द्वाविंशत्यवदानकथा · अध्याय 12
एवं शिक्षितव्यं बुद्धेषु भावेषु परीतकर्मणो ऽपि महाफलं लभ्यते ॥
इति द्वाविंशत्यवदानकथायां मण्डलकथा एकादशमः परिच्छेदः ॥
xइइ. भोजनकथा
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वः सत्त्वानां कुशलसंजननार्थं भगवन्तं पुनर् उवाच ॥
भगवञ् छ्रोतुम् इच्छ्हामि, अन्नदानस्य यत् फलम् ।
तत् सर्वं ब्रूहि वादीन्द्र कथं सुगतभोजनम्
एवम् उक्ते भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वम् एवम् आह । शृणु मैत्रेय एकस्मिन्न् अन्तरे सश्रावकसंघो राजगृहे विहरामि वेणुवने कलन्दकनिवापे ॥
तस्मिन्न् अवसरे तत्र अन्यतरः श्रेष्ठी गृहपतिः प्रतिवसति स्म । आढ्यो महाधनो महाभोगो विस्तीर्णपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी तीर्थ् य् आभिप्रसन्नश् च स आयुष्मता महामौद्गल्यायनेनावर्जितः । शासने सावतारितो भगवत्य् अत्यार्थम् अभिप्रसन्नः ॥ स च गृहपतिर् उदारो ऽधिमुक्तस् तेनायुष्मान् महामौद्गल्यायन उक्तः । सहाया मे भवन्त, इच्छामि भगवतः पूजां कर्तुम् इति । अधिवासयत्य् आयुष्मान् महामौद्गल्यायनस् तस्य गृहपतेस् तूष्णीभावेन व्यवस्थितः ॥
अथायुष्मान् महामौद्गल्यायनस् तं गृहपतिम् आदाय येन भगवांस्
तेनोपसंक्रान्त उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः ।
एकान्ते निषण्ण आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत् ॥ अयं भदन्त गृहपतिर् आकाङ्क्षति भगवन्तं सश्रावकसंघं भोजयितुम् इति । तद् अस्य भगवान् अधिवासयन्न् अनुकम्पाम् उपादायेति । अधिवासयति भगवा ं स् तस्य गृहपतेस् तूष्णीभावेन ॥
अथ स गृहपतिर् भगवतस् तूष्णीभावेनाधिवासनां विदित्वा शतरसम् आहार ं समुपादाय भगवतः पुरतः पुष्पधूपगन्धमाल्यविलेपनानि च ॥ आयुष्मतापि महामौद्गल्यायनेन शक्रो देवेन्द्रो ऽ धीष्ठ ः क्रियताम् अस्य गृहपते र् उपसंहारम् इति ॥ ततस् तत्क्षणम् एव शक्रेण देवेन्द्रेण सर्वं वेणुवनं चन्दनवनं निर्मितम् ॥
ऐरावतसुप्रतिष्ठितसदृशानि च नागसहस्राणि वालव्यजनेन वीजयन्ति सुप्रियपञ्चशिखतुम्बुरुप्रभृतीनि चानेकानि गन्धर्वसहस्राण्य् उपचितानि, ये विचित्रैर् वाद्यविशेषैर् वाद्यं कुर्वन्ति दिव्यसुधाभोजनम् ॥
ततः स गृहपतिर् दिव्यमानुष्यैर् उपकरणैर् भगवन्तम् उपस्थाय सर्वाङ्गेन भगवतः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः ॥ अनेन कुशलमूलेनाहं चित्तोत्पादेन देयधर्मपरित्यागेन चान्धे लोके ऽनायके ऽपरिणायके बुद्धो भूयाम् इति ॥
अथ भगवांस् तस्य गृहपतेर् हेतुपरंपरां कर्मपरंपरां च ज्ञात्वा स्मितं प्राविष्करोति ॥ तस्मिन् समये नीलपीतलोहितावदाता अर्चिषो भगवतो मुखद्वारान् निश्चरन्ति । निश्चरित्वा, अध ऊर्द्धभवाग्रपर्यन्तम् अवभास्य । अथ ता अर्चिषो भगवन्तं त्रिप्रदक्षिणीकृत्य भगवत उष्णीषे ऽन्तर्हितो ऽभूत् ॥
अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ ॥
नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः ।
अवभासिता येन दिशः समन्ताद् दिवाकरेणोदयता यथैव
विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः ।
नाकारणं शङ्खम्मालगौरं स्मितम् उपदर्शयन्ति जिना जितारयः
तत्कालं स्वयम् अधिगम्य वीर बुद्ध्या श्रोतॄणां श्रवण जिनेन्द्र काङ्क्षतानाम्
।
धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्न ं व्यपन य
संशयं शुभाभिः
नाकस्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीरास् तं श्रोतुं समभिलषन्ति ते जनौघा इति
भगवान् आह ॥ एवम् एतद् आनन्दैवम् एतन् नाहेत्व् अप्रत्ययम् आनन्द ते तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति । पश्यानन्दानेन गृहपतिना ममैवंविधं सत्कारं कृतम् । एवं भगवत एष आनन्द गृहपतिर् अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च त्रिकल्पासंख्येयसमुदानीतां बोधिं समुदानीय करुणापरिभाविता ः षट् पारमिताः परिपूर्य दिव्यान्नदो नाम सम्यक्संबुद्धो भविष्यति । अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ॥
एतच् च प्रकरणं राजा बिम्बिसारो मागधाश् च परिचारकाच् छ्रुत्वा परं विस्मयम् आपन्नाः ॥
भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः ॥
पश्य भगवन् यावद् अनेन गृहपतिना भगवान् सश्रावकसंघो दिव्यमानुषिकाभिर् ऋद्धिभिर् अभ्यर्चित इति ॥
भगवान् आह ॥ तथागतेनैवैतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति । न हि भिक्षवः कर्माणि कृतान्य् उपचितानि । शुभाशुभानि पच्यन्ते, कदापि न प्रणश्यन्ति ॥
भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि पूर्णो नाम सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥ अथ पूर्णो नाम सम्यक्संबुद्धो जनपदचारिकं चरन् न् अन्यतमराजधानीम् अनुप्राप्तः । अश्रौषीद् राजा क्षत्रियः पूर्णसम्यक्संबुद्धो जनपदचारिकां चरन् स्वविषयम् अनुप्राप्त इति श्रुत्वा च पुनर् महत्या राजर्द्ध्या महता राजानुभावेन समन्वागतो येन पूर्णः सम्यक्संबुद्धस् तेनोपसंक्रान्त ( दक्: 128 ) उपसंक्रम्य पूर्णसम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः । एकान्ते निषण्णं राजानं क्षत्रियं पूर्णः सम्यक्संबुद्धो बोधिकरैर् धर्मैः समादापयति ॥
अथ राजा क्षत्रियो बुद्धे भगवति चित्तप्रसादजातः, पूर्णसम्यक्षंबुद्धं सश्रावकसंघं त्रैमासिकं चीवरपिण्डपात्रशयनासनग्लनप्रत्ययभैषज्यपरिष्कारैर् उपस्थाय भगवतः ससंघस्य विविधान्नपानभोज्यानि ददाति, भगवतो रत्नमयप्रतिमां कारयित्वा बुद्धहर्षं कारितवान् । यत्रानेकैः प्राणिशतसहस्रैर् महाप्रसादो लब्धः ॥
तद्धेतुकं तत् प्रत्ययं च ते परिनिर्वृताः ॥
कि ं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन राजा बभूवाहं स ः । यन् मया पूर्णसम्यक्संबुद्धस्य तादृशी भोज्यानि च पूजा कृता, तेन संसारे ऽनन्तं सुखम् अनुभूतं तेनैव च हेतुना तथागतस्य च मे श्रेष्ठिना शक्रेण च देवलोकैर् ईदृशी पूजा कृता । तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यच् छास्तारं सत्करिष्यामो गुरुकरिष्याम इति ॥
( दक्: 129 ) महानुशंसान्नदानभोजनस्य ॥ पुनश् च शृणुत ॥
कान्तापाणिसरोजपत्त्रविधृतां सद्वर्णगन्धोज्ज्वलां
स्वादुस्पर्शसुखां सुराः सुरपुरे यद् देववृन्दारकैः ।
भास्वत्काञ्चनभाजनेषु निहिताम् अश्नन्ति दिव्यां सुधां
तद् बुद्धप्रमुखार्यसंघविषये न्यस्तान्नदानात् फलम्
मैत्र्या यः सह किंकरैः स्मररिपुं निर्जित्य वज्रासने
क्लेशारीन् अपि यो दुरन्तविषयान् अन्तश्चरान् दुर्जनान् ।
स्कन्धारातिम् अपि प्रसह्य सुगतो मृत्युं च नीत्वा वशं
प्राप्तः सर्वरसाग्रभोगवशितां सो ऽप्य् अन्नदानोदयात्
संपूर्णसर्वाङ्गसमन्वितं च श्रीमत्सुखाद्यप्रतिभानयुक्तम् ।
आयुर् बलं वर्णम् उदाररूपं प्राप्नोति विद्वान् अशनप्रदानात्
निर्जित्य शत्रून् बलवीर्ययुक्तान् लक्ष्मीं समासाद्य च ये नरेन्द्राः ।
स्वादूनि भोज्यानि समाप्नुवन्ति भोज्यप्रदानाद् द्विपदास् तद् एतत्
अन्नदानं वरं श्रेष्ठम् अन्नदानात् परं न हि ।
क्षुद्दुःखार्तात् परं नास्ति तस्माद् अन्नं गरीयसम्
अन्नेन रहितो यश् च बलवीर्यं न चास्य च ।
कार्यकारण उत्साहे तस्योत्साहं न विद्यते
व्रतदेवार्चने चान्ये रतिक्रीडा विनश्यति ।
काले भुक्तं विहीनस्य कथाज्ञानं च हीयते
येषाम् अन्नविहीनानां सर्वधर्मं विषीदति ।
तस्मात् सर्वं प्रयत्नेन अन्नदानं तु चीयसे
मूल पाठ: Dvāviṃśatyavadānakathā · Edition: Mamiko Okada: Dvāviṃśatyavadānakathā. Ein mittelalterlicher buddhistische Text zur Spendenfrömmigkeit (Indica et Tibetica 24). Bonn : 1993 · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0