द्वाविंशत्यवदानकथा · अध्याय 13
इति द्वाविंशत्यवदानकथायां भोजनकथा द्वादशः परिच्छेदः ॥
xइइइ. पानकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तम् एतद् अवोचत् ॥
अपरं श्रोतुम् इच्छामि पानदानस्य यत् फलम् ।
तत् सर्वं वद वादीन्द्र सर्वलोकाभिभोधने
भगवान् आह ॥
शृणु मैत्रेय वक्ष्यामि पानदानस्य यत् फलम् ।
एकाग्रमानसो भूत्वा नूनं लोकहितेच्छया
ये संघे प्रतिपादयन्ति मुदिता स् तृष्णाच्छिदं पानकं हृद्यस्वादुरसान्वितं पटुतरं गन्धाभिरामं प्रियम् क्षित्वा ते ऽ भवलालसा भवभया ं तृष्णालतां प्रज्ञया
पारं यान्ति भवार्णवस्य नियतं दत्त्वा शुभं पानकम्
तद्यथानुश्रूयते ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अस्मिन्न् एव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां लोकनायकः काश्यपो नाम सम्यक्षंबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् वाराणसीं नगरीम् उपनिश्रित्य विहरति स्म ऋषिपतने मृगदावे ॥ तत्रान्यतमा अ ष्टौ भिक्षव अध्वानं प्रतिपन्ना भगवन्तं दर्शनाय ते सूर्यांशुभिर् दग्धास् तृष्णार्ताः कूपसंनिधौ गच्छन्ति । तत्रान्यतरा दारिका पानीयघटं ( दक्: 132 ) पूरयित्वा गता । ततो भिक्षवस् ताम् ऊचुः ॥ भगिनि पानीयम् अनुप्रयच्छेति ॥
ततस् तस्या मात्सर्यम् उत्पन्नम् । सागृहीतपरिष्कारा भिक्षून् उवाच ॥ भिक्षवो यदि म्रियेध्वं तथापि न युष्मभ्यं ददाम्य् अपि पानीयम् । घटो मे ऊनो भविष्यतीति ॥ ततो ऽमी भिक्षवस् तृषार्ता निराशया प्रक्रान्ताः ॥
ततो मगधविषये महाढ्यः सिंहकेतुर् नाम सार्थवाहस् तस्य पुत्री पानीयघटम् आदाय पानीयं गृहीतुं गृहद्वाराद् बहिर् निःसृता ॥ ततस् ते ऊचुः ॥
भद्रे दारिके ऽस्माकम् अतितृषा, पानीय ं पातुं तद् देहीति ॥
अथ सा दारिका परमचातुर्यधर्माशया तान् भिक्षून् उवाच ॥ भदन्तो भिक्षवः प्रविशध्वम् अत्र तिष्ठन्तु । अहम् एव प्रालेयपानीयं शीघ्रतरम् आनयामि ॥ इत्य् उक्त्वा सा दारिका प्रक्रान्ता, प्रक्रमित्वा पानीयघटं तूर्णम् आदाय स्वनिवेशनं प्रविश्य पितरम् उवाच ॥ तात भिक्षवो ऽस्माकं द्वारमूलेष्व् अवतिष्ठन्ति । अस्मिन्न् इदाद्यकाले परिश्रमतृषार्तेन चागताः । तेभ्यो गुडशर्करामरीचानि यथायोग्यानुसारैः परितानि ददातु, पानं प्रसज्ज्य ददामि ॥
ततः स सिंहकेतुः सार्थवाहः पुत्रीवचनम् उपश्रुत्य तथा दत्तवान् । सा दारिका परमप्रीत्या प्रसादजातेन तत्क्षणम् एव ( दक्: 133 ) शीतोदकैः शर्करादिगणैः पानं प्रसज्ज्य तेभ्यो दत्तवती ॥ तदा भिक्षुभिः संगृह्य पीतं पीत्वा च तां दारिकाम् ऊचुः ॥ भद्रे दारिके भद्रम् ।
भद्रम् अस्तु सदा भद्रे यच् चित्तं तद् अभीप्सितम् ।
चित्तोत्साहं तथा बुद्धे भवतु ते सदा शुभम्
अथ सा दारिका बुद्धनामाश्रुतपूर्वं च श्रुत्वा बुद्धस्य वर्णनं प्रसादजातेन तान् भिक्षून् उवाच ॥
भदन्तो भिक्षवः कुत्र कीदृशो भगवान् कथम् ।
बुद्धनाम न जानामि तद्विशेषं वद त गुणम्
भिक्षव ऊचुः ॥ महाप्रभावो हि दारिके बुद्धस्य । काश्यपो भगवान् सर्वसत्त्वेभ्यो धर्मं निर्दिश्य, अत्र ऋषिपतने मृगदावे विहरति ॥
अथ सा दारिका तान् भिक्षून् उवाच ॥ भिक्षवः काश्यपबुद्धे प्रसादो मे जातः ।
नियतं पूजयिष्यामि । काश्यपभगवते मद्वचनेन प्रणामम् अल्पाबाधताम् इति ब्रूथः ॥
ततो भिक्षवो ऽप्य् एवम् एव वक्ष्याम इत्य् उक्त्वा प्रक्रान्ताः ॥
अथाष्टौ भिक्षव ऋषिपतने मृगदावे येन भगवांस् तेनोपसंक्रान्ता उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ( दक्: 134 ) निषण्णाः । चैकान्ते निषण्णास् तस्या दारिकाया अल्पाबाधतां कुशलवार्त्तां प्रोचुः ॥ ततो भगवान् काश्यपः सभां कारितवान् ॥
अथ तस्या दारिकाया मनस्य् एतद् अभवत् । यन् न्व् अहम् अष्टौ भिक्षून् पानप्रदानैः संतोषिता, तत् तथा मे मनः संतोषिता भवामि । तथा भगवन्तं काश्यपं पानेन प्रतिपादयामि च संघान् ॥ ततः सा दारिका पितरं निवेद्य सज्जीकृता भगवन्तं मानितुम् ॥
ततः सिंहकेतुः सार्थवाहस् तस्या दारिकायाः प्रसादम् अभिवृद्ध्यर्थं यद् यद् अभिप्रायं तत् तत् तस्यै दत्तानि ॥ ततो ऽसौ दारिका भगवान् काश्यपः सश्रावकसंघः श्वो ऽन्तर्गृहे भक्ष्य् एण् ओपनिमन्त्रितः ॥ अधिवासितं च भगवता तस्या अनुग्रहार्थम् ॥ अथ सा दारिका प्रभूतगन्धमाल्यविलेपनसंग्रहं कृतवती ॥ सा चाहारपानादि सज्जीकृत्य भगवतो दूतेन कालम् आरोचयति ॥ समयो भदन्त सर्वं सज्जीकृतं, यस्येदानीं भगवान् काल ं मन्यत इति ॥
अथ काश्यपो भगवान् भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन सिंहकेतोः सार्थवाहस्य निवेशनं तेनोपसंक्रान्त उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः ॥ अथ सा दारिका सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा पादार्घं दत्त्वा पञ्चकामगुणैः स्वहस्तेन संतर्पिता ॥
पुनः स्वेच्छया कारितानि शर्करापानगुडपान-ओषधीपानक्षीरपानमधुरसपानानि समर्पितानि ॥ ततस् तत्लिआगतेन तस्याः प्रसादम् अभिवृद्ध्यर्थम् अतृष्णयापि सुखेन पीतम् । तथागतानां कदा चन तृष्णा न विद्यते न बुभूक्षा न श्रमो न स्त्यानमिद्ध ं न शीतोष्णता, न गात्रे मलेन सज्जते, पृथिव्याम् अवक्रमति रजसा नोपलिप्तपादस् तथापि पादप्रक्षालितं स्नानम् अपि कृतं लोकानुवर्तनार्थं सत्त्वानां फलप्राप्तिहेतोर् भुञ्जति पिबति । यद् यद् ददाति तत् तत् प्रतिगृहीतस् तथागतैः ॥ अथ सा दारिका तथागतेन सुखेन पीतं दृष्ट्वात्यन्त ं प्रसाद्य मूलनिकृन्तनम् इव भगवतः पादौ शिरसा वन्दित्वा प्रणिधानं कृतम् ॥
अनेन कुशलमूलेनाहं यत्र यत्रोपपद्यते तत्र तत्र जातौ जातौ जातिस्मरा भवेयम् । तद् अनुस्मृत्य बुद्धे भगवति पूजिते प्रसन्ना भवामि । तथागतं पूजासत्कारं करिस्यामीति ॥ ततः सा दारिका बुद्धेष्व् अभिप्रसाद्य कालगता प्रणीतेषु देवेषु त्रायत्रिंशेषूपपन्ना ॥ पञ्चशतपरिवारापरिवृता साभूद् दिव्यप्रासादे सुखोपविष्टे नानासंगीतिवाद्यप्रवादिते निष्पुंसके । अचिरोपपन्नस्य स्त्रिया वा पुरुषस्य वा त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युता कुत्रोपपन्ना केन कर्मणेति ॥ सा पश्यति, मानुष्येभ्यश् च्युता इहोपपन्ना । अपि तु काश्यपे भगवति सत्कारकृता तेन कुशलमूलेन देवेष्वूपपन्ना इति ॥
अथ सा पानदायिकादेवकन्याया एतद् अभवत् ॥ न मम प्रतिरूपं स्याद् यद् अहं
पर्युषितपरिवासा, काश्यपभगवन्तं दर्शनायोपसंक्रमेयम् इति ।
ज्ञानदर्शनं प्रवर्तते ॥ काश्यपो भगवान् बुधकार्यं कृत्वा निर्वाणं ययौ ॥ तस्य धातुस्तूपो महान् वर्तते ॥ अथ तस्या एतद् अभवत् ॥ अहो मन्दभाग्याहं कुत्र दर्शयेयम् अहं भगवन्तं काश्यपम् ॥ अथ सानुस्मरति श्रुतं मया, सर्षपफलमात्रं तथागतानां शरीरधातुं पूजयिष्यतिन्, तैर् विशुद्धिफलं प्राप्यते । पापात्मनः पापं प्रशमं गच्छति ॥ इत्य् उक्त्वा सा पानप्रदायिका ( दक्: 137 ) देवकन्या पञ्चशतपरिवारासुरकन्यापरिवृता रात्रौ प्रशान्तायां विविधानि मान्दारवाणि पारिजातादि गन्धमाल्यपुष्पधूपादिना गृहीत्वा यत्र काश्यपभगवतो धातुस्तूपस् तत्रागत्य मान्दारवैः पुष्पैर् अवकिरति ॥ अवकीर्य प्रदक्षिणीकृत्य स्वभवनं गता ॥
अथ तस्या ः पानप्रदायिकादेवकन्यायास् तृषा न बबाधे, तद् एव
मनुष्यभूते ऽष्टभ्यो ऽष्टाङ्गपानीयं निसृ ष् टम् अनेन कुशलमूलेन ।
तस्माद् भिक्षवो मनुजैः पानदानं प्रदातव्य म् उदपानकादि कर्तव्यं तडागवापीकूपपुष्करिण्यादि कर्तव्यम् ॥ भिक्षव ऊचुः ॥ प्रबोधो ऽहं सुगत प्रबोधो ऽहं भगवन् । अथाप्य् अन्या स्त्री भिक्षुभ्यो मात्सर्यकारिणी पानीयं न ददाति स्त्री कुत्र गता किं फलं प्राप्तम् इति ॥
भगवान् आह ॥ किं वक्तव्यं भिक्षवो ऽसौ दारिका तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना दग्धस्थूणाकृतिः स्वकेशरोमसंछन्ना सूचीच्छिद्रोपममुखा, ( दक्: 138 ) अस्थियन्त्रबहूच्छ्रितैः पर्वतोपमकुक्षि आदीप्ता प्रज्वलिता एकज्वलीभूता प्यायान्ती आर्तस्वरं क्रन्दन्ती तृषार्ता दुःखां तीव्रां खरां कटुकाम् अमनापां वेदना ं वेदयमाना ॥ अथ सा तृष्णया पानीयं पातुं यत्र यत्राभिगच्छति ततो दर्शनमात्रेण चास्या नद्युदपानानि शुष्यन्ति ॥ यदा देवो वर्षति तदास्या उपरि सविस्फुलिङ्गम् अङ्गारवर्षं पतति ॥
एवंविधां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयते ॥
तस्माद् भिक्षवो यन् मात्सर्यप्रहाणाय व्यायन्तव्यम् ॥
महापुण्यता पानदानता महानुशम्सा, पुनः शृणुत भिक्षवः ॥
प्रे ङ् खन्नीलसरोजगर्भम् अमलं यत् पद्मरागारुणं
काम्यं काञ्चनभाजने विनिहितं प्रालेयमिश्रं मधु ।
किंचित्ताम्रविलोचनप्रियतमाप्रत्यर्पितं पीयते
संगीतध्वनिसंगतं नरवरैस् तत् पानदानात् फलम्
यद् वैडूर्येन्द्रनीलप्रवरविरचितैर् भाजनैः शातकौम्भैर्
देवा दिव्याङ्गनाभिः स्तनकलशभरव्याप्तवक्ष ः स्थलाभिः ।
पानं प्रीतिप्रसक्ताः सह मधु मधुरं माधवं वा पिबन्ति
प्रोक्तं प्राज्ञैः फलं तद् गुणनिचितगणे पानदानस्य रम्यम्
यत् पानं वर्णगन्धप्रभृतिगुणयुतं कल्पितं तृड्विनाशि
श्लेष्माघातोग्रवातप्रशमनचतुरं पिप्पलीखण्डचूर्णम् ।
ग्रीष्मे प्रालेयभिन्नं शशिकरसदृशे भाजने संस्कृतं तद्
दत्त्वा संघे प्रभक्त्यामरभुवनगतो दिव्यम् आप्नोति पानम्
मधुमधुरम् उदारम् आदरेण प्रवरगणाय ददाति पानकं यः ।
दिवि भुवि सकले स पानम् अग्र्यं पिबति चिरं प्रवराङ्गनोपनीतम्
श्रद्धाप्रसन्नमनसो भुवि ये मनुष्याः संघाय पानकवरं प्रदिशन्ति काले । सम्सारपर्वतदरीतटवाससंस्थास् ते प्राप्नुवन्ति सततं मधुरं सुपानम्
ये संघे प्रतिपादयन्ति मुदितास् तृष्णाच्छिदं पानकं
हृद्यस्वादुरसान्वितं पटुतरं गन्धाभिराम ं प्रियम् ।
क्षित्वा ते ऽ भवलालसा भवभया ं तृष्णालात म् प्रज्ञया
पारं यान्ति भवार्णवस्य नियतं दत्त्वा शुभं पानकम्
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0