भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · अध्याय 14

14.1

इति द्वाविंशत्यवदानकथायां पानकथा त्रयोदशमः परिच्छेदः ॥
xइव्. वस्त्रकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥
श्रोतुम् इच्छामि तन् नाथ तव वचो ऽमृतोपमम् ।
वस्त्राणां च कथां भव्यां कथयस्व महाविभो

14.2

भगवान् आह ॥
शृणु मैत्रेय वक्ष्ये ऽहं वस्त्रदानस्य वर्णनम् ।
कथिनवस्त्रदानेन सह वस्त्रेण जायते

14.3

एकस्मिन्न् अन्तरे काले कपिलवस्तुनि विहरामि न्यग्रोधारामे सश्रावकसंघः ॥
तस्मिन् कपिलवस्तुनि महानगरवरे, अन्यतमः शाक्येषु रोहिणो नाम शाक्यः प्रतिवसति, आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणप्रतिस्पर्धी । तस्य पत्न्या न पुत्रो न दुहिता । स करे कपोलं कृत्वा चिन्तापरो व्यवस्थितः । अनेकधनसमुदितं मे गृहं न च मे पुत्रो न दुहिता । ममात्ययाद् अवश्यम् एव सर्वस्वं राजविधेयं भविस्यति । इति मत्वातीव परिदेवते, परमव्याकुली अभूत् ॥
अथास्य दैवयोगाद् अचिरेणान्यतमदेवनिकायाच् च्युत्वा तस्याः प्रजापत्याः कुक्षिम् अवक्रान्ता । ततस् तया स्वामी निवेदितः । ततः स्वामिनैवं विदितं ततः स्वामिनोच्यते ॥ भद्रे यदि पुत्रं जनिष्यसीत्य् एवं कुशलम् । अथ दुहितरं तयैव सह त्वां निष्कासयामीति ॥
यावद् अष्टानां नवानां वा मासानाम् अत्ययात् प्रसूता दारिका जाता अभिरूपा प्रासादिका अतिक्रान्ता मनुष्यवर्णम् असंप्राप्ता च दिव्यवर्णशुक्लवस्त्रैः प्रावृता अलिप्ता गर्भमलेन । यावद् रोहिणेन श्रुतं प्रजापती ते प्रसूता दारिका जातेति । स कुपितः प्रविष्टः । ततो ऽस्य प्रजापत्या दिव्यवस्त्रप्रावृता दारिकोपनीता । ततो रोहिणः शाक्यो दारिकां दृष्ट्वा परं विस्मयम् आपनः ॥
अहो आश्चर्य मे पुत्री कीदृशी रूपशोभिता ।
वस्त्रेण सह जातासौ केन कर्मण जायते

14.4

ततस् तस्या जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापितं, शुक्लवस्त्रप्रावृता तस्माद् भवतु दारिकाया ः शुक्लेति नाम स्थापिता ॥ सा दारिका क्रमतो उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इय पङ्कजम् ॥ यथा यथा च शुक्ला दारिका वर्धते तथा तथा तान्य् अपि वस्त्राणि वर्ध न् ते, न च मलिनी भवन्ति न चास्या कायो मलेनाभिभूयते ॥
यदा शुक्ला दारिका क्रमेण महती संवृत्ता तदास्या बहवः कुमारा भार्यार्थे याचनका आगच्छन्ति राजपुत्रा अमात्यपुत्राश् च । ततस् तैर् उपद्रूयमाणः पिता चास्या ः करे कपोलं दत्त्वा चिन्तापरो व्यवस्थितः । यद्य् एकस्मै दास्यामि, अन्ये मे ऽमित्रा भविष्यन्तीति ॥
यावद् असौ दारिका पितरं चिन्तापरम् अवेक्ष्योवाच ॥ तात किम् असि चिन्तापर इति । तेन सो ऽर्थो विस्तरेण समाख्यातः ।
शृणु चिन्तापरस्यार्थं कथयामि दारिके न्व् अहम् ।
त्वाम् एव सह धर्माय राजपुत्राः समागताः

14.5

बहवो ऽमात्यपुत्राश् च, आगच्छन्ति दिने दिने ।
तस्माच् चिन्तापरो ऽभूवं कस्मै दास्याम्य् अहं नु भो

14.6

दारिका कथयति तात न ते शोकः कर्तव्यो नाहं कामेनार्थिनी ॥ यतश् च ॥
कामोपभोग्यधनधान्यशरीरगेहं सर्वं ह्य् अनर्थम् अतिचञ्चलभङ्गुरं च
।
सौदामनीव जगतां क्षणमात्रहृद्यं दृष्ट्वाप्य् अनर्थं सुगते खलु
संव्रजामि

14.7

अनित्य संसारम् अनित्य कोषम् अनित्य सौहृद्य सपुत्रदारा ।
अनित्य राज्यं विविधोपभोग्यं संसारके सर्वम् अनित्यम् एव

14.8

तस्मात् सुसारं खलु पुण्यम् एव बन्धुर् न पुण्याद् अपरो ऽस्ति कश् चित् ।
दीपश् च रात्रौ सघनान्धकारे सुखप्रदाता कलुषप्रहर्ता

14.9

ततो तस्माद् भगवच्छासने प्रव्रजिष्यामि, अनुजानीहि मां तातेति ॥ यावद् असौ माता पितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता । येनैव वस्त्रेण प्रवृता जाता तत् तेनैवं परिपूर्णं पञ्चचीवर ं संपन्न म् । तया युज्यमानया घटमानया व्यायच्छमानया, इदम् एव पञ्चगण्डकसंसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकरणविध्वंसनधर्मतया प्राहत्य सर्वक्लेशप्रहाणाद् अर्हत्त्वं साक्षात्कृतम् । अर्हन्ती संवृत्ता, त्रैधातुकवीतरागा समलोष्टकाञ्चना आकाशपाणितलसमचित्ता वासीचन्दनकल्पा विद्याविदारिताण्डकोशा विद्याभि ज्ञा प्रतिसंवित्प्राप्ता भवलाभलोभसत्कारपराङ्मुखा ( दक्: 145 ) सेन्द्रोपेन्द्राणां देवानां पूज्या मन्याभिवाद्या च संवृत्ता ॥ तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः ॥ कानि भदन्त शुक्लया कर्माणि कृतानि यनाढ्ये कुले जाताभिरूपा दर्शनीया प्रासादिका शुक्लवस्त्रप्रावृता जाता प्रव्रज्य चार्हत्त्वं साक्षात्कृतम् इति ॥
भगवान् आह ॥ शुक्ल् अय् ऐव भिक्षवः पूर्वम् अन्यासु जातिषु कर्मणि कृतान्य् उपचितानि विपच्यन्ते शुभान्य् अशुभानि । तच् छृणु ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुसदम्यसारथिः शास्ता देवानां च मनुष्याणां च
बुद्धो भगवान् वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिपतने मृगदावे ।
यावद् अन्यतरा श्रेष्ठिभार्या श्रद्धा भद्रा कल्याणाशया, केन चिद् एव करणीयेन ऋषिपतनं गता ॥
अथासौ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्या चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं ( दक्: 146 ) समन्ततो भद्रकं सहदर्शनाच् च भगवतः पादाभिवन्दनं कृत्वा पुरस्तान् निषण्णा धर्मश्रवणाय । ततो ऽस्या भगवता काश्यपेन धर्मो देशितस् तया लब्धप्रसादया भगवन्तं सश्रावकसंघ ं मम गृहे पूजायामि । इत्य् उक्त्वा सा भिक्षुसंघाय कथिनचीवरम् अनुप्रदत्तं क्रमेण च मातापितराव् अनुज्ञाप्य भगवच्छासने प्रव्रजिता ॥
किं मन्यध्वे भिक्षवो यासौ श्रेष्ठिभार्या, एषैवासौ शुक्ला भिक्षुणी । यद् अनया भिक्षुसंघाय कथिनचीवरम् अनुप्रदत्तं तेन शुक्लवस्त्रप्रावृता जाता । यद् ब्रह्मचर्यवासः परिपालितस् तेनेह जन्मन्य् अर्हत्त्वं साक्षात्कृतम् इति ॥
वस्त्रप्रदानस्य महानुशंसा मनुष्यलोकेषु च देवलोके ।
यत् काङ्क्षवस्त्रं तद् एव लभन्ते ये चैव लोकाः खलु भक्तिपूर्वैः

14.10

ये नीलपीतहरितारुणशुक्लचित्रवर्णप्रभेदरचितो ज् ज्वलवस्त्रमालाम् । यच्छन्ति लोकगुरवे सगणोत्तमाय ते प्राप्नुवन्त्य् अभिमतप्रवराम्बराणि

14.11

यः संघायाशेषगणानां प्रवराय श्राद्धो भक्त्या चीवरमालां प्रददाति । स प्राप्नोति ह्रीवसनं वस्त्रवरिष्ठं काषायं च क्लेशकषायप्रतिपक्षम्

14.12

दत्त्वा सत्पिङ्गचित्रस्तबकविरचिता नीलपीतावदातै
रक्तैर् अन्यैश् च रम्यैः सुरुचिरवसनैश् चीवरैश् चारुमाला ः ।
दिव्यं वामुक्तवस्त्रं सुगतसुतगणायाभिरूपो मनोज्ञो
ह्रीवस्त्रालंकृतात्मा भवति पटुमतिः सर्वधर्मेश्वरः सः

14.13

पुनश् च ॥
ग्रीवाशिरश्चरणबाहुसमाश्रितस्य वैडूर्यहाटकमयस्य समुक्तकस्य ।
गात्रस्य भूषणविधेर् दिवि वा क्षितौ वा श्रेष्ठं विभूषणम् अतः प्रवदन्ति
वस्त्रम्

14.14

न केवलम् ॥
रूपान्वितो ऽ पि कुलजो ऽ पि विचक्षणो ऽ पि
लोकेषु शास्त्रमय _ ^ कृतश्रमो ऽ पि ।
शीलादिभिर् गुणगणैः समलंकृतो ऽ पि
न भ्राजते दिवि सुवस्त्रम् ऋते मनुष्यः

14.15

तस्माद् विभूषणम् अतुल्यम् अवेक्ष्य वस्त्रं
शीतोष्णतामसकसंप्रतिवारणं च ।
ह्रीवस्त्रम् अप्रतिसमं समवाप्तुकामैर्
वस्त्रप्रदानम् असकृन् मनुजैः प्रदेयम्

14.16

चन्द्रांशुविस्फुरितचामरहेमदण्डैः
सिंहासने परिनिषद्य सितातपत्रैः ।
सौवर्णरत्नमकुटैः शिरभूषितो ऽ पि
श्रीचक्रवर्तिर् अपि वस्त्रम् ऋते न भाति

14.17

श्रीमद्धनेन्द्रनिवसत्यलकापुरे च
जिह्वासहस्रफणिभूषितभोगवत्याम् ।
कैलासमेरुशिखरे सुरसंघमध्ये
ब्रह्मेन्द्ररुद्रम् अपि वस्त्रम् ऋते न भाति

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc