुरुषस्य बौद्धप्रभावात् तत्क्षणं पादाङ्गुली सम्यक् भूत्वागताः । तथा करपल्लव ः स्वजो ऽभूत् । शरीरे कुष्ठा प्रश्रब्धा । पूर्वकर्मावरणं प्रणश्य अनेन दुष्करव्रतकुशलमूलेन शुद्धशरीरो ऽभूत् ॥
अथ स पुरुषः प्रसादजातः पुनर् अपि स्तूपे ऽष्टाङ्गप्रणामं कृत्वाथ प्रभाते मनोह्लादित ः प्रहसितवदनः स्वगृहं प्रत्यागतः ॥ अथ स्वगृहे पत्न्यादिपरिजनस् तम् आगतं दृष्ट्वावर्जितमना ऊचुः ॥ अहो क्व गतो ऽसि । कथं ते शरीरो दुष्कृतैः परिमुक्तः स्वस्थदेहो ऽहो भाग्यातिशयस्य कर्म यथैव पुनर्जन्म तथैव प्राप्तः । वैद्योषधैर् असंस्पृष्टः केन कुष्ठ ः प्रमुच्यते ॥
स आह ॥
वैद्योषधैः किं क्रियते महारोगप्रशान्तये ।
बुद्धेषु कृतपुण्येन तस्मात् पापं प्रमुञ्चति

18.4

अथ स खलु पुरुषस् तस्मिन् स्तूपे लक्षधा प्रदक्षिणं कृतः । तथा कृते स चिन्तयति स्म ॥ यन् न्व् अहं भगवतः स्तूपं तथाविधैः पूजयाभ्यर्य किम् एव न च पूजा नूनं यथात्मभावपरित्यागेनेति ॥ अङ्गीकृतम् इति ॥
तदनन्तरं मासे मासे शुक्लाष्टम्यां चतुर्दश्यां पञ्चदश्याम् उपोषधव्रतं वर्षम् एकं यथाविधिना पूजा कृता ॥ ततः कार्त्तिकपूर्णमास्याम् आरभ्याश्विनपूर्णमासीपर्यन्तम् उपवास्य स्वात्मभावं दीपयितुम् आरब्धवान् ॥
तत आकाशाच् छब्दो निश्चारित इदं वाचम् उदीरयन् ॥ एवम् आत्मभावं परित्यागं मा कुरु महादुष्करं परमदुष्करम् । त्वं च सर्वसत्त्वप्रियदर्शनबोधिसत्त्वसदृशो न भवति । तस्मात् त्वया न सुकरं कर्तुम् ॥
स आह ॥ कथम् एतत् ॥
पुनर् आकाशाद् एवम् उवाच ॥
भूतपूर्वं भगवांश् चन्द्रविमलसूर्यप्रभासश्रीस् तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभूत् । तस्य भगवतः सम्यक्संबुद्धस्य द्वाचत्वारिंशत्कल्पशतसहस्राणि आयुःप्रमाणम् अभूत् । तेषां बोधिसत्त्वानां महासत्त्वानां श्रावकानां तावद् एवायुःप्रमाणम् अभूत् ॥ तस्य पूजाकर्मणे सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वस् तस्यां वेलायां तथारूपं सर्वसत्त्वरूपदर्शन ं नाम समाधिं समापद्य तस्य समाधेः प्रभावात् समनन्तरसमापन्नस्याथ तावद् एवोपर्य् अन्तरीक्षान् मन्दारवमहामन्दारवाणां पुष्पानां महान्तं पुष्पवर्षम् अभिप्रवृष्टम् ॥ कालानुसारणचन्दनमेघ ः कृत उरगसारचन्दनवर्षम् अभिप्रवृष्टम् । तादृशः सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्व इमां सहालोकधातुं गन्धेन स्फारित ः ॥
अथ खलु सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वः स्मृतिमान् संप्रजानंस् तस्मात् समाधेर् व्युत्थितः । व्युत्थाय चैवं चिन्तयाम् आस ॥ न तथा ऋद्धिप्रातिहार्यं संदर्शनेन भगवतः पूजा कृता भवति यथात्मभावपरित्यागेनेति ॥
अथ खलु सर्वसत्त्वप्रियदर्शनो नाम बोधिसत्त्वस् तस्यां वेलायाम् अगुरुतुरुष्ककुन्दुरुकं संभज्य चम्पकतैलं पिबति स्म ॥ सततसमितं गन्धं भक्षयतः सुगन्धतैलं पिबतो द्वादशवर्षपर्यन्तान्य् अभूवन् । ततः स द्वादशवर्षाणाम् अत्ययात् तं स्वम् आत्मभावं दिव्यवस्त्रैः परिवेष् ट् य गन्धतैलप्लुतं कृत्वा कायं प्रज्वालयाम् आस तथागतस्य पूजकर्मणे ऽस्य च सद्धर्मपुण्डरीकपूजार्थम् ॥ अथ खलु तस्य बोधिसत्त्वस्य ताभिः कायप्रदीपमुक्तज्वलाप्रभाभिर् अशीतिगङ्गानदीवालुकासमा लोकधातवः स्फुटा अभूवन् ॥ तेषु लोकधातुष्व् अशीतिगङ्गानदीवालुकासमास् तथागताः साधुकारं ददन्ति स्म ॥ साधु साधु कुलपुत्र परमदुष्कर बोधिसत्त्वानां वीर्यारम्भ भूता तथागतपूजा धर्मपूजा । तथा
पुष्पधूपगन्धमाल्यविलेपनच्छत्त्रध्वजपटाकपूजा इदं कुलपुत्राग्रदानं तथा राज्यप्रियपुत्रभार्यादिपरित्यागदानं न ।
इयं पुनः कुलपुत्र विशिष्टाग्रा पूजा तस्मात् परम् अन्य न् नास्तीति ॥ ते बुद्धा इमां वाचं भाषित्वा तूष्णीम् अभूवन् ॥
तेन समयेन सर्वसत्त्वाप्रियदर्शनो नाम बोधिसत्त्वस्यात्मभावदीप्यमानस्य द्वादशवर्षसहस्राणाम् अत्ययेन प्रशान्तो ऽभूत् ॥ अथ ततश् च्युत्वा तस्य सम्यक्संबुद्धस्य प्रवचने राज्ञो विमलदत्तस्य गृहे उपपन्न औपपादुकः सर्वलक्षणगुणोपेत उत्सङ्गे पर्यङ्केन प्रादुर्भूतो ऽभूत् ॥
एवंरूपेण त्वया वीर्यारम्भं कर्तुं न सुकरम् । तस्मात् त्वम् आत्मभावानुरूपेण मनसा चिन्त्य स्वम् आत्मप्रकृतिं संसाज्य दिव्यवस्त्रेण परिवेष्ट्य षण्णवत्यङ्गुलायामप्रमाणेन महादीपनाम्ना प्रज्वालय तथा चापि दीपमालां प्रज्वालय ॥ एवंरूपेणाकाशाद् उदीरितं तेन चोक्तम् ॥ भवन् कस् त्वम् ॥
स आह ॥ अहं भगवान् स्वरूपो नान्यो द्रष्टव्यः ॥ पुनर् अपि हर्षजातः स आह ॥
भगवन्न् आत्मप्रतिज्ञां कथं लघयेयम् । येनात्मभावपरित्यागेन प्रज्वाल्य ममात्मभावेन सुष्ठु कृतं न मात्रा न पित्रा नान्यदेवताभिः ल् अपि तु तवानुभावाद् अद्यैव कर्मावरणं क्षयं गतम् ॥
अहो गुणमयं क्षेत्रं सर्वदोषविवर्जितम् ।
अद्यैवारोपितं बीजम् अद्यैव प्राप्त संपदम्

18.5

तस्माद् भगवन् स्वजीवितम् अगणयित्वा स्वात्मभावं परिदीपयितुम् इच्छामि ॥
पुनर् अप्य् आकाशाच् छब्दो निश्चचार ॥
साधु साधु पुरुषर्सभ त्वं दृढप्रतिज्ञो मया यथादृष्टं तथा कुरु । तथा कृते त्वत्कीर्तिर् यावत् संसारस् तिष्ठति तावत् तिष्ठतु । तथा कृते मारेण यस्यापि चित्तं स्खलितुं समर्थंन स्यात् ॥
इत्य् उक्ते स आकाशं व्यवलोकयति स्म । स पश्यति बुद्धबिम्बम् । क्षणेनान्तर्हितो ऽभूत् ॥ अथ स पुरुसः प्रीतिप्रामोद्यजात आकाशं व्यवलोक्य कृताञ्जलिं प्रणिपत्य स्थितः ॥ अथ स पुरुषः सत्यम् एव निश्चित्य स्वात्मभावेन दिव्यश्वेतवस्त्रेण परिवेष्ट्य स्वाङ्गप्रमाणेन सुगन्धद्रव्येणोपलिप्य महादीपेत्य् उक्त्वा विपश्विनस् तथागतस्य धातुस्तूपे दीपं प्रज्वालयाम् आस । दीपमालां चापि प्रकुर्वन्ति । कार्त्तिकमासम् एकं निरन्तरं सत्कारयाम् आस ॥
ततः स पुरुषस् तेन कुशलमूलेन च प्रणिधानवशाद् दीपार्चिषलोकधातौ दीपराजो नाम प्रत्येकबुद्ध उपपन्नः पञ्चाभिज्ञाप्राप्तः ॥ ततः स प्रत्येकबुद्धः संसारम् असारम् इति ज्ञात्वा विद्युद् इव प्रातिहार्यं कृत्वा विहायसं सप्ततालमात्रम् अभ्युद्गम्य च तेजोधातुं समापद्योल्केव परिनिर्वाति स्म ॥ यत् तस्य पित्तश्लेष्ममांसास्थिस्नायुरुधिरं तत् सर्वं तेजसा पर्यवदातम् अगमच् छुद्धशरीरो ऽभूत् ॥ एवंरूपेण संसारे ऽनन्तसुखम् अनुप्राप्य निर्वाणभूमिं गच्छति स्म ॥
दीपदानस्य महापुण्यता महानुशंसा प्रतिलभ्यते ऽनेकविपाका भिक्षवः ॥
पुनर् विस्तरेण शृणुत ॥
धराधरतिरस्कृतं परमदूरदेशस्थितं
सुसूक्ष्मम् अपि वस्तु चातितिमिरोत्करैर् आवृतम् ।
कराग्र इव स स्थितं यद् अनिरुद्धदृष्टं दिशो
ददर्श सुगते महाद्युतिप्रदीपदानात् फलम्

18.6

दूरं सूक्ष्म ं व्यवस्थितं दृश्यं पश्यन्ति ये जनाः ।
जिनप्रदीपमालायास् तत् फलं मुनयो जगुः

18.7

दृश्यन्ते यत् क्षितीशाः शशधरवपुषो दीर्घनीलोत्पलाक्षा
देवा यद् देवलोकं वरकनकनिभा भासयन्ति स्वकान्त्या ।
राजा यच् चक्रवर्त्ल् मणिकिरणशतैर् भासयन् गां प्रयाति
तत् सर्वं दीपदानाद् भवति तनुभृतां बुद्धभट्टारकाय

18.8

लोके यद् भान्ति मर्त्याः कुवलयनयनाः सुभ्रुवो हेमवर्णाः
शक्रो यद् देवराजो दशशतनयनो भाति दिव्यासनस्थः ।
यद् ब्रह्मा वीतकामः प्रवरसुरनतो भाति दिव्ये विमाने
दत्त्वा तद् दीपमालां प्रभवति सुफलं शस्तृचैत्ये नराणाम्

18.9

एवं बहुगुणं मत्वा दीपदानप्रभावतः ।
चैकम् अपि प्रदद्याद् यस् तत् सर्वं फलम् ईहया

18.10

सुरूपो भवति नयनाभिरामो नारीनराणां अभिवीक्षणीयो भवति ॥ एवम् एव भिक्षवो मनुजैर् महद्भि र् नित्यम् एव पूजाकर्मकाले दीपैः सह कर्म कर्तव्यम् ॥
देवार्चने भोजने सम्यक् पादप्रक्षालणेन च ।
देवगेहे प्रवेशेषु शयनेषु तथैव च

18.11

शीलाभरणयुक्तेन सर्वकर्म प्रशस्यते ।
आत्मशोचं पुनः कुर्याद् बाह्यं शोचं च लौकिकम्

18.12

लौकिकलोकोत्तरं लोके यः करोति पवित्रमान् ।
इहलोके यशस्वी च परलोके परं सुखम्

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc