भाषा

ENहिગુ
ग्रंथ पाठ

द्वाविंशत्यवदानकथा · श्लोक 14.13-15

1

एवं भिक्षवः कृष्णानि कर्माण्य् अपास्य, शुक्लेष्व् एव कर्मस्वाभोग ः करणीय इत्य् एवं भिक्षवः शिक्षितव्यम् ॥
इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भाषितम् अभ्यनन्दन्न् इति ॥
इति द्वाविंशत्यवदानकथायां वस्त्रकथा चतुर्दशमः परिच्छेदः ॥
xव्. पुष्पकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥
भगवञ् श्रोतुम् इच्छामि पुष्पस्यारोहणं फलम् ।
पुष्पाणां वर्णभेदेन भाषस्व कौसुमां कथाम्

2

भगवान् आह ॥
शक्राधिका ः प्रवरभोगसमन्वितास् ते
पद्मेन्दुकान्तिवपुषो वरकीर्तियुक्ताः ।
शक्रान् विजित्य रभसा सततं भवन्ति
बुद्धाय ये सुकुसुमैः प्रकिरन्ति पूजाम्

3

एवं बहुगुणं मत्वा मत्वा महाफलं पुनः ।
बुद्धपूजां प्रकुर्वन्तु विविधैः कुसुमैर् नराः

4

तद्यथा ॥
अस्ति देवेषु त्रायत्रिंशेषु कुसुमगन्धिनी नाम देवकन्या । सा पुष्पविमानम् आरुह्य स्वर्गं स्वर्गाद् भ्रमति पञ्चशतदेवकन्यासहायपरिवृता ॥ ततः क्रमतः सा कुसुमगन्धिनी देवकन्या शक्रस्य देवेन्द्रस्य सुधर्मया देवसभायाः समीपम् उपसंक्रान्ता ॥ अथ दूराद् ददर्श शक्रो देवेन्द्रस् तां देवकन्यां नानापुष्पविमानालंकृताम् उत्तप्तकुशलमूलां दृष्ट्वा गाथया प्रत्यभाषत ॥
अहो आश्चर्यमहानुभाव म् कुशलमूल म् यस्या देवकन्यायाह् ॥
अथ सा कुसुमगन्धिनी देवकन्या तेजसा प्रभया शरस्य देवेन्द्रस्य प्रभा ं दिव्यां प्रशान्ता, यथा शरत्काले धवलमेघै ः प्रच्छन्नशशी तथाभूत् ॥ अथ स सुधर्मो देवपुत्रस् तां दृष्ट्वावर्जितमनाः कथयति ॥
गात्रं केन विमृष्टकाञ्चननिभं वक्त्रं च चन्द्रोपमं
गात्रश्रीर् अतुला सुकान्तिविभवा शक्राधिका निःसृता ।
सौगन्धं सुरभिं सुदेहम् अतुलं यस्या दृषौ नो भवेत्
धन्यैषा कुशलाकृता कथम् अहो स्वर्गोपपन्ना त्व् इति

5

भिक्षवो भगवन्तम् एतद् अवोचत् ॥ भगवन् न् अस्याः कुसुमगन्धिन्या देवकन्यायाः कुतोजन्मोत्पत्तिनामाभिश्रोतुम् अभिलषन्ति तज्जनौघाः ॥
भगवान् आह ॥
भूतपूर्वं भिक्षवो मलयवती नाम नगरी मनोरमैकास्ति नानोत्सवसमापन्ना बहुलोकसमाकुला विद्वज्जनसमायुक्ता महर्द्धिकजनाकुला नारीबहुसमाकीर्णा रूपयौवनमण्डिता नगरी लक्षणोपेता वृक्षप्राकारावृता ॥ तस्यां नगर्यां केतुविक्रमो नाम श्रेष्ठी प्रतिवसति महाढ्यो महाभोगो विस्तीर्णपरिग्रहो धनसमुदितः ।
अस्य चेतिका एकास्ति । तया चेतिकया प्रतिदिनं तस्योद्यानपुष्पाणि निचित्वा परिनिवृत्य काले मार्गे तथागतस्य केशनखस्तूपे कवलैकानि पुष्पाण्य् अवरोहयति सागत्य, केतुविक्रमस्य देवार्चनाय ददातीति । एवं सा चेतिका प्रतिदिनं तद्व्यपारे नियोजिता । तेन उद्यानचारिणी भवति ॥ तदनन्तरे काले लक्षसंख्यायां गच्छन्ति । तदा चैत्यदेवता प्रसन्नीभूय तया प्रसादः प्रतिलब्धः ॥ इहैव फलम् आप्यते । सा चेतिका परमसुन्दरीभूय सुशीलस्वभावाभूत्, पुनर् अपि तस्याः कोष्ठागारे धनधान्यसमृद्ध्या नानालंकारपरिपूर्णानि भवन्ति ॥ तदा सुखम् अनुभूयते ॥ तदा केतुविक्रमः परमाश्चर्यप्राप्तः, कथं मे चेतिकायाः कलेवरं सुष्ठु भूतं को हेतुः कः प्रत्ययः ॥ तथैवान्यलोका अपि उक्ताः के चिद् आहुः, बत भो कथं चेतिका विविधवस्त्रसंपन्ना भवति ॥ एवम् एवान्यजनास् तां दृष्ट्वाश्चर्यप्राप्ता अभूवन् ॥ ततस् तस्या अ ल्पायुः कालं कृत्वा, श्रावस्त्यां महानगर्याम् अन्यतमधर्मशीलो नाम श्रेष्ठी, तस्य प्रजापत्या ः कुक्षाव् उपपन्ना ॥ ततो दशमासात्यया दारिका जाता अभिरूपा प्रासादिका परमसुन्दरी, क्रमतः सा महती प्रवृत्ता ॥
तदाहम् एव श्रावकसंघैः श्रावस्त्यां विहरामि जेतवने ऽनाथपिण्डदस्यारामे । तेन खलु पुनः समयेन श्रावस्त्यां सालप्रभञ्जिका नाम पर्व प्रत्युपस्थितम् । तत्रानेकानि प्राणिशतसहस्राणि संनिपात्य सालपुष्पाण्य् आदाय क्रीडन्ति रमन्ति परिचारयन्ति ॥ तदा सा श्रेष्ठिदारिका सालपुष्पाण्य् आदाय श्रावस्तीं प्रविशति । भगवांश् च भिक्षुसंघपरिवृतः श्रावस्तीं पिण्डाय चरित्वा निर्गच्छति ॥ ददर्श बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलंकृतम् अशीत्य चानुव्यञ्जनैर् विराजितगात्रं व्यामप्रभालंकृतं सूर्यसहस्रातिरेकप्रभं जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकं दृष्ट्वा पुनः प्रसादजातया सालपुष्पैर् अवकीर्णः । ततः प्रदक्षिणीकृत्य प्रतिनिवृत्ता । भूयो ऽन्यानि गृहस्यार्थे आनेष्यामीति ॥ यावद् असौ सालवृक्षम् अधिरूढा पतिता भगवतः कृतोपस्थाना सा कालगता प्रणीतेषु देवेषु त्रायत्रिंशेषूपपन्ना ॥ यावद् सालपुष्पविमानालंकृता स्वर्गं स्वर्गाद् भ्रमन्ती रमन्ती ॥
एवम् एव भिक्षवः सा दारिका, यया अर्हन् मार्गे सालपुष्पैर् अवकीर्णः । तस्माद् भिक्षवस् तथागतेषु कारापयितव्या ः सत्कर्तव्याः । ईदृशं फलम् आप्यते । अथ भगवतो वचनं ( दक्: 153 ) प्रतिश्रुत्य प्रसादजातेन आनन्दो भगवन्तम् एतद् अवोचत् ॥
भगवन् कीदृशं नाथ लक्षपुष्पस्य यत् फलम् ।
श्रोतुकाम ं महाबाहो वद त्वं परमेश्वर

6

भगवान् आह ॥
प्रवक्ष्यामि समासेन लोकानां हितहेतवे ।
क्रमतो लक्षपुष्पाणां शृण्व् आनन्द अतन्द्रितः

7

ब्रह्महत्याशतं पापं शतजन्मकृतानि वै ।
रोहणं माघ्यपुष्पाणां शमयति न संशयः

8

कृष्णापराजिता येन प्ररोहन्ते नराः क्व चित् ।
सर्वपापहरा घोरा न् सर्वशत्रून् निकृन्तनम्

9

नानाविघ्नविनाशं च भुक्तिमुक्तिफलं भवेत् ।
भूपालसुख संप्राप्य देवराजपदं वरम्

10

श्वेतापराजिता नूनं प्ररोहन्ति च मानवाः ।
शान्तभूता धनाढ्याश् च नानाशास्त्रेषु पारगाः

11

धैर्यवीर्यसुसंपन्ना नानाबुद्धिसमन्विताः ।
भूपतेः पदं संप्राप्य जायन्ते स्वर्गगामिनः

12

सुवर्णयूथिकापुष्पं ये प्ररोहन्ति मानवाः ।
धनवान् भोगवान् भूत्वा विभवैः धनदसमाः

13

आरोहन्ति नराः श्रेष्ठाः करवीरकुसुमं परम् ।
सर्वलोकवशीप्राप्ता देवानां रतिवर्धनाः

14

दमनपुष्पं रोहन्ते मनुजा ये सुश्रद्धया ।
सुगन्धदेहगा नित्यम् अतृप्तरूप लभ्यते

15

कोकिलाक्षं प्ररोहन्ते जनवान् धनवान् भवेत् ।
यिद्यावतां कुले जातः सर्वलोकैः प्रपूज्यते

मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc