द्वाविंशत्यवदानकथा · अध्याय 17
एवं शिक्षितव्यं कृष्णानि कर्माण्य् अपास्य शुक्लेष्व् एव स्वाभोगः करणीय इत्य् एवं भिक्षवः शिक्षितव्यं ॥ इदं अवोचद् भगवान् आत्मना च भिक्षवो भाषितम् अभ्यनन्दन्न् इति ॥
इति द्वाविंशत्यवदानकथायां प्रणामकथा सोडसमः परिच्छेदः ॥
xविइ. उज्ज्वालिकादानकथा
अथ खलु भगवान् लोकानुकम्पको लोकज्ञो लोकशास्ता सर्वज्ञो ध्यानसुखे विजहार ॥ तेन समयेन वैशालीनगर्यां महोपद्रवाः प्रादुर्भूताः ॥
तदात्र पौरलोकाश् च सर्वे कामातिलालसाः ।
यथाकामं रसं भुक्त्वा प्राचरन् पापसंगतम्
ततः क्षत्रियो ऽप्य् एवं कामभोगाभिमोहितः ।
प्रमदागणसंरक्तो नीतिधर्मनिरादरः
दृष्त्वा स सुन्दरीं कान्ताम् अगम्याम् अपि मोहितः ।
बलेनापि समाकृष्य बुभुजे स्वेच्छया मुदा
तथाते सर्वपौराश् च सर्वे ऽतिक्लेशिताशयाः ।
सद्धर्माणि प्रतिक्षिप्य प्राचरन् कामभोगिनः
स्वकुलधर्ममर्यादं त्यक्त्वाचरन् यथेच्छया ।
सत्यधर्मं प्रतिक्षिप्य चेरुर् मत्तद्विपा इव
तथा नारीगणाश् चापि कामक्लेशाकुलाशयाः ।
स्वकुलधर्मम् उत्सृज्य प्राचरन्ति यथेप्षितम्
तदात्र बहवो दुष्टाश् चौरा धूर्ता ः प्रगल्भिकाः ।
साधुजनान् प्रतिक्षिप्याचरन् धर्मनिरादराः
तदैव पापसंचारात् सर्वत्राप्य् अचरत् कलिः ।
सद्धर्मो दुर्बलीभूतो नीचवद् विलयं ययौ
तदात्र प्रबलीभूते कलिसंचार वर्तिते ।
दृष्ट्वा लोकाधिपाः सर्वे ऽभवन् दुष्टपराङ्मुखाः
एवम् अन्ये ऽपि देवाश् च सर्वत्राणपराङ्मुखाः ।
तेषां संदर्शनं कर्तुम् अपि नैव ववाञ्छिरे
तेषां त्रातुं तदेको ऽपि न शसक कथं चन ।
एवम् अत्र महोत्पातं प्रावर्तत समन्ततः
सर्वक्लेशाहतात्मानः प्रचक्रु विग्रहं मिथः ।
तेषां पापविशेषेण प्रादुर्भूता उपद्रवाः
ततो ऽन्धकाराश् च प्रादुर्भूता मेघैश् छन्नाः । महती चाकालवाताशनि र् मेघैर् गुडुगुडायते । विद्युतश् च निश्चरन्ति । दश दिशश् चाकुलीभूतास् तमोऽन्धकारश् च प्रादुर्भूतः । चन्द्रसूर्यौ न प्रभास्वरौ भवतः । वातवृष्टिः प्रवायति । जलाकुलीभूता प्रलयकालम् इव पृथिवी न दृधा च कैश् चिद् भूतैर् आविष्टाभूत् ॥ तदा सर्वजनकाया भीताः संविग्नमनसः । ये के चिद् ब्राह्मणगृहपतयो ब्रह्माणं नमस्यन्ति । के चिन् महेश्वरं नारायणं शक्रं माणिभद्रं हारीतिं चन्द्रसूर्यग्रहनक्षत्रान् नमस्यमाना याचयन्ति ॥ के चिन् नदीह्रदसरस्तडागवापीकूपादीनि परियाचयन्ति । तथापि न कश् चित् परित्राणं भवति ॥
( दक्: 176 ) अथ के चिद् बुद्धधर्मसंघाभिप्रसन्ना बुद्धधर्मसंघान् नमस्यन्ति ॥
भगवन् सर्वदर्शी त्वं । कथम् अस्माद् वयम् एवंरूपाद् उपद्रवतो भयस्थानात् परिमुच्येम ।
भगवन् नाथ ईदृशाद् उपद्रवात् त्राता भव ॥
इत्य् उक्त्वा बौद्धाय नमस्कारं कृत्वा चिन्तापरो व्यवस्थितः ॥ अत्रान्तरे नास्ति किं चिद् बुद्धानां भगवताम् अविदितम् अविज्ञातम् । धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तिकानाम्, एकाकाररक्षाणां, शमथविपश्यनाविहारिणां, त्रिदमथवस्तुकुशलानां, चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितानां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां, पञ्चा ङ्ग विप्रहीणानां पञ्चगतिसमतिक्रान्तानां, षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां, सप्तबोध्यङ्गकुसुमाढ्यानां, अष्टाङ्गमार्गदर्शानां नवानुपूर्वविहारसमापत्तिकुशलानां, दशबलबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्रिरात्रेस् त्रिदिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते । को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकटप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंबाधप्राप्तः कस्य दुःखपङ्कनिमग्नस्य हस्तोद्धारं दद्याम् उद्धारयेयम् इति ॥
अथ तत्क्षणम् एव प्रतिसरन्न् अभ्युत्थाय, आयुष्मदानन्दप्रमुखान् भिक्षुसंघान् आमन्त्रयते स्म ॥ भो भिक्षव आनन्दप्रमुखा वैशालीनगरीं गत्वा ममाज्ञया मम वचनेन वैशालीनगरीं गत्वा वीथीमध्ये निषण्णा इमां गाथां भाषय त । तदावश्यं सर्वविघ्नभूतग्रहा ः प्रतिप्रशब्धेयुः सर्वोपद्रवा दुष्टसत्त्वा ः पलायिष्यन्ति । तद्यथा । इमाश् च गाथा ः ।
विसरत विसरत दुष्टसत्त्वा मुञ्चत मुञ्चत मा तिष्ठन्तु, ईति र् व्युपशाम्यतु ॥
इति उद्दिश्य भिक्षुगणान् विसर्जयाम् आस ॥
अथ ते भिक्षवो भगवतश् चरणयोः प्रणिपत्य भगवतः वचनं शिरसा निधाय, इमा विघ्नोत्सारणधारणी हृदयगता ॥ तत्क्षणम् एवर्द्ध्या च वैहायसाद् आनन्दप्रमुखाः पञ्चशतभिक्षुगणा लोहितपक्षराजहंस इव गगणदेशात् तं विषयम् अनुप्राप्ताः ॥ अथानन्दप्रमुखा भिक्षुगणा वैशालीनगरीं गत्वा वीथीमध्ये स्थित्वा ब्रह्मस्वरेण एकमतेनैकस्वरेण इमां गाथां भाषितुम् आरब्धाः ॥
( दक्: 178 ) इमाश् च गाथाः ॥
विसरत विसरत । बुद्धो लोकानुकम्पक आज्ञापयति । मुञ्चत
मुञ्चत म तिष्ठन्तु । ईतिर् व्युपशाम्यतु । निर्गच्छत निर्गच्छत ।
बुद्धः पर्विशति महादेवातिदेवगुरुः । सेन्द्राश् च देवाः सब्रह्मकाः सप्रजापतिकश् चत्वारश् च लोकपाला ः प्रविशन्ति अनेकानि च देवतासहस्राणि । असुरेन्द्राश् च अनेकानि असुरशतसहस्राणि प्रतिवसन्ति । बहूनि च भूतसहस्राणि भगवतो ऽभिप्रसन्नानि प्रभविष्यन्ति सर्वसत्त्वानाम् अर्थे । ते चो मा अनर्थं करिष्यन्ति ॥
निर्गच्छत निर्गच्छत । क्षिप्रं पलायत । यदि दुष्टचित्ता न परायेत, नश्यत ॥ ये मैत्रचित्ता नापराधकामा रक्षां चानुवर्तितुकामास् ते तिष्ठन्तु प्रविशन्तु । बुद्धो लोकानुकम्पक एवम् आज्ञापयति सर्वसत्त्वहिताध्याशयो मैत्रीविहारी कारुणिकविहारी मुदिताविहरी उपेक्षाविहारी ॥
एते मन्त्रपदाः सिद्धाः सिद्धगाथा जिनोदिताः ।
सर्वेषां देवतानां च भूतानां च हितैषिणाम्
ज्ञानेनार्थोत्तमेनाद्य तथा धर्मतयापि च ।
जगताम् ईतयः सर्वाः शाम्यन्त्व् आरोग्यम् अस्तु वः
इति भाष्यमाणे सर्वभूतगणा ः संत्रस्ताः सम्विग्नमनसो दश दिशः पलायित्वा विलयं गता दुष्टसत्त्वा विहेथचित्ता ः कुपितचित्ताः प्रतिप्रशब्धा अभूवन् ॥ तदा च विहायसि घनविद्युवातवृष्टिजलाकुलप्रशान्ताभूत् ॥
फलपुष्पप्रतिमण्डितसुरसस्वादूनि चाभूवन् ॥
एवं बुद्धानुभावेन तस्यां नगर्यां सर्वोपद्रवदुर्भिक्षं प्रशान्त्य, सर्व ऋतवो यथाभिप्रायं काले तथा समृध्यति काले वर्षति काले वायवः प्रवायन्ति ॥
तदा सर्वजनकायाः प्रहर्षजाताः सर्वभिक्षुगणान् वासेन भक्तेन निमन्त्रिता अ भू वन् ॥
अथ खलु भिक्षव आनन्दप्रभृतयो वर्षात्ययाच् छरदः शरदात्ययाच् चतुर्मासात्ययाच् छिशिरः समायातः तदा जनकायान् एवम् आह ॥ वयम् अपि मासचतुष्टयम् अगमत् अत्रास्थिता गुरोर् अन्तिकं गच्छामः ॥
इत्य् उक्ते सर्वजनकाया भिक्षुगणान् गमनकालम् अपि ज्ञात्वा सत्कृत्य पूजयित्वा मानयित्वा विसर्जयाम् आसुः ॥
अथ ते भिक्षवो धीरतया नगरं नगराच् चंक्रम्यमाणा अन्यतमजनपदविषयम् अनुप्राप्ताः ॥
अथ तस्मिञ् जनपदे महाढ्यो धनकनकसमृद्धो महाभोगो विस्तीर्णपरिग्रहो महात्यागो महापरिवारः शुद्धाशयो धर्मात्मा परोपकारी श्रमणब्राह्मणवणीपकेष्व् अभिरतो दुःखीनां दुःखतारको महाकरुणादृष्टः शुद्धचेतो नाम श्रेष्ठी द्वात्रिंशताभिर् वनिताभिः परिवृतः सुखलीलया तिष्ठति ॥ काले त्याग ः काले उपाभोगः ॥ स श्रेष्ठी तान् भिक्षून् समागतान् दृष्ट्वा शीतार्तेनागतम् इति ज्ञात्वातिकरुणाभिभूतः सादरैर् अग्निमथे नीत्वा उज्ज्वालिकां प्रज्वाल्य ददाति । तेन श्रेष्ठिना बहवो ऽग्निमठाः कारिताः सन्ति । तस्मात् पञ्चशतभिक्षुगणा अग्नितापैः संतर्पिताः ॥ ततः पश्चाद् अन्नाहाराः प्रदत्ताः । ते भिक्षवस् तद् अन्नं न भुक्ता ः । तद् दृष्ट्वा स श्रेष्ठी तान् उवाच ॥ केन भिक्षवो मया दत्तान्नं नोपभुक्तम् ॥
भिक्षव ऊचुः ॥ बुद्धो भिक्षवो यम् अकाले न भोक्तव्यं सूर्यास्तनिशाकालम् इति ॥
ततः स श्रेष्ठी तथेत्य् उक्त्वा गृहं प्रविशति ॥
अथ स रात्र्यत्ययात् प्रातःकाले यथायोग्यानुसारैः पिण्डपात्रादि दत्त्वा तान् सत्कारयाम् आस ॥
अथ ते भिक्षवस् तं गृहीत्वा तस्मै शुद्धाशिषं दत्त्वा गमिष्याम इत्य् आरोच्य तस्मात् स्थानान् निष्क्रान्ताः । निष्क्रम्य येन गृद्धकूते भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः ॥
अथानन्दभिक्षुर् उत्थायासनाद् भगवतः प्रतः स्थित्वैवम् आह ॥ भगवन् सर्वज्ञ यथा भवदाज्ञा तथा वैशालीनगर्यां सर्वा ईतयः प्रशान्ता अभूवन् ॥
तव प्रभावाद् इति कृत्वा वयम् अत्रागता स्म ॥
भगवान् आह ॥ साधु साधु आनन्द साधु साधु भिक्षवः । एवं परार्थकृते उद्योगकरणीयम् ॥
पुनर् भगवन्तम् आनन्द आह ॥
भगवन् वैशालीनगर्यां निवृत्तकाले ऽन्यतमजनपदविषयम् अनुप्राप्ताः । तां नगरीं वयम् अगमत् । अन्यतमश्रेष्ठी आढ्यो ऽस्मान् शीतवातपरिश्रमाद् आगतान् दृष्ट्वा सादरेणाहूय, आदाव् अग्निमठे प्रणीयाग्निं प्रज्वाल्य ददाति । बहवो ऽग्निमठाः सन्ति ॥ श्रेष्ठी परमधार्मिको ऽसौ पुरुसः । ये ये श्रमणब्राह्मणतीर्थिकाश् चागतास् तेभ्यः सर्वेभ्य उज्ज्वालिका म् प्रज्वाल्य ददाति हेमन्तशिशिरकाले ऽसौ श्रद्धया ॥
भगवान् आह ॥ महाफलानुशंसा उज्ज्वालिकायाः शिशिरागमे ऽमृतोपमा तस्मान् महाफलानुशंसा उज्ज्वलिकायाः शृणुत भिक्षवः कथयामि ॥
नानासारङ्गरूपप्रभवमृदुमहद्रोमसंश्लाघ्यवस्त्रा
हेमन्ते गर्भगेहे प्रियतमवनिताबाहुयुग्मोपगूढाः ।
यत् क्रीडन्ति क्षितीशा विविधरसवरैर् अन्नपानैः समृद्धास् त त् स्याद् उज्ज्वालिकायाः फलम् अतिमधुरं भिक्षुसंघार्पितायाः
ज्वालातरङ्गविकसद्दहनोपगूढां भीमस्वनां शिशिरशीतविनाशकर्त्रीम् । उज्ज्वालिकां मुनिवरप्रवराय दत्त्वा दीप्तप्रभो भवति देवमनुष्यलोके
गन्धर्वासुरकिन्नरैः सहचरा देदीप्यमानानना
विद्युज्ज्वालशरच्छशाङ्कसदृशा ः कान्ताभिर् आलिङ्गिताः ।
स्वर्गे यद् विचरन्ति दीप्तवपुषो लीलायमानाः सुरास्
तद् दत्त्वार्यगनाय शीतसमये चोज्ज्वालिकां श्रद्धया
जित्वा रिपून् ये गजवाजियुक्ता ः पृथ्वीं समन्ताद् अनुशासयन्ति ।
दीप्तानना हेमविभूषिताङ्गा उज्ज्वालिकायाः फलम् एव तेषाम्
ते तादृशं चेत् फल प्राप्तुकामा उज्ज्वालिकां ये मनुजाः प्रदेयुः ।
हेमन्तशीते ऽग्निमठानि कृत्वा भिक्ष्वादये चार्यगणाय नित्यम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0